कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

अनेकार्थसंग्रहः · ऋकारादयः

अथ ऋकारादयो यथा ।

ऋतं सत्याम्भसोरुक्तं शिलोञ्छेऽपि निरीक्ष्यते ॥ ७६ ॥
5.4.76 · p. 171
ऋतिः स्पर्धाघृणादेवमातृष्वपि गतावृतिः ।ऋणं दुर्गे जले देये ऋक्षं नक्षत्रवाचकम् ॥ ७७ ॥
5.4.77 · p. 171
अनुष्टुप्
कक्षो भल्लूकवाच्यार्थे स्यादृषिर्मुनिवेदयोः ।ऋतुर्वसन्ते स्त्रीपुष्पयृषभो वृषभे मतः ॥ ७८ ॥
5.4.78 · p. 171
अनुष्टुप्
कर्णरन्ध्रे स्वरे कोलपुच्छे जिनवरादिमे ।ऋषभध्वजनामा तु जिनभेदमहेशयोः ॥ ७९ ॥
5.4.79 · p. 171
अनुष्टुप्