कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

अनेकार्थसंग्रहः · छकारादयः

अथ छकारादयो यथा ।

छदः पत्रे ग्रन्थिपर्णे पतत्रेऽपि तमालके ॥ १८९ ॥
5.12.189 · p. 186
छिद्रं व्याजे बिले गर्ते छन्दोऽभिप्रायतन्त्रयोः ।श्रुतौ पद्येच्छयोश्चापि छाया बिम्बार्कयोषयोः ॥ १९० ॥
5.12.190 · p. 186
अनुष्टुप्
उत्कोचे पालने कान्तौ शोभानातपयोरपि ।छलं वेषे मिषे पत्रे छल्ली वल्कलवीरुधोः ॥ १९१ ॥
5.12.191 · p. 186
अनुष्टुप्
गृहासक्तेऽण्डजे छेको दक्षे च हरिणान्तरे ।छेदनं कर्तने भेदे छर्दनो निम्बलुम्बयोः ॥ १९२ ॥
5.12.192 · p. 186
अनुष्टुप्
छगलाख्या पुटे मेषे नीलिकारञ्जितांशुके ।छगली चौषधीभेदे छित्वरो रिपुधूर्तयोः ॥ १९३ ॥
5.12.193 · p. 186
अनुष्टुप्