All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
लिङ्गसङ्ग्रहः · स्वतस्त्रिलिङ्गाधिकारः
॥ इति स्त्रीनपुंसकलिङ्गाः ॥
स्वतस्त्रय्यां सुरा पाने साक्तुकः (?) परिकीर्तितः ॥ ८५ ॥
4.7.85 · p. 117
हरीतकविभीतकामलकवच्च भल्लातका-ढकौ पिटक-तारकौ करक ईरितोऽब्दोपले ।स्फुलिङ्गस[दृ]शं विडङ्गमथ किंच केदारका-र्थकश्च वलजो वटः पटपुटौ[235b]तटः पेटवत् ॥ ८६ ॥
4.7.86 · p. 117
पृथ्वीmetre not read in every line
वाटः कवाटः शकटः कटश्चषष्टिर्मठः कुण्डनिभश्च नीडः ।रेणुर्विषाणोऽपि च तूणयुक्तोमुस्तस्तथा कङ्कतवत्कुथश्च ॥ ८७ ॥
4.7.87 · p. 117
इन्द्रवज्रा
समेऽर्द्धो इङ्गुदो जृम्भो दाडिमं कन्दरं [दरम्] ।पात्रं छत्रं च वल्लूरं नखरं पिठरं पुरम् ॥ ८८ ॥
4.7.88 · p. 117
अनुष्टुप्
तारं तथा प्रतिसरं खलं तु पवनस्थले ।शललं शल्यरोमार्थं कुवलं पटलार्गलौ ॥ ८९ ॥
4.7.89 · p. 118
अनुष्टुप्
पूलावहेलौ समृणालनालौसशृङ्खलौ मण्डल-कन्दलौ च ।तद्वत्प्रदिष्टः कलशस्तथेषुस्तथा कटाहं च समामनन्ति ॥ ९० ॥
4.7.90 · p. 118
उपजातिः