All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
अनेकार्थसंग्रहः · यकारादयः
[अथ] यकारादयो यथा ।
युगं रथाङ्गे युग्मे च कृतादौ विवसान्तरे ।योगोऽलब्धस्य लाभे स्यात्कार्मणे संगतावपि ॥ ३४० ॥
5.21.340 · p. 204
अनुष्टुप्
यज्ञो नारायणे यागे वह्नौ मेषात्मनोरथ ।यमो ध्याङ्क्षे कृतान्ते च यानं युग्ये गतावपि ॥ ३४१ ॥
5.21.341 · p. 205
अनुष्टुप्