कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

अनेकार्थसंग्रहः · शकारादयः

[अथ] शकारादयो यथा ।

शुको व्यासात्मजे कीरे शौकं स्याच्छुकसंचये ।शको भूपेऽन्त्यजे देशे शङ्कुः कीलकरुद्रयोः ॥ ३५३ ॥
5.25.353 · p. 206
अनुष्टुप्
शङ्खोऽसुरे निधौ कम्बौ शुचिर्ग्रीष्मेऽनले सिते ।शृङ्गारे मासभेदे च शोणो रक्ते हये नदे ॥ ३५४ ॥
5.25.354 · p. 206
अनुष्टुप्
शिवं भद्रे सुखे नीरे शिवो जम्बुकरुद्रयोः ।गुग्गुले कीलके योगे शिवा कात्यायिनी स्मृता ॥ ३५५ ॥
5.25.355 · p. 206
अनुष्टुप्
हरीतक्यामलक्योश्च शेषोऽनन्ते बले क्षये ।श्यामाथ सोमवल्ली स्यादप्रसूताङ्गना तथा ॥ ३५६ ॥
5.25.356 · p. 207
अनुष्टुप्
शरुः कोपे शरे वज्रे शद्रिः कृष्णे तडित्वति ।शम्भुर्बह्मणि रुद्रे च शुभो योगे शुभं सुखे ॥ ३५७ ॥
5.25.357 · p. 207
अनुष्टुप्
शृङ्गी गिरौ पशौ शूरे शोषो यक्ष्मणि शोषणे ।शाखा बाहौ द्रुमाङ्गे च वेदाङ्गे तालभिद्यपि ॥ ३५८ ॥
5.25.358 · p. 207
अनुष्टुप्
शिखा ज्वाला शिफा केकिचूडा लाङ्गलिकापि च ।शम्बस्तु मुशलाग्रस्थलोहे धूमलवज्रयोः ॥ ३५९ ॥
5.25.359 · p. 207
अनुष्टुप्
शक्तिः श्रियामुमायां च बले शास्त्रेऽपि कथ्यते ।
5.25.8 · p. 207