कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मन्दुरा

mandurāस्त्री · fem.

In 14 kośas: 15 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.998 · p. 39
हस्तिशाला तु चतुरं वाजिशाला तु मन्दुरा ॥ ९९८ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पुरवर्गः Amarakośa 2.2.8
चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.296 · p. 35
आवेशनं शिल्पिशाला वाजिशाला तु मन्दुरा ।पण्यविक्रयशाला स्यादापणो विपणिस्तथा ॥ २९६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.47 · p. 13
प्रासादः पुंस्यथाढ्यस्य गृहे हर्म्यं नपुंसकम् ।हस्तिशाला तु चतुरं वाजिनां मन्दुरानना ॥ ४७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.27 · p. 463
धारा परम्परा गुन्द्रा छत्रा दंष्ट्रा च भस्त्रया ।प्रतिसीरा च मथुरा मात्रा भद्रा च मन्दुरा ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.34 · p. 123
अन्वासनं चाथ कुम्भशाला पाकपुटी भवेत् ।संदानिनी तु गोशाला वाजिशाला तु मन्दुरा ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.
नाडीपूर्वं व्रणं पुंसि भवति । अयं नाडीव्रणः । नाड्युपपद इति किम् । दुष्टव्रणम् । वृक्षादयः पुंसि भवन्ति । अयं वृक्षस्तरुः । जनो लोकः । पांसुश्चूर्णम् । कन्दुः स्वेदनी । कलशो घटः । पञ्जरादीनि इतरजातौ नपुंसके जानीयात् । इदं पञ्जरं शकुनिबन्धनम् । पलितं जरा । द्वन्द्वं वैरम् । अक्षरं वर्णः ।मेधारसनानिद्रातन्द्रातन्त्र्यः स्त्रियां समञ्जिष्ठाः ।मदिरा मन्दुराकृशरे स्यातां वाक्षदुन्दुभिश्च ॥ ६३ ॥
metre not recognised
genderस्त्रीfem.
स्थाल्यादीनां स्त्रीत्वं भवति । इयं स्थाली रन्धनभाण्डम् । सभा गोष्ठी । जरा वृद्धत्वम् । स्थली उच्चनिर्जलो देशः । वीची तरङ्गः । छविर्लावण्यम् । कटिः श्रोणी । मञ्जरी वृक्षस्य । वल्ली लता ।शिल्पं छर्दिस्त्वन्नं शमलमरकतपलाशकृच्छ्राणि ।मन्दिररिक्ते च नपुंसके मन्दुरां तु स्त्रियां विद्धि ॥ ८० ॥
metre not recognised
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.276 · p. 38
विहारोऽपि च तत्रैव कायमानं तृणगृहम् ।संधानी कुप्यशाला स्यान्मन्दुरा वाजिनां गृहम् ॥ २७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ण (wrong syllable)
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.19 · p. 27
आवशनं शिल्पिगेहे वाजिगेहे तु मन्दुरा ।प्रतिश्रयः सत्रगेहे बेला गञ्जा सुरागृहे ॥ १९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.11 · p. 1
वातायनं वाजिशाला मन्दुरा वेशनं कलम् ।शिल्पशाला शिल्पगृहं गजशाला गजालयम् ॥ ११ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 शि (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1713 · p. 276
वाजीशालाऽश्वशाला स्याद् वाजीशालं च मन्दुरा ॥ १७१३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पुरवर्गप्रकाशः Śabdaratnāvalī 3.2.16 · p. 51
बुद्धालये वृक्षभेदे चैत्यमायतनं द्वयम् ।वाजिशाला मन्दुरा स्यात् पानीयशालिका प्रपा ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 य (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.847 · p. 107
वेश्याजनाश्रयो वेशो मण्डपोऽस्त्री जनाश्रयः ।हस्तिनां चतुरं शाला वाजिशाला तु मन्दुरा ॥ ८४७ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.21 · p. 160
कुप्यशाला तु सन्धानी पक्षिशाला कुनालिका ।चतुरं हस्तिनां शाला वाजिशाला तु मन्दुरा ॥ २१ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.47 · p. 172
मन्दुरा वाजि[82]शालायां शयनार्थे च वस्तुनि ।वर्वरा कुसुमे शाके वर्वराः प्राकृता जनाः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.79 · p. 328
त्वक्पत्रं तु वराङ्गौषधके प्रोक्तं [ स्त्रियां ] च कारव्याम् ।दैत्यारिरिन्द्रहर्योर्मुनिपक्षिभिदोस्तु तित्तिरिः [ प्रोक्तः ] ।स्यान्मन्दुराश्वशाला … ।… भ्यर्णगवेस्त्वर्थका तद्वत् ( ? ) ॥ ७९ ॥
metre not recognised
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.95 · p. 272
मन्थरः पुंसि मत्थानवाधकोषफलेषु च ।पृथुवक्रमन्दगामिजडेष्वपि भवेत्त्रिषु ॥मकरो जलजन्तौ स्यान्निधिराशिविशेषयोः ।मयूरो बर्हिचूडायामपामार्गशिखण्डिनोः ॥महेन्द्र इन्द्राचलयोर्मधुत्रः कामुकालियोः ।मन्दुरा वाजिशालायां तथा शयनवस्तुनि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्र (wrong syllable)