निकाय
nikāyaपुं · masc.In 16 kośas: 14 synonym verses, 7 as a nānārtha head word.
genderपुंmasc.
पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम् ।स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम् ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
निकरनिकायनिवहविसरव्रजपुञ्जसमूहसञ्चयाः,समुदयसार्थयूथनिकुरम्बकदम्बकपूगराशयः ।चयसमवायवृन्दसन्दोहसमाजवितानसंहति-प्रकरघनौघसंघसंघातव्रातकुलोत्कराः स्मृताः ॥ ६८६ ॥
metre not recognised
genderपुंmasc.
सधर्मणामेष निकाय उक्तःस्कन्धो नराणां करिणां हयानाम् ।पु[73a]ञ्जोत्करौ राशिरिमे समार्थाःकूटोऽस्त्रियां धान्यसमुच्छ्रयार्थः ॥ २६ ॥
उपजातिःmetre not read in every line
genderपुंmasc.
वसत्यावसथावासं स्थानं धामास्पदं पदम् ।निकायं निलयं पस्त्यं शरणं विदुरालयम् ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
व्रातः पूगः समाजश्च समूहः सन्ततिर्व्रजः ।व्यूहो निकायो निकुरो निकुरम्बं कदम्बकम् ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
प्राणिनां संघसार्थौ तु निकायस्तुल्यधर्मिणाम् ।सजातीनां कुलं चैव वर्गः स्यात्सदृशां पुनः ॥ ३०६ ॥
अनुष्टुप्
genderपुंmasc.
समाजस्त्वन्यजन्तूनां निकायः समवृत्तिनाम् ।धान्यादिवृन्दे राशिः स्यादुत्करश्च करो विसत् (?) ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
राशिः पुञ्जोत्करौ कूटं जातं यूथं भरः कुलम् ।ग्रामो वर्गः समाहारो निकायो निचयोऽपि च ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
खगव्राते तु यूथं स्यात् सङ्घः सार्थश्च देहिनाम् ।सजातीनां कुलं तेषां निकायस्तु सधर्मिणाम् ॥ २५६६ ॥
अनुष्टुप्
genderपुंmasc.
निकाय्य-निकायौ स्यातां स्यादागारमगारवत् ।चतुःशाले चातुःसाली जवनं यवनं समः ॥ ३६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable); pāda 3, syllable 5 चा (wrong syllable)
genderपुंmasc.
निकरव्यूहसमूहव्रातनिकायौघविसरसंदोहाः ।झाटचयवारसंचयनिचयगणप्रकरपेटकप्रचयाः ॥ ८२७ ॥
गीतिः
genderपुंmasc.
फेणाभिजनकलापनिकाया हारोच्चारोपलकल्लोलाः ।फालचषालकीलनलतण्डुलशैवलखलविभवप्रसवाश्च ॥ ४ ॥
metre not recognised
genderपुंmasc.
बृन्दे तिरश्चां यूथोऽस्त्री निकायस्तु सधर्मणाम् ।संघसार्थौ तु जन्तूनां वर्गस्तु सदृशां गणे ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
निकायश्च निवासे स्यात्सङ्गे चैकानुसेविनी ।असंहतपदार्थानामेकत्रकरणेऽपि च ॥
अनुष्टुप्
आचारे शपथे मतौ च समयः सिद्धान्तनिर्देशयोःभाषायां कृतिकारके निगदितः सङ्केतवाची तथा ।काले योषिति [40a]नाथ लक्षगृहयोरेकार्थमाजिव्रजेस्यादेकीकरणे च संहतिमतां तद्वत्परात्मन्यपि ॥ ६२ ॥
शार्दूलविक्रीडितम्metre not read in every line
doubtful
गृहे बहूनामेकत्रकरणे परमात्मनि ।निष्कुटस्तु गृहारामे कवाटे च प्रकीर्तितः ॥ १०६ ॥
अनुष्टुप्
doubtful
नादेयी भूमिजम्बां स्त्री जरायाम्बुवेतसे ।नागरङ्गे जयायाञ्च व्यङ्गुष्ठेऽपि च कुत्रचित् ॥निकायो निलये लक्ष्ये सधर्मिप्राणिसंहतौ ।समुच्चये संहतानां स्यात्पुमान् परमात्मनि ॥नेपथ्यं रङ्गवाह्ये स्यादलङ्कारेऽपि च द्वयोः ।प्रणयः प्रसवे प्रेम्णि मोक्षविश्रम्भयोरपि ॥प्रत्ययः प्रथिते ज्ञाने स्यादित्यादियनादिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्