कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रंहस्

raṃhasक्ली · neut.

In 14 kośas: 14 synonym verses, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.204 · p. 23
जङ्घालोऽतिजवो जङ्घाकरिको जाङ्घिको जवी ।जवनस्त्वरिते वेगे रयो रंहस्तरः स्यदः ॥ ४९४ ॥जवो वाजः प्रसरश्च मन्दगामी तु मन्थरः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.46
शरीरस्था इमे रंहस्तरसी तु रयः स्यदः ।जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ॥ ६४ ॥सत्वरं चपलं तूर्णमविलम्बितमाशु च ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.443 · p. 51
रंहस्तरः स्यदः स्यात्प्रसरो वेगो रयो जवो वाजः ।पांशुः क्षोदो रेणुश्चूर्णं धूली रजश्च तुल्यार्थाः ॥ ४४३ ॥
गीतिः
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर प्रथमोपदेशः Bālaprabodhikā 1.30 · p. 68
रंहस्तरः स्यात्प्रसभो जवो वेगः स्यदो रयः ।कुबेरो यक्षराड्यक्षः सोमोऽप्यैलबिलस्तथा ॥ ३० ॥
अनुष्टुप्
genderक्लीneut.
कोषकोशौ वेषवेशौ धूलिधूल्यौ समे मते ।रंहो रङ्घोऽपि निर्दिष्टमधोऽङ्घश्चोच्यते बुधैः ॥ २६६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.164 · p. 24
क्लीबे तु रंहस्तरसी अथ शीघ्रं लघु द्रुतम् ।त्वरितं सत्वरमरं तूर्णमाश्वविलम्बितम् ॥ १६४ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 172 · p. 83
क्षिप्राशुमङ्क्ष्वरं शीघ्रं सहसा झटिति द्रुतम् ।तूर्णं जवः स्यदो रंहो रयो वेगस्तरो लघुः ॥ १७२ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.159 · p. 121
जङ्घाकरिकनामासौ त्वरितो जवनो जवी ।वेगो जवो रयो वाजस्तरो रंहः स्यदः पुनः ॥ १५९ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.103 · p. 14
अरं तु त्वरिते प्रोक्तं जवे रंहस्तरस्त्वरा ।स्यादैलबिल एनाङ्कश्चैकपिङ्गो महाशुगः ॥ १०३ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.106 · p. 45
त्वरितं सत्वरं शीघ्रं तूर्णं क्षिप्रं द्रुतं लघु ।जवो वेगो रयो रंहस्तरो मन्दे तु मन्थरः ॥ १०६ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.770 · p. 110
जवो वाजस्तथा वेगो रयो रंहस्तथा तरः ॥ ७७० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.153 · p. 11
एते पञ्च शरीरस्था वायवः परिकीर्तिताः ।वेगः स्यदो जवो रंहस्तरसी रय इत्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.130 · p. 17
समे तु रंहस्तरसी जवो वेगो रयः स्यदः ।द्रुतं तूर्णं लघु क्षिप्रमरमाश्वविलम्बितम् ॥ १३० ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.55 · p. 13
रंहस्तरः क्ली प्रसभो जवो वेगः स्यदो रयः ।कुबेरो यक्षराड्यक्षः कुतनुः किन्नरेश्वरः ॥ ५५ ॥
अनुष्टुप्
genderक्लीneut.

रंहस् as a meaning in nānārtha verses

  • शब्दरत्नाकर वेगव्युष्टिः फले समृद्धत्वे वेगः किंपाकरंहसोः । क्लीबे वारिजले स्त्री तु वारणग्रहणस्थले ॥ १९९६ ॥ Śabdaratnākara 4.1.1996
  • वैजयन्ती वेगबृन्दविन्यासयोर्व्यूहो वृषोक्ष्ण्यऽग्र्ये पुमिन्द्रयोः । वृत्राः शत्रुतमोदैत्या वेगः किंपाकरंहसोः ॥ ५६ ॥ Vaijayantī 6.1.56
  • वैजयन्ती तरस्त्रपु सीसे च रंगे च तरसी बलरंहसी । तीर्थं मंत्राद्युपाध्यायशास्त्रेष्वंभसि पावने ॥ १३ ॥ Vaijayantī 6.3.13