All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
लिङ्गानुशासनम् · स्त्रीनपुंसकलिङ्गसंग्रहः
इति पुंनपुंसकलिङ्गसंग्रहः समाप्तः ।
[अथ स्त्रीनपुंसकलिङ्गसंग्रहः ।]
स्त्रीनपुंसकयोः शुक्तौ नखं पुष्पे च पाटलम् ।ओषधे मधुकं विश्वं यवाग्वां तरलापि च ॥ १६७ ॥
6.6.167 · p. 231
अनुष्टुप्
लक्षं माने मधौ कल्पं [11] चये तु पटलं तथा ।वसन्ततिलकं काव्ये तिन्दुकं फलवाचकम् ॥ १६८ ॥
6.6.168 · p. 231
अनुष्टुप्
कपालं भिक्षुपात्रे स्यादङ्के क्रोडस्तथैव हि ।अट्समासान्तनौशब्दः पूर्वार्धपदपूर्वकः ॥ १६९ ॥
6.6.169 · p. 231
अनुष्टुप्
अनडन्तं ट्यणन्तं च कर्तृवर्जितकारके ।अमनोज्ञाद्यचौराद्यकनन्तः स्त्रीनपुंसकः ॥ १७० ॥
6.6.170 · p. 231
अनुष्टुप्
वक्रोष्ठिकं वंशिककन्यकुब्जेकथानकं नक्तमहोदये च ।मृगव्यचव्ये रसनं तमिस्रंपीठावहित्थे नगरं वणिज्यम् ॥ १७१ ॥
6.6.171 · p. 231
उपजातिः
शुम्बं तुम्बं कांस्यजालस्थलानिस्थाली गोला छर्द्यलाबूडवोऽथ ।शास्त्रं गात्रं काहलं मन्दिरं चवीर्यं नासीरापरे पित्तलापि ॥ १७२ ॥
6.6.172 · p. 231
शालिनी
कादम्बरमसूरौ तु त्वक्षीरं जम्बुना सह ।रोदः सदः सरो दामोषस्तयट्प्रमुखा इति ॥ १७३ ॥
6.6.173 · p. 231
अनुष्टुप्