विदग्ध
vidagdhaवि · adj.In 12 kośas: 14 synonym verses, 12 as a meaning of another word.
सरलो दक्षिणो ज्ञेयो विदग्धश्छेक उच्यते ।उत्पश्यमुन्मुखं विद्यान्न्युब्जं विद्यादधोमुखम् ॥ ३८५ ॥
अनुष्टुप्
genderविadj.
छेको विदग्धो विदुरो निष्णातः कृतधीरपि ।निर्द्दिष्टो निपुणो बोद्धा सुमतिः कुशलोऽपि च ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
छेकश्छइल्लश्छेकालो विदग्धश्छेकलोऽपि च ।तद्वत्स्यात्कृतकर्मापि छेको दक्षो लघुक्रियः ॥ ५ ॥
अनुष्टुप्
genderविadj.
विदग्धो नागसंचारजीवी च शरणार्थकः ।अभ्यापन्नश्च तद्वत्स्याद्वीक्षापन्नो विलक्षितः ॥ ४४ ॥
अनुष्टुप्
genderविadj.
वमथुर्वमतिश्चाथापक्वाहारे त्वजीर्णकम् ।आमं कफाद्विदग्धं तु पित्तात्स्यादम्लपित्तकम् ॥ ३२ ॥
अनुष्टुप्
genderक्लीneut.
प्रवीणो निपुणोऽभिज्ञो विज्ञो वैज्ञानिकः पटुः ।छेको विदग्धो निष्णातः कुशलश्चतुरः कृती ॥ ६ ॥
अनुष्टुप्
genderविadj.
विदग्धश्चतुरः धूर्तश्चाटुकृत् कितवः शठः ।क्वापि नागरिको ज्ञेयः गोत्रसंज्ञाङ्कनाम तत् ॥ १६५ ॥
अनुष्टुप्
genderविadj.
संख्यावान्कृतकर्मापि प्रवीणोऽपि विशारदः ।प्रगल्भः प्रतिभायुक्तो विदग्धः छेक इत्यपि ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कृष्टिर्विपश्चित्संख्यावान्दोषज्ञो ज्ञो विचक्षणः ।प्रवीणश्चतुरो विज्ञो विदग्धः कुशलः पटुः ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
कृतकर्मा कृतार्थश्च निष्णः कृतमुखस्तथा ।नदीष्णश्च विदग्धस्तु छइल्लः छेकिलस्तथा ॥ ५०७ ॥
अनुष्टुप्
genderविadj.
अध्यापनश्चेति षड्भिः षट्कर्मा ब्राह्मणः युतः ।पण्डितः कोविदो विद्वान् विदग्धो दूरदृग्बुधः ॥
अनुष्टुप्
genderविadj.
स्वस्थानस्थः परान्द्वेष्टि यः स गोष्ठश्च उच्यते ।दाता तु दारुर्मुचिरः स्याद्विदग्धस्तु नागरः ॥ ५ ॥
अनुष्टुप्
genderविadj.
बभ्रुः कडारः कपिलो विदग्धो दुष्टरक्तवत् ।श्यावे तु कपिशः पिंगे पिशंगः कद्रुपिंगलौ ॥ १८ ॥
अनुष्टुप्
genderविadj.
अग्राम्ये सरलोदारविदग्धच्छेकदक्षिणाः ।गर्विते स्तब्ध उद्ग्रीवो बाहो धीरस्स इत्यापि ॥ २० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्या (wrong syllable)
genderविadj.
विदग्ध as a meaning in nānārtha verses
- धरणिकोश छेकछेको विदग्धश्छेकाः स्युर्गृहासक्तमृगाण्डजाः । अर्कः स्यात्स्फटिके सूर्ये अर्कपर्णे च वासवे ॥ Dharaṇikośa 1.2.6
- धरणिकोश नागरनागरो नगरोत्पन्नो विदग्धश्चापि नागरः । नागरं मुस्तके शुण्ठ्यां रतबन्धे च नागरम् ॥ Dharaṇikośa 26.3.32
- कोषकल्पतरु छेकज्येष्ठ्यां रथाङ्गेऽपि वृकेऽपि कोकः खर्जूरिकायां च तरुप्रभेदे । छेको विदग्धे भ्रमरे च वक्रे( ? ) शङ्काविरेकाधमकेषु रेकः ॥ २१ ॥ Koṣakalpataru 6.1.21
- कोषकल्पतरु धन्विन्चक्री हरौ स्याच्छकटे कुलाले ग्रामोद्भवे * ककुभद्रुमे तु । धनुर्धरे पार्थविदग्धयोश्च धन्वी कृती पण्डितयोग्ययोः स्यात् ॥ ७७ ॥ Koṣakalpataru 6.21.77
- नानार्थार्णवसंक्षेप उदारउदारो महति ख्याते दानशौण्डविदग्धयोः । उत्तालं पुनरुत्तान उन्नतोच्चण्डयोरपि ॥ १६ ॥ Nānārthārṇavasaṃkṣepa 3.4.16
- नानार्थार्णवसंक्षेप चतुरविदुषामग्रणीरेनं विदग्धे शाकटायनः । क्लीबं त्वल्पभ्रुकुट्यां स्याच्छालायामपि हस्तिनः ॥ ७२९ ॥ Nānārthārṇavasaṃkṣepa 4.729
- नानार्थार्णवसंक्षेप दक्षिणविदग्धे च परच्छन्दानुवर्तिन्यपि भाषते । कुशले हर्षनन्दीमं तथा यमककुब्भवे ॥ ८९६ ॥ Nānārthārṇavasaṃkṣepa 4.896
- नानार्थार्णवसंक्षेप सरललोहभेदेऽथ सरलः पूतिकाष्ठाह्वयद्रुमे । पुमान् विदग्धे तु त्रि स्यादृजौ च प्रियवादिनि ॥ १९०४ ॥ Nānārthārṇavasaṃkṣepa 4.1904
- शब्दरत्नावली द्रावकद्रावको रसभेदे स्यात् विदग्धे ग्रावभेदके । दीपकं वागलङ्कारे दीप्तिकारिणि वाच्यवत् ॥ Śabdaratnāvalī 7.1.88
- शब्दरत्नावली क्षेत्रज्ञकृतज्ञः कुक्कुरे ना तु मर्यादिन्यपि वाच्यवत् । क्षेत्रज्ञ आत्मनि छेके विदग्धे कृषकेऽपि च ॥ Śabdaratnāvalī 7.10.4
- त्रिकाण्डशेष कलिङ्गत्रिषु दक्षे विदग्धे च खड्गौ निस्त्रिंशगण्डकौ । स्वर्गे वज्रे च रश्मौ च बलिवर्दे च गौः पुमान् ॥ ५९ ॥ Trikāṇḍaśeṣa 3.3.59
- वैजयन्ती छेकछेको विदग्धे गृह्ये च जिह्यं मन्देऽघवक्रयोः । जन्यं रणे जनितरि विगीतजननीययोः ॥ ३२ ॥ Vaijayantī 6.5.32