कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

चतुर्थः परिच्छेदः · पूर्णाहुतिः

इति श्रीकायस्थचिरवारीयमाथुरवंशविभूषणमणिश्रीमद्गढमलाङ्गज-

श्रीमत्परमानन्दनन्दनन्दनविरचितायां परमानन्दीयनाममालायां

चतुर्थः परिच्छेदः समाप्तः ॥

॥ ओम् ॥

नमः श्रीजगदीशाय नमो वाण्यै निरन्तरम् ।नमो मे गुरवे भूयान्नमो विप्रकुलाय च ॥ १ ॥
4.1.1 · p. 158
अनुष्टुप्
सुरविटपीव फली सन् श्रीमत्कायस्थमाथुरो वंशः ।चिरवारीयकनामा भेदः ख्यातस्तदीयोऽस्ति ॥ २ ॥
4.1.2 · p. 158
आर्या
गोपावले माननरेन्द्रपार्श्वा-दवापि येनाद्य च दुर्धरत्वम् ।श्रीघाटमोऽभूत्स्पृहणीयकीर्तिःपरोपकारप्रतिबद्धचेताः ॥ ३ ॥
4.1.3 · p. 158
उपजातिः
तदङ्गजः श्रीहरिदासनामाबभूव भाग्योदयचण्डभानुः ।त्रयोऽभवन् तत्तनया गुणाढ्याःपरोपकारप्रथिता जगत्याम् ॥ ४ ॥
4.1.4 · p. 158
उपेन्द्रवज्रा
पर्शुरामस्तदाद्योऽभूद्द्वितीयश्चतुराभिधः ।नरेन्द्रचन्द्र इत्याख्यस्तृतीयः सोदरोऽभवत् ॥ ५ ॥
4.1.5 · p. 158
अनुष्टुप्
पर्शुरामेण संप्राप्तं श्रीमत्साहिसिकन्दरात् ।साम्राज्यं यवनपुरे सदादानैकवृत्तिना ॥ ६ ॥
4.1.6 · p. 158
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
स्वर्णयज्ञोपवीता[86]दि ब्राह्मणेभ्यो ह्यनेकशः ।पवित्रात्मा महादानं पर्शुरामो ददौ सुधीः ॥ ७ ॥
4.1.7 · p. 158
अनुष्टुप्
नरेन्द्रचन्द्रेण जगद्धितेनभागीरथी लक्षकजैः पुपूजे ।परोपकारव्रतिनानघेनश्रीकृष्णपादाम्बुजसेवकेन ॥ ८ ॥
4.1.8 · p. 159
उपजातिः
नरेन्द्रचन्द्रस्य च धर्मपत्नीमहासती श्रीपहवाभिधाना ।असूत पुत्रं गढमल्लसंज्ञंमणिं यथारोहणभूध्रभूमिः ॥ ९ ॥
4.1.9 · p. 159
उपेन्द्रवज्रा
विपुलरुचिरकीर्तिः स्फारकन्दर्पमूर्ति-र्विशदसुकृतपूर्तिः स्फूर्तियुक्तो बभूव ।गढमलनरनाथो विष्णुपादाब्जहंसःप्रवरगुणसमुद्रः स्वीयवंशावतंसः ॥ १० ॥
4.1.10 · p. 159
मालिनी
तद्धर्मपत्नी सुषुवे सुतान्वरान्श्रीप्पारमाख्या गुणरत्नखानिः ।यस्याः सुशीलांशतुलां न चान्याकान्ता समाप्नोदखिलावनीतले ॥ ११ ॥
4.1.11 · p. 159
upajati mixed
नरहरिदासः प्रथमः परमानन्दो द्वितीयको विद्वान् ।तृतीयो मनोहराद्यो दासाग्रो गुणिजनाभीष्टः ॥ १२ ॥
4.1.12 · p. 159
आर्याmetre not read in every line
जयति जगति जाग्रत्कल्पवृक्षावदातःपटुतरगुणपत्रो बैबुधाधारभूतः ।सुकृतवशनिरीक्ष्यः सर्वदैकस्वरूपःपरमपदसुपूर्वानन्दनामा नरेन्द्रः ॥ १३ ॥
4.1.13 · p. 159
मालिनी
अरिकुमुदसमूहं मुद्रयन्हर्षयन्वैद्विजकुलजलजं संराजतां राजमान्यः ।परमपदसुपूर्वो यत्र शब्दो बभूवा-धिकतपरकान्त्यानन्दसूर्यः ससार्थः ॥ १४ ॥
4.1.14 · p. 159
मालिनीmetre not read in every linenearly मालिनी
अन्येषामुपकाराय स्वीयबोधाय च स्फुटम् ।नाममालाममूं चक्रे परमानन्दठक्कुरः ॥ १५ ॥
4.1.15 · p. 160
अनुष्टुप्
परमानन्दस्य सुतो विजयी मकरन्ददासनामास्ति ।इन्द्रस्येव जयन्तः सर्वजनानामभीष्टगुणः ॥ १६ ॥
4.1.16 · p. 160
आर्या
यावद्गोविन्दनामानि धामानि च दिवौकसाम् ।तावच्छ्रीपरमानन्दी नाममाला प्रवर्तताम् ॥ १७ ॥
4.1.17 · p. 160
अनुष्टुप्
वसुभुवनर्तुनिशामणिवर्षे हर्षेण फाल्गुने मासि ।प्रतिपदि शुक्रे वारे पूर्णेयं पुण्यवेलायाम् ॥ १८ ॥
4.1.18 · p. 160
आर्या