दुहितृ
duhitṛस्त्री · fem.In 16 kośas: 14 synonym verses, 13 as a meaning of another word.
आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी ॥ २७ ॥आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे ।
अनुष्टुप्
genderस्त्रीfem.
दुहिता तनया पुत्री जामाता दुहितुः पतिः ।दौहित्रस्तत्सुतो नप्ता स च पौत्रश्च कथ्यते ॥ ५०५ ॥
अनुष्टुप्
genderस्त्रीfem.
बीजी तु सप्तमः पूर्वं पुमान्याभिरथाप्यमी ।पुत्रादयः स्त्रियामाहुर्दुहिताथ प्रजास्त्रियाम् ॥ ८३ ॥
अनुष्टुप्
genderस्त्रीfem.
प्राहुर्दुहितरं सर्वे पुत्रका पुत्रिकापि सा ।नन्दन्ती नन्दिनी च स्याद्धातकी च निगद्यते ॥ ६९ ॥
अनुष्टुप्
genderस्त्रीfem.
उद्वहस्तनयः पोतो दारको नन्दनोऽर्भकः ।स्तनन्धयोत्तानशयौ स्त्री चेद्दुहितरं विदुः ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
सुतायां दुहिता पुत्री तुक्प्रजा तद्द्वयं मतम् ।पुत्रिकायां तथा स्त्रीत्वे तोकापत्यप्रसूतयः ॥ २०६ ॥
अनुष्टुप्
genderस्त्रीfem.
तोकं पुत्रदुहित्रोश्च पुत्रे चोरस्य इष्यते ।पुत्रिकायां तु दुहिता दुही दोग्धीति कथ्यते ॥ ९८ ॥
अनुष्टुप्
genderस्त्रीfem.
दौहित्रो दुहितुः पुत्रो दुहिता तनया सुता ।दौहित्री दुहितुः पुत्री मातुली मातुलप्रिया ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
नन्दनस्तनयः पुत्रो दारकः सूनुरुद्वहः ।सुतोऽङ्गज आत्मजश्च पुत्री तु दुहिता सुता ॥ ११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज (wrong syllable)
genderस्त्रीfem.
धीदा समर्धुका चापि दारिका दुहिता तथा ।देहसञ्चारिणी पुत्री तनया चेति कथ्यते ॥ ८६६ ॥
अनुष्टुप्
genderस्त्रीfem.
आत्मजा दुहिता पुत्री पुत्रिका तनुजा सुता ।अपत्यं पुत्रका स्वजा तनयापि च नन्दिनी ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स्व (wrong syllable)
genderस्त्रीfem.
योनिमत्प्राणिनामपि स्त्रियां माता स्वसा वधूः ।ननान्दा दुहिता धेनुर्योषिदित्याद्यश्च दिक् ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 म (wrong syllable)
genderस्त्रीfem.
जनकः सविता पुत्रस्तनयः सूनुरात्मजः ।नन्दनस्तनया पुत्री दुहिता च सुता तयोः ॥ ११२३ ॥
अनुष्टुप्
genderस्त्रीfem.
समदुर्दुहिता पुत्री द्वितीयः कुलधारकः ।पिता जनयिता वप्ता शिशुकः क्षीरकण्ठकः ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
दुहितृ as a meaning in nānārtha verses
- धरणिकोश तोकतोके दुहितृपुत्रौ स्तः शल्के शकलवल्कयोः । वल्कं स्याद्वल्कले खण्डे पङ्कं कर्दमपापयोः ॥ Dharaṇikośa 1.1.3
- धरणिकोश अपत्यअपत्ये दुहितृसुतौ लौहित्यौ व्रीहिसागरौ । श्वशुर्यौ देवरश्यालौ विस्मयाऽद्भुतगर्वयोः ॥ Dharaṇikośa 25.1.12
- कोषकल्पतरु अपत्यआकल्पेऽपि च रङ्गभुव्यतिथिषु त्वातिथ्य उक्तोऽन्तिमे स्यादर्थेऽतिथये सुते दुहितरि प्राज्ञैरपत्यं स्मृतम् । सामर्थ्यं किल योग्यतातिबलयोर्व्रीहौ पुनः सागरे लौहित्यश्चरमे पुनर्निगदितो ज्ञैर्लोहितत्वार्थकः ॥ ७२ ॥ Koṣakalpataru 6.26.72
- नानार्थार्णवसंक्षेप नानानानाशब्दस्तु भारत्यां जनन्यां दुहितर्यपि । नासा तु नासिकायां स्याद् गृहद्वारोर्ध्वदारुणि ॥ ५५ ॥ Nānārthārṇavasaṃkṣepa 2.1.55
- नानार्थार्णवसंक्षेप पुत्रीपुत्रस्तु तनये पुंसि पुत्री दुहितरि स्त्रियाम् । पुटी त्रयी करण्ड्यां क्ली नगरे ना समुद्गके ॥ ७९० ॥ Nānārthārṇavasaṃkṣepa 2.5.790
- नानार्थार्णवसंक्षेप वशाह्रीबेरे क्ली वशा तु स्त्री वन्ध्यायां दुहितर्यपि । स्त्रीमात्रे चेति केषाञ्चिन्मतमन्ये तु मन्वते ॥ ११६३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1163
- नानार्थार्णवसंक्षेप सूनासूना वधे वधस्थाने स्याच्च दण्डार्पिताङ्कुशे । अधःसिरायां जिह्वाया(स्तुधा ? स्तथा) दुहितरि स्मृता ॥ १५४० ॥ Nānārthārṇavasaṃkṣepa 2.5.1540
- नानार्थार्णवसंक्षेप सूनुसूनुस्तु पुंसि पुत्रे स्याद् भ्रातर्यप्यजयोऽब्रवीत् । इयं दुहितरि स्त्री स्यादथ सृप्रं नपुंसकम् ॥ १५४८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1548
- शब्दरत्नावली तोकतोकं पुत्रदुहित्रोश्च त्विकः स्यात् कोककाकयोः । न्यङ्कुर्ना मनिमृगयोः नाकः स्वर्गान्तरीक्षयोः ॥ Śabdaratnāvalī 7.1.12
- शब्दरत्नावली पुत्रिकापुत्रिका स्यात् पुत्तलिका दुहित्रोर्ना पतङ्गके । पुत्रे धूर्ते द्रुमे शैलेऽप्यनुकम्पान्विते जने ॥ Śabdaratnāvalī 7.1.107
- शब्दरत्नावली झलाकदम्बभूरुहे क्लीबं जाली पटलिकौषधौ । झला स्त्रियां दुहितरि स्यादूर्म्य्यातयोरपि ॥ Śabdaratnāvalī 7.28.15
- त्रिकाण्डशेष झलाझलाऽऽतपोर्मिर्दुहिता तलं मूलचपेटयोः । तालो गीतक्रियामाने हरिताले द्रुमान्तरे ॥ ३९४ ॥ Trikāṇḍaśeṣa 3.3.394
- वैजयन्ती वशावशी करिण्यां वन्ध्यायां रामायां दुहितर्यपि । वशो जनस्पृहायत्तेष्वायत्तत्वप्रभुत्वयोः ॥ ७१ ॥ Vaijayantī 6.5.71