कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

लिङ्गानुशासनम् · स्वतस्त्रिलिङ्गसंग्रहः

इति स्त्रीनपुंसकलिङ्गसंग्रहः समाप्तः ।

[अथ स्वतस्त्रिलिङ्गसंग्रहः ।]

स्वतस्त्रिलिङ्गः करकोऽब्दवाचकःप्राणेषु जीवः शललः शले तु ।केदारवाची वलजोऽनुतर्षेस्वतस्त्रिलिङ्गः सरकोऽपि दृष्टः ॥ १७४ ॥
6.7.174 · p. 231
upajati mixed
कोशः खड्गपिधाने स्याच्छिम्बायां च निरीक्ष्यते ।कटाहकलशौ पूलकन्दलार्गलशृङ्खलाः ॥ १७५ ॥
6.7.175 · p. 231
अनुष्टुप्
तटपुटवटवाटाः कुण्डपेटौ कपाटःकटशकटविडङ्गास्तारकस्तूणनीडौ ।पटपिटकविषाणा आढको मण्डलस्तुकुवलपिठरछत्राः कङ्कतः कन्दलोऽपि ॥ १७६ ॥
6.7.176 · p. 231
मालिनीmetre not read in every linenearly मालिनी: pāda 2, syllable 6 र (wrong syllable)
स्फुलिङ्गो मुस्तकः कुन्थ इङ्गुदो दाडिमः पुरः ।इत्यादयस्त्रिलिङ्गाः स्युः स्वत एव विशेषणात् ॥ १७७ ॥
6.7.177 · p. 231
अनुष्टुप्
विश्वप्रकाशाभिधनामकोषात्सारं गृहीत्वा विहितः प्रकाशः ।जातो नु दीपान्तरतोऽत्र दीपःप्रकाशकः किं न भवेज्जनानाम् ॥ १७८ ॥
6.7.178 · p. 231
उपजातिः