कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भल्लातक

bhallātakaवि · adj.

In 8 kośas: 5 synonym verses, 20 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.71 · p. 256
प्रियालः स्यादुपवटश्चाथ भल्लातकी त्रिषु ।पर्यायोऽग्न्यर्कयोश्चापि वातारिः स्यादरुःकरः ॥ ७१ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.198 · p. 483
भल्लातकामलकयोस्तारकाठकयोरपि ।हरीतकपिटकयोस्तद्वद्विभीतकस्य च ॥ १९८ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.25 · p. 145
दहनाह्वः शोथकरो भल्ली भल्लातकस्त्रिषु ।पत्रैस्तु केसराकारैः कलायसदृशैः फलैः ॥ २५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शो (wrong syllable)
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वतस्त्रिलिङ्गाधिकारः Koṣakalpataru 4.7.86 · p. 117
genderपुंस्त्रीक्लीm. f. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.177 · p. 13
भल्लातकः[क] स्फोटबीजोऽरुष्करस्तापनोबलः ।राजादनी निम्बबीजः शुकेष्टो राजवल्लभः ॥ १७७ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.

भल्लातक as a meaning in nānārtha verses

  • धरणिकोश अग्निमुखमहाशङ्खो निधौ दृष्टः संख्याभेदे नरास्थिनि । अग्निमुखस्तु विख्यातो देवे भल्लातकेऽपि च ॥ Dharaṇikośa 2.2.8
  • धरणिकोश अरुष्करअरुष्करः स्याद्वणकृद्भल्लातकमरुष्करम् । अश्वतरो नागराजे गोपुत्रे चापि गर्दमे ॥ Dharaṇikośa 26.2.68
  • कोषकल्पतरु वह्निवह्निर्हुताशे नरि चित्रके च भल्लातके वह्निसमोऽपि चाग्निः । पृश्निर्मयूखे मिथुने जनन्यां विष्णोः स्त्रियामल्पतनौ तु भेद्ये ॥ ६ ॥ Koṣakalpataru 6.21.6
  • कोषकल्पतरु तपनदन्तेऽद्रिशृङ्गे दशनोऽथ वर्म- ण्यन्तेऽथ भानौ तपनोऽथ तापे । भल्लातके स्यान्नरकान्तरेऽन्त्ये ऽथापायदान्त्योः कदनं तथैव ॥ ११ ॥ Koṣakalpataru 6.21.11
  • कोषकल्पतरु मदनवसन्तवृक्षे रतिनायके च धत्तूरवृक्षे मदनस्तुरुष्के । भल्लातके स्याद्दहनो हुताशे दुष्टेङ्गिते स्यादपि चित्रके च ॥ १५ ॥ Koṣakalpataru 6.21.15
  • कोषकल्पतरु अरुष्करभल्लातके व्रणकरे विशेष्यलिङ्गं समाम्नातम् । सहचर उक्तो द्वन्द्वे झिण्ट्यां सख्यौ निरोद्धरि च ॥ ९१ ॥ Koṣakalpataru 6.27.91
  • कोषकल्पतरु भल्लपुंस्यच्छभल्लेऽथ नपुंसि नान्त्ये भल्लातके वारुणि तु त्रिलिङ्गः ॥ ७३ ॥ Koṣakalpataru 6.28.73
  • कोषकल्पतरु वीरवृक्षस्याद्गुग्गुलुद्रौ च पलाशलाक्षा- मुण्डीरिकासु स्त्र्यथ राक्षसे ना । सूर्येऽम्बुधा[87a]वव्यथिषः पुमान्स्या- त्स्त्रियां रजन्यां गदितो धरण्याम् । स्याद्वीरवृक्षः ककुभद्रुमे च भल्लातके स्यादथ राजवृक्षः ॥ ७१ ॥ Koṣakalpataru 6.30.71
  • नानार्थार्णवसंक्षेप अग्निगुग्गुलूलूककुटजेष्विन्द्रस्याग्नेस्तु चित्रके । भल्लातकेऽप्यथार्कस्य भल्लातक्यर्कपर्णयोः ॥ २ ॥ Nānārthārṇavasaṃkṣepa 2.2.2
  • नानार्थार्णवसंक्षेप अरुष्करअरुष्करस्तु पुंसि स्याद् भल्लातकमहीरुहे । त्रि तु व्रणकृति त्रि स्यादृजुगामिन्यजिह्मगः ॥ ५१ ॥ Nānārthārṇavasaṃkṣepa 6.51
  • शिवकोष पावकपालङ्कः शल्लकी शाकभेदयोरथ पावकः । भल्लातके विडङ्गे च वह्निमन्थे च चित्रके ॥ ३३ ॥ Śivakoṣa 1.3.33
  • शिवकोष अग्निअग्निर्भल्लातके चित्रे घनो मुस्ते घनं त्वचि । ज्योत्स्नी पटोलिकायां स्याज्ज्योत्स्ना श्यामलघोषयोः ॥ २४३ ॥ Śivakoṣa 16.243
  • शिवकोष भल्लीबालोऽस्त्रियामाचमने यूथीबालैलयोः स्त्रियाम् । भल्ली भल्लातके भल्लोऽरलौ शालोक्षिपीलुके ॥ ४४६ ॥ Śivakoṣa 23.1.446
  • शिवकोष वीरवृक्षकिंशुके च पुमान् वीरवृक्षो भल्लातकेऽर्जुने । भूतवृक्षस्तु शाखोटे श्योनाके च विभीतके ॥ ५२४ ॥ Śivakoṣa 26.3.524
  • शब्दरत्नावली पावकपावकोऽग्नौ विडङ्गे च भल्लातके च चित्रके । प्रियकः पीतशाले स्यात् नीपचित्रमृगालिषु ॥ Śabdaratnāvalī 7.1.101
  • शब्दरत्नावली वृषाङ्कवृश्चिको राशिभेदे स्याद् द्रूणे कीटौषधीभिदोः । वृषाङ्कः साधुशिवयोः भल्लातकमहल्लयोः ॥ Śabdaratnāvalī 7.1.142
  • शब्दरत्नावली अरुष्करअरुष्करो व्रणकरे भवेद्भल्लातकेऽपि च । भवेदभिसारो युद्धे वधे च बलसाधने ॥ अत्युत्तरं त्रिषु ज्येष्ठे प्रतिवाक्यविवर्जिते । अलङ्कारोऽलङ्कारणे हारादावुपमादिके ॥ Śabdaratnāvalī 7.27.113
  • शब्दरत्नावली भल्लवेला स्त्री कालसीमाब्धिकूलेष्वीश्वरभोजने । भल्लः स्यात्पुंसि भल्लुके भल्लातकास्त्रयोर्द्वयोः ॥ Śabdaratnāvalī 7.28.29
  • शब्दरत्नावली वीरवृक्षरास्नाकिंशुकयोः स्त्री तु राक्षसे तु पलङ्कषः । वीरवृक्षस्तु भल्लातककुभद्रुमयोरपि । भूतवृक्षस्तु शाखोटद्रुमश्योनाकवृक्षयोः ॥ Śabdaratnāvalī 7.31.34
  • वैजयन्ती अग्निगुग्गुलूलूककुटजेष्विन्द्रस्याग्नेश्च चित्रके । भल्लातकेऽप्यथार्कस्य भल्लातक्यर्कपर्णयोः ॥ २ ॥ Vaijayantī 8.6.2