All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
अनेकार्थसंग्रहः · हकारादयः
[अथ] हकारादयो यथा ।
हरिः कृष्णेऽनिले भेके यमे सिंहे खगेश्वरे ।इन्द्रे चन्द्रे कपौ कीरे किरणे वरुणेऽरुणे ॥ ३७२ ॥
5.28.372 · p. 209
अनुष्टुप्
लोकान्तरे द्विपे वह्नौ हारो मुक्तागणे स्मृतः ।संग्रामेऽथ मतो हीरो रुद्रे वज्रेऽपि कथ्यते ॥ ३७३ ॥
5.28.373 · p. 209
अनुष्टुप्
ही? लक्ष्म्यामथो रुद्रे वासरेऽसौ हरो मतः ।होमिर्वह्नौ घृते क्षीरे होरा राश्यर्धलग्नयोः ॥ ३७४ ॥
5.28.374 · p. 209
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 ही (syllables merged)
हंसो धर्मे रवौ राज्ञि विष्णुजीवसितेषु च ।खगान्तरेऽथ हस्तस्तु भुजे माने कचोचये ॥ ३७५ ॥
5.28.375 · p. 209
अनुष्टुप्
हिंसा प्राणापहारे स्यान्नाशे चौर्यादिके तथा ।हेतिरुस्रास्त्रयोः प्रोक्तो हेलिः सूर्येऽप्यथो हनुः ॥ ३७६ ॥
5.28.376 · p. 209
अनुष्टुप्