कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

लिङ्गानुशासनम्

इति श्रीमत्कायस्थकुलालंकारहारश्रीमद्गढमलसुतश्रीपरमानन्दनन्दनन्दन-

विरचितायां परमानन्दीयनाममालायामनेकार्थसंग्रहः समाप्तः ।

करकृतमपराधं क्षन्तुमर्हन्ति सन्त इति कोविदैर्विचार्यम् ।

शुभमस्तु

॥ [इत्यनेकार्थसंग्रहः समाप्तः] ॥

लिङ्गानुशासनम् ।

ॐ स्वस्ति श्रीगोस्वामिने नमः ।

नामानुशासनमिदं सम्यग्लिङ्गानुशासनाधीनम् ।तस्मात्तद्बोधार्थं कुर्वे किंचित्प्रयत्नमहम् ॥ १ ॥
6.1 · p. 211
आर्या
उत्सर्गेण विधिं वक्ष्येऽपवादेनापि कुत्रचित् ।आद्यः सामान्यसंज्ञोऽत्यो विशेषः स्तोकगोचरः ॥ २ ॥
6.2 · p. 211
अनुष्टुप्
उत्सर्गेण यथा विष्णोः पुंलिङ्गे नामसंचयः ।परब्रह्मादिकं चास्यापवादेनात्यथापि च ॥ ३ ॥
6.3 · p. 211
अनुष्टुप्
एवं रुद्राब्जभूकामनामानि स्युर्नरे परम् ।विशेषो वर्तते तद्वद्यथायोगं निरीक्ष्यताम् ॥ ४ ॥
6.4 · p. 211
अनुष्टुप्
वक्ष्यमाणविधिः प्राय उत्सर्गेणैव कथ्यते ।विशेषो वक्ष्यते त्वग्रे पुंनपुंसकसंग्रहे ॥ ५ ॥
6.5 · p. 211
अनुष्टुप्