अम्ल
amlaपुं · masc.In 18 kośas: 18 synonym verses, 2 as a nānārtha head word, 12 as a meaning of another word.
अम्लस्तु पाचनो दन्तशठोऽथ लवणं सरः ॥ १३८८ ॥सर्वरसोऽथ कटुः स्यादोषणो मुखशोधनः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः ।तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
असूर्क्षणं सूर्क्षणं चासूर्क्षणाऽसूर्क्षणे अपि ।तुबरं तूबरं चाहुरम्लमम्ब्लं च कोविदाः ॥ ५६ ॥
अनुष्टुप्
genderक्लीneut.
अम्लो रसाम्लो राजाम्लः शतवेध्यम्लनायकः ।अम्लसारो रक्तसारो भीमः स्याद्वीरवेतसः ॥ २०८ ॥
अनुष्टुप्
genderपुंmasc.
खट्वरः पावनः खट्टो दन्तपर्यायतः शठः ।अम्लः समुखगः स्रावं स्वेदनं च विबोधनम् ॥ ३१५ ॥
अनुष्टुप्
genderपुंmasc.
अम्लसारा मालवोत्था मागधी होसणीति च ।स्यादन्द्रपुष्कलीचाथ चूर्णमम्लं सुधार्थकम् ॥ ३३७ ॥
अनुष्टुप्
genderक्लीneut.
स्वादुर्गुल्यो मधुरो मधु(धू)ल-कोमलवद्रसज्येष्ठः ।अम्लोम्ब्लो दन्तशठोऽक्षिभ्रुवकोचीच(?)पाचनाह्वः स्यात् ॥ ४७ ॥
उद्गीतिःmetre not read in every line
genderविadj.
अस्त्रियां रोच[26b]कश्चाथ वेतसाम्लोऽम्लवेतसः ।अम्लो रसाम्लः शाखाम्लो मांसारिर्वरवेतसः ॥ ९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शाखाम्लो वेतसोऽम्लोऽम्लस्तिन्तिडीको रसाम्लकः ।स शङ्खद्रावको हीनो बालद्रावक उत्तमः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
गुल्यस्वादू च मधुरो रसज्येष्ठो मधूलकः ।अम्लो दन्तशठः प्रोक्तः पाचनोऽपि निरीक्ष्यते ॥ २८१ ॥
अनुष्टुप्
genderपुंmasc.
शरपुङ्खा काण्डपुङ्खा वीषापुङ्खेषु पुष्पिका ।निशावनो दीर्घशाखः शणोऽम्लो दीर्घपल्लवः ॥ १९५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
सुस्वादो मधुरो मिष्टः चुक्रोऽम्लः कटुकः कटुः ।कषायस्तूबरः क्षारी लवणः तिक्ततीक्ष्णकौ ॥ ३०६ ॥
अनुष्टुप्
genderविadj.
मिष्टं स्वादुश्च मधुरः कषायस्तुवरो रसः ।पाचनोऽम्लो दन्तशठः कटुकः कटुरुषणः ॥ ७९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.doubtful
genderविadj.
अस्त्री कषायो मधुरो लवणः कटुरेव च ।तिक्तोऽम्लश्च षट्पुमांसो रसाः स्युर्गुणवाचकाः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
genderपुंmasc.
गुल्ये, दन्तशठेऽम्लोऽम्ल्वः, कखाये तुबरस्तथा ।तूबरः कुबरोऽपि स्यादाद्यौ द्वौ तौबरोऽपि च ॥ १३ ॥
अनुष्टुप्
genderविadj.doubtful
कषाये तुवरः स्वादौ मधुरो लवणः कटुः ।अम्लस्तिक्तो रसाः पुंसि षडेते तद्वति त्रिषु ॥ २९४ ॥
अनुष्टुप्
genderपुंmasc.
अम्लस्तु पाचनः शुक्तो लवणस्तु पटुः सरः ।ऊषणस्तु कटुस्तीक्ष्णस्तिक्तस्तु विसरः कटुः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
अम्ली चाङ्गेरिकायां स्यादम्लाऽम्लिक्यां स्त्रियामुभे ।अम्लोऽम्लवेतसे पुंसि कालः स्यात्कासमर्दके ॥ ४३७ ॥
अनुष्टुप्
meaningsअम्लवेतस
अम्ल as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् शुक्तद्वौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ । Amarakośa 3.3.161
- धरणिकोश शुक्तघृतमाज्यं घृतं तोये युतं न्याये च संहते । रक्तः क्रीडारते रक्ते शुक्तं स्यात्परुषाम्लयोः ॥ Dharaṇikośa 15.1.7
- कोषकल्पतरु शुक्तव्यक्तो बुधे ना प्रकटे पराभो- ऽथोक्तं द्वयोरेककवर्णवृत्ते । विशेष्यवत्स्यात्कथितेऽथ शुक्त मम्ले कठोरे त्रिषु पूतवाचि ॥ ३४ ॥ Koṣakalpataru 6.16.34
- कोषकल्पतरु भीमकर्पूरे सलिले तथा स्मरहरे स्याद्यज्ञनेत्र्योषधा- विष्मः कामवसन्तयोर्नरि मतो युध्मः शरे योद्धरि । युद्धे धन्वनि चाथ भीम उदितः शम्भौ बकद्वेषिणि स्यादम्लेऽपि च वेतसे त्रिषु पुनर्घोरेऽथ भामो रवौ ॥ ६५ ॥ Koṣakalpataru 6.25.65
- कोषकल्पतरु कबरशाकभिदि केशपाशे कबरी लवणाम्लयोरन्त्ये । स्याद्ददरी च तथोक्तौ वाद्ये चानकं हित्वा ॥ ८६ ॥ Koṣakalpataru 6.27.86
- नानार्थार्णवसंक्षेप चुक्रअम्लाख्ये बीजपूरेऽम्लवेतसे च निमन्त्रणे । गुञ्जिकायां द्वयोस्तु स्यात् सुन्दरेऽथ नपुंसकम् ॥ ४२९ ॥ Nānārthārṇavasaṃkṣepa 2.5.429
- नानार्थार्णवसंक्षेप शुक्तआपन्ने परुषेऽम्ले चं शुल्कं त्वस्त्री महीपतेः । मार्गादिषु प्रदेयेऽर्थे विवाहाय वराद्धने ॥ १३८७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1387
- नानार्थार्णवसंक्षेप कबरकेचित् तु पुष्पे क्लीत्याहुः कबरस्तु नृलिङ्गकः । लवणेऽ(म्ले) च रसयोर्मेद्यलिङ्गस्तु तद्वतोः ॥ ४०५ ॥ Nānārthārṇavasaṃkṣepa 4.405
- परमानन्दीयनाममाला कबरकुटपस्तु मुनौ माने निष्कुटे काश्यपो मुनौ । मीनेऽथ काश्यपी नद्यां कबरं लवणाम्लयोः ॥ १३३ ॥ Paramānandīyanāmamālā 5.7.133
- त्रिकाण्डशेष शुक्तवेतसेऽपि च शीतो ना शुक्तं पूताम्लनिष्ठुरम् । शितिर्भूर्जे सिते कृष्णै श्रीमन्तौ तिलकेश्वरौ ॥ १८७ ॥ Trikāṇḍaśeṣa 3.3.187
- वैजयन्ती शुक्तशुभ्रं शुक्ले भास्वरे च शुक्तं तु परुषाम्लयोः । सभ्यः सामाजिके साधौ सव्यो दक्षिणवामयोः ॥ १८ ॥ Vaijayantī 6.4.18
- वैजयन्ती दन्तशठजैवातृकश्चन्द्रभिषगायुष्मत्सु कृषीवले । अम्ललोण्यां दन्तशठा त्रिष्वम्लेऽम्लगुणे तु ना ॥ ९ ॥ Vaijayantī 8.5.9