कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आस्पद

āspadaक्ली · neut.

In 12 kośas: 9 synonym verses, 6 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.76 · p. 39
विपणिस्तु वणिग्मार्गः स्थानं तु पदमास्पदम् ।
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.30 · p. 122
ओकः पदास्पदे स्थानमस्त्र्युपघ्नोऽन्तिकाश्रयः ।भीरुष्ठानं तु गदितं चकितस्याश्रयो हि यः ॥ ३० ॥
अनुष्टुप्
genderक्लीneut.
एते शब्दाः पुंसि स्युर्भवेयुरित्यर्थः । शीकरोऽम्बुकणः । तुषारो हिमसन्ततिः । तुषी धान्यबुषः कडङ्गरश्च । बुद्बुदो जलकङ्करः । फेनो जलस्य । समुद्रस्य ओसो अवश्यायः । तण्डुलो धान्यविशेषः । अपूपः पिष्टकस्य । एते शब्दाः स्त्रियामुदिताः कथिताः । इयमालिः पङ्क्तिः । मुक्ता रत्नम् । आजिर्युद्धम् । दर्विर्विभक्तसाधनी । सिकता वालुका ।अजिनाजिरशैवालनलमृणालतुहिनोडुपाज्यसस्यानि । द्वारास्पदकाष्ठानि च नपुंसकान्येव पटलं च ॥ ४७ ॥
metre not recognised
genderक्लीneut.
एते शब्दा नपुंसके भवन्ति । इदमजिनं मृगत्वक् । इदमजिरमङ्गणम् । शैवालं जलसम्भवम् । नलं सुवर्णभाजनम् । मृणालं पद्ममूलम् । तुहिनं तुषारः । उडुपं प्लवः । आज्यं घृतम् । सस्यं व्रीहिः । द्वारं[र] गृहस्य । आस्पदं राज्ञाम् । काष्ठमिन्धनं पटलगृहस्य तिमिरं वा । एवकारोऽवधारणे ।त्रिष्वप्यक्षेष्विन्द्रियसञ्ज्ञका एतान्नपुंसके विद्धि ।शेषाः पुंसि प्रोक्ताः श्रीपिष्टा[ष्ठा]द्याश्च निर्यासाः ॥ ४८ ॥
metre not recognised
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 133 · p. 66
वसत्यावसथावासं स्थानं धामास्पदं पदम् ।निकायं निलयं पस्त्यं शरणं विदुरालयम् ॥ १३३ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.91 · p. 222
वृन्तं शीताश्मन्तभूतानि वार्त्तंतूस्तं तुन्दं गोदमुक्थं कुशीदम् ।वृन्दाच्छोदे शिल्पतल्पास्पदानिवाहित्थं स्यात्कूर्परूपे पदं च ॥ ९१ ॥
शालिनी
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1694 · p. 273
आस्पदं स्यात् पदं स्थानं सर्वसाधारणं स्थलम ।श्लेषस्त्रिमार्ग्याः शृङ्गाटं बहुमार्गी च चत्वरम् ॥ १६९४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.33 · p. 220
शुरुङ्गा सन्धिला सन्धिः, स्थाने तु पदमास्पदम् ।पितृ-प्रेताद्वन-गृहे, धिष्ण्ये सदन-सादने ॥ ३३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.842 · p. 106
सदनभवनवेश्मसद्मगेहावसथनिवेशनमन्दिरास्पदानि ।केचिदावसथं पुंसि निकेतं च प्रचक्षते ॥ ८४२ ॥
पुष्पिताग्राtwo metres in one verse
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.182
गोष्पदं सेविते माने प्रतिष्ठा कृत्यमास्पदम् ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास दार्धश्लोकः Dharaṇikośa 17.2.15 · p. 96
कपर्दं स्याज्जटाजूटे कपर्दश्च वराटके ।आस्पदं च प्रभुत्वे स्यात्प्रतिष्ठा कृत्यमास्पदम् ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ दान्ताः Koṣakalpataru 6.19.32 · p. 236
तोयेऽन्तिमे स्याद्गणके तु पुंसिकपर्द ईशे च वराटके च ।ना खण्डपर्शोश्च जटानिबन्धेप्रतिष्ठितौ त्वास्पदमत्र कृत्ये ॥ ३२ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.8 · p. 33
आस्पदं तु भवेत् कृत्ये स्थाने चालानवाक् पुनः ।आदाने स्तम्भमात्रे च बन्धनार्थे च हस्तिनाम् ॥ ८ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2047 · p. 248
आसनं वारणस्कन्धे आस्पदं स्थानकृत्ययोः ।स्तम्भमात्रेऽपि चालानमाशंसा स्तववाञ्छयोः ॥ २०४७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 7.3.3 · p. 250
अनूकमन्वये शीलेऽप्यास्पदं स्थानकृत्ययोः ।स्तंभमात्रेऽपि चालानं हस्तिनोंऽसेऽपि चासनम् ॥ ३ ॥
अनुष्टुप्

आस्पद as a meaning in nānārtha verses