कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मृदुल

mṛdulaवि · adj.

In 13 kośas: 14 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1387 · p. 53
निष्ठुरः कक्खटः क्रूरः परुषः कर्कशः खरः ॥ १३८६ ॥दृढः कठोरः कठिनो जरठः कोमलः पुनः ।मृदुलो मृदुसोमालसुकुमारा अकर्कशः ॥ १३८७ ॥
अनुष्टुप्
genderविadj.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.129 · p. 5
अगरौ प्रवरं शृङ्गं शीर्षकं मृदुलं लघु ।वरद्रुमः परमदः प्रकरं गन्धदारु च ॥ १२९ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.132
नूत्नश्च सुकुमारं तु कोमलं मृदुलम्मृदु ।
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.137 · p. 229
नवीनो नूतनो नव्यः प्रत्यग्रो नूतनो नवः ।अथ स्यात्सुकुमारं तु कोमलं मृदुलं मृदु ॥ १३७ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.167 · p. 73
मृदु मृदुलं सुकुमारं कोमल-सोमाल-पेलवान्याहुः ।म्रदिमा पुंसि मृदुत्वं मार्द्दवमन्त्ये स्त्रियां तु मृदुता स्यात् ॥ १६७ ॥
गीतिः
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.280 · p. 87
कठोरकठिनौ तुल्यौ दृढे ननु खरः समः ।कोमलं मृदुलं तुल्यं सोमालसुकुमारके ॥ २८० ॥
अनुष्टुप्
genderविadj.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.259 · p. 18
मसूरो मृदुलो वाती मुद्गो हव्योऽज्ञभूर्लघुः ।आढकी वातकी धन्या मारीचश्चणकः पुटी ॥ २५९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.95 · p. 44
तीव्रोग्रौ दारुणं घोरं दृढमुद्दाममुत्कटम् ।सुकुमारः सुखस्पर्शः कोमलो मृदुलो मृदु ॥ ९५ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1034 · p. 159
अनार्यजं च राजार्हं कृमिजं च वरद्रुमः ।प्रकरं प्रवरं गन्धदारु च मृदुलं लघु ॥ १०३४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 रु (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.56 · p. 409
मृदुलश्चेति नामानि कथ्यन्ते कोमलस्य वै ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.35 · p. 165
सुकुमारं मृदु भवेत् मृदुलञ्चापि कोमलम् ।अनुगेऽन्वक्षमन्वक् चानुपदं क्लीबमव्ययम् ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.12 · p. 250
कक्खडः खक्खटस्तद्वत्, कोमले मृदुलो मृदुः ।सोमालः सुकुमारश्च, मधूलो मधुरान्विता ॥ १२ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.107 · p. 131
लोहाख्यं कृमिजं भृंगं जोंगकं जांगलं मतम् ।वंशकं वंशिकं शीर्षं प्रकरं मृदुलं लघु ॥ १०७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.5 · p. 196
कठोरनिष्ठुरक्रूरदृढदारुणकक्खटाः ।खरश्च सुकुमारे तु कोमलो मृदुलो मृदुः ॥ ५ ॥
अनुष्टुप्
genderविadj.

मृदुल as a meaning in nānārtha verses