विलेपन
vilepanaक्ली · neut.In 11 kośas: 12 synonym verses, 1 as a nānārtha head word, 13 as a meaning of another word.
उद्वर्तनमुत्सादनमङ्गरागो विलेपनम् ॥ ६३५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
गात्रानुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम् ॥ १३३ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
कर्पूरो घनसारः स्यात्काकतुण्डोऽगरुः स्मृतः ।ताम्बूलं क्रमुकं प्रोक्तमङ्गरागो विलेपनम् ॥ ५४५ ॥
अनुष्टुप्
genderक्लीneut.
कर्पूरागरुकस्तूरी कक्कोलैर्यक्षकर्दमः ।गात्रानुलेपनी वर्त्तिर्वर्णकं तु विलेपनम् ॥ ३९७ ॥
अनुष्टुप्
genderक्लीneut.
चतुःशतग्राममध्ये महीयान्ग्राम उच्यते ।ग्रामेवासो ग्रामवासो ग्रामेवास्यादयस्तथा ।दर्दुरो ग्रामजालं स्याद्गोमुखं तु विलेपनम् ॥ ६३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
भवेदभिषवः स्नानं मज्जनं च समार्थके ।जेन्ताकस्तु भवेत्सेको य उष्णोदकनिर्मितः ॥विलेपनं त्वङ्गरागो वर्णको न स्त्रियामथ ।गात्रानुलेपनी वर्तीरनुबोधः प्रबोधनम् ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
कर्पूरं घनसारं च हिमं सेवेत पुण्यवान् ।समालम्भोऽङ्गरागश्च प्रसाधनविलेपनम् ॥ ११८ ॥
अनुष्टुप्
genderक्लीneut.
माला स्रग्दाम माल्यं च स्नानं मज्जनमाप्लवः ।चार्चिक्यं समालम्भनमङ्गरागो विलेपनम् ॥ ५४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
उच्छादनमपि ज्ञेयमङ्गरागो विलेपनम् ।स्यात् समालभनं चर्चा चर्चिक्यं चन्दनादितः ॥ १०२७ ॥
अनुष्टुप्
genderक्लीneut.
गात्रानुसारिणी वर्तिर्वर्ती गात्रानुलेपनी ।विलेपनं वर्णकं स्यात् अनुलेपननामनि ॥
अनुष्टुप्
genderक्लीneut.
उपलम्भश्चानुभवः पूर्वज्ञातार्थवेदने ।कुङ्कुमादिलेपनार्थे समालम्भो विलेपनम् ।विप्रयोगो विप्रलम्भो विलम्भस्त्वतिसर्जनम् ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 दि (wrong syllable)
genderक्लीneut.
बलाद्ग्रहे त्वाङ्परोऽथ वेर्विभागे विलेपने ।हावे जैह्म्येऽथोत्परोऽयं नाशोद्धरणयोर्मतः ॥ ७२ ॥
अनुष्टुप्
meanings
विलेपन as a meaning in nānārtha verses
- धरणिकोश वर्णकवर्णकश्चन्दने ख्यातश्चारणे च विलेपने । दर्शकः स्यात्प्रतीहारे दर्शयितरि च त्रिषु ॥ Dharaṇikośa 1.2.24
- धरणिकोश कुड्यचोद्ये चोदनाश्चर्ये चान्त्यावन्तभवाधमौ । सेव्यमुशीरे सेवार्हे कुड्यं भित्तौ विलेपने ॥ Dharaṇikośa 25.1.8
- कोषकल्पतरु उद्वर्ततेस मिथ्योपपदो ण्यन्तो द्विस्त्रिरुक्तौ तङि स्मृतः । वर्तते वर्तनेऽथोदो वृत्तिर्मर्दविलेपयोः । अपवृत्तिविपर्यासोत्पतनेष्वथ स प्रतः ॥ ६३ ॥ Koṣakalpataru 3.5.63
- कोषकल्पतरु समालभतेविलेपने समाङः स्यादुपाङः स्यात्समाक्षिपि(?) । प्राद्वञ्चने विन्दतिस्तु सपत्नीलम्भनेऽधितः ॥ ८२ ॥ Koṣakalpataru 3.5.82
- कोषकल्पतरु वर्णक्षारे पुंस्यथ कर्ण आदिमगतो राधासुते च श्रुतौ चूर्णस्त्विन्दुपलाशिनोरथ मखे स्वर्णं तथा हेम्नि च । ********** यशःस्तुत्योः कुथायां गुणे वर्णोऽस्त्री तु विलेपनाक्षरभिदा रूपे द्विमुक्कुङ्कुमे ॥ ८ ॥ Koṣakalpataru 6.15.8
- कोषकल्पतरु उद्वर्तनप्रस्फोटनं ताडनशूर्पयोः स्या- दुद्वर्तनं तूत्पवनेऽपवृत्तौ । विलेपने नित्यविधौ तु साधु- ग्रहे समादानमुशन्ति सन्तः ॥ १९ ॥ Koṣakalpataru 6.21.19
- कोषकल्पतरु कषायआहुः पुंसि निकायमप्यथ गृहे पद्मे निकाय्यो व्रजे तार्क्ष्ये किं च परात्मनीह कथितोऽथ क्षेत्रियः सम्मतः । क्षेत्रोद्भूततृणेऽन्यदारनिरते साध्येतरस्मिन्गदे निर्यासे तु विलेपने च तुवरेऽप्यस्त्री कषायोऽपि च ॥ ६३ ॥ Koṣakalpataru 6.26.63
- नानार्थार्णवसंक्षेप रुच्यपाणिग्राहे रुचिकरे पुन(स्त्री?स्त्रि)रथ भूषणे । विलेपने च शण्डोऽथ रुम्रो ना सूर्यसारथौ ॥ १११२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1112
- नानार्थार्णवसंक्षेप वर्णवर्णस्त्वक्षर एवास्त्री केषांचिदपरे पुनः । विलेपने प्रकारे च शोभायां चास्त्रियां विदुः ॥ ११५५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1155
- शब्दरत्नावली वर्णकद्वयोर्नील्यादिषु क्लीबे चन्दने च विलेपने । वर्तको ना खुरेऽश्वस्य विहङ्गे वर्तिका द्वयोः ॥ Śabdaratnāvalī 7.1.137
- शब्दरत्नावली वर्णपुमांस्तु न स्त्रियां रूपभेदाक्षरविलेपने । वारणो दैत्यान्तरे काण्डे केवले गोस्तनेऽपि च ॥ Śabdaratnāvalī 7.15.15
- शब्दरत्नावली कुड्यपुंसि क्लीबन्तु कायं स्यान्मनुष्यतीर्थभिद्यपि । क्रिया कर्मणि पूजायामारम्भे सम्प्रधारणे ॥ उपाये निष्कृतौ शौचे चेष्टायामपि च स्त्रियाम् । कुड्यं विलेपने भित्तौ क्लीबं कौतुहलेऽपि च ॥ कुल्यं सूर्पे कीकशे स्यादामिषे द्रोणभिद्यपि । कुल्या जीवन्तिकौषध्यां प्रणाल्यां सरिति स्त्रियाम् ॥ अमात्ये पुंसि च कुलीद्भवे कुलहिते त्रिषु । कृत्या कर्मणि देवे स्त्री विद्विष्टकार्ययोस्त्रिषु ॥ गयो ना पशुराजर्षिभेदे तीर्थे पुनः स्त्रियाम् । गव्या गोसंहतौ क्लीबं रागद्रव्ये धनुर्गुणे ॥ गोदुग्धादिगोहितयोस्त्रिषु गव्यं निगद्यते ॥ Śabdaratnāvalī 7.26.11
- शब्दरत्नावली कषायऔचित्यं न द्वयोः साम्ये उचितत्वे च सत्यके । कषायः पुंसि निर्यासे रसभेदे विलेपने ॥ अङ्गरागेऽप्यस्त्रियान्तु सुरभौ लोहिते त्रिषु । कुलायः पक्षिवासायां स्थानमात्रे च पुंस्ययम् ॥ क्षेत्रियेऽसाध्यरोगे स्यात्परदाररते पुमान् । क्लीबं परचिकित्सायां तया क्षेत्रोद्भवे तृणे ॥ गाङ्गेयः पुंसि भीष्मे स्यात्क्लीबं स्वर्गे कशेरुके । चक्षुष्यं पुण्डरीकाक्षाख्यपादये केतकेऽपि च ॥ Śabdaratnāvalī 7.26.39