All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
अनेकार्थसंग्रहः · क्षकारादयः
[अथ] क्षकारादयो यथा ।
क्षत्ता द्वाःस्थे नियुक्ते च दासजे सारथावपि ।क्षीवो मत्ते नृशंसे च क्षणः कालान्तरे मतः ॥ ३७८ ॥
5.29.378 · p. 209
अनुष्टुप्
उत्सवेऽथ मतः क्ष्वेडो वक्रे च गरले तथा ।क्ष्वेडा सिंहध्वनौ देशे काले क्ष्वेडं दुरासदे ॥ ३७९ ॥
5.29.379 · p. 210
अनुष्टुप्
रोहितायाः फले पुष्पे क्षमा क्षान्तिर्धरित्र्यपि ।क्षमः क्षमायुते शक्ते क्षेमो लब्धस्य रक्षणे ॥ ३८० ॥
5.29.380 · p. 210
अनुष्टुप्
मोक्षे च मङ्गले क्षारो रसे काचे गुडादिके ।क्षुद्रा वेश्या नटी व्यङ्गी क्षरो मेघे क्षरं जले ॥ ३८१ ॥
5.29.381 · p. 210
अनुष्टुप्
क्षुद्रस्तु निर्धने क्रूरे निकृष्टे स्वल्पतुच्छयोः ।क्षेत्रं पत्न्यां भगे देहे केदारे भरतादिके ॥ ३८२ ॥
5.29.382 · p. 210
अनुष्टुप्