All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
अनेकार्थसंग्रहः · इकारादयः
अथेकारादयो यथा ।
इला बुधस्य भार्यायां भूमिश्रीगोषु वाच्यपि ।इरा मह्यां जले मद्ये भारत्यामशनेऽपि च ॥ ५७ ॥
5.2.57 · p. 168
अनुष्टुप्
इनः सूर्य प्रभाविष्टमीप्सिते पूज्ययज्ञयोः ।ईहेच्छायां तृषायां चेतिः प्रवास उपद्रवे ॥ ५८ ॥
5.2.58 · p. 168
अनुष्टुप्
इष्टिर्यागेच्छयोरीशो हरौ शम्भौ क्षमे मतः ।ईक्ष्वाकुर्नृपमेदे स्यात्कटुतुम्ब्यामपीरितः ॥ ५९ ॥
5.2.59 · p. 168
अनुष्टुप्
इष्वासो विशिखक्षेपेऽथेष्वासो धन्विचापयोः ।इन्द्रियं करणे शुक्रेऽथेरिणं शून्य ऊषरे ॥ ६० ॥
5.2.60 · p. 168
अनुष्टुप्