वीवध
vīvadhaपुं · masc.In 13 kośas: 11 synonym verses, 7 as a nānārtha head word, 4 as a meaning of another word.
genderपुंmasc.
विवधो वीवधो भारः पर्याहारश्च कथ्यते ।काचं शिक्यमिति प्रोक्तं भारयष्टिर्विहङ्गिका ॥ ७५८ ॥
अनुष्टुप्
genderपुंmasc.
मञ्जूषापि स्त्रियां चाथ द्वयोर्विवधवीवधौ ।पर्याहारो भरो भारोप्यथापि स्याद्विहङ्गमा ॥ ७६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
वीवधो विवधश्चोभौ पर्याहारे समार्थकौ ।विहंगिका भा*[ र ]यष्टिः कथिता च विहंगमा ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
वार्तावहेऽथ भारे स्याद्वीवधो विवधः पुनः ।शिक्यं काचस्तदाधारयष्टिरुक्ता विहङ्गिका ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
किल वीवधिकश्चेति भारे विवधवीवधौ ।शिक्यं काचस्तदालम्बो भारयष्टिर्विहङ्गिका ॥ ५३९ ॥
अनुष्टुप्
genderपुंmasc.
वर्तन्येकपदी वाटः सरणिर्वत्म वर्तनम् ।अयनं माच-माथौ च विवधो वीवधोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
विवधा वीवधः पर्याहारभारभरा अपि ॥
genderपुंmasc.
वैवधिको विवधिको वीवधिकोऽथ भारके ।भरो विवधो वीवधः स्यादथो भारयष्टिका ॥ १८ ॥
metre not recognised
genderपुंmasc.
विकृतौ पयसः क्षीरच्छदः संतानिका स्त्रियाम् ।विवधो वीवधो हारः पर्याहारो विहङ्गिका ॥ ७७४ ॥
अनुष्टुप्
genderपुंmasc.
भद्रासनं भद्रपीठं पीठं कोशोऽर्थसंचयः ।लक्ष्मीश्रीसंपदस्तुल्या विपत्तिविपदापदःधान्यादेर्वीवधः प्राप्तिरायातिस्तु धनागमः ॥ १२९१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ ॥ ९६ ॥
अनुष्टुप्
meanings
विवधवीवधौ भारे पर्याहारे तथाध्वनि ।अवधी कालदण्डौ स्तः सीमानोऽवधयः स्मृताः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ध (wrong syllable)
meanings
पर्याहाराध्वभारेषु स्यातां विवधवीवधौ ।वडवाश्वा ब्राह्मणी च वाहिनी सिन्धुसैन्ययोः ॥ २१६४ ॥
अनुष्टुप्
meanings
विवधो वीवधश्च द्वौ पर्याहारेऽध्वभारयोः ।वृत्तान्तः स्यात् प्रकरणे कार्त्स्न्ये वार्ताप्रकारयोः ॥ ७१ ॥
अनुष्टुप्
meanings
वीवध as a meaning in nānārtha verses
- धरणिकोश भारभारः स्वर्णपलानां तु द्विसहस्रे च वीवधे । [79] सारो मज्ज्नि बले व्याधौ सारं न्याय्ये जले धने ॥ Dharaṇikośa 26.2.7
- कोषकल्पतरु भारहेम्नः पलानामयुतद्वये स्या- द्भारस्तुलानामपि विंशतौ [45b] च । स्याद्वीवधेऽथो मरके स्मरे च वृषेऽपि मारो गदितोऽथ चण्ड्याम् ॥ १३ ॥ Koṣakalpataru 6.27.13
- शब्दरत्नावली भारीकट्फलायामनन्तायां तथा तिथिभिदि स्त्रियाम् । त्रिषु साधुश्रेष्ठयोः स्यान्नपुंसि करणान्तरे ॥ भारी हरौ वीवधे स्यात्पलानां द्विसहस्रके । भीरुस्त्रिलिङ्ग आगर्ते स्यात् स्त्रियां मेववस्त्रिषु (?) ॥ भूरि क्लीबं काञ्चने स्यात्प्रचुरेऽपि च वाच्यवत् । पुमान् विष्णौ महादेवे परमेष्ठिनि वासवे ॥ Śabdaratnāvalī 7.27.27
- वैजयन्ती भरभरवीवधयोश्चान्त्यौ भूस्पृशौ वैश्यमानवौ । विश्लेषे दारणे भेदो भेनः सूर्ये निशाकरे ॥ ४२ ॥ Vaijayantī 6.1.42