कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कबन्ध

kabandhaक्ली · neut.

In 20 kośas: 26 synonym verses, 9 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.285 · p. 25
इन्द्रियायतनमङ्गविग्रहौ क्षेत्रगात्रतनुभूघनास्तनूः ।मूर्तिमत्करणकायमूर्तयो वेरसंहननदेहसंचराः ॥ ५६३ ॥घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्ष्मणी ।कलेवरं शरीरेऽस्मिन्नजीवे कुणपं शवः ॥ ५६४ ॥मृतकं रुण्डकबन्धौ त्वपशीर्षे क्रियायुजि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.1 · p. 42
नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशंतोयं जीवनजीवनीयसलिलार्णांस्यम्बु वाः संवरम् ।क्षीरं पुष्करमेघपुष्पकमलान्यापः पयःपाथसीकीलालं भुवनं वनं घनरसो यादोनिवासोऽमृतम् ॥ १०६९ ॥कुलीनसं कबन्धं च प्राणदं सर्वतोमुखम् ।
शार्दूलविक्रीडितम्
genderक्लीneut.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर तिर्यक्काण्डः Abhidhānacintāmaśiloñcha 4.24 · p. 4
नीलमणौ महानीलं कबन्धमपि वारिणि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.2
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ।अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ ४ ॥मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.190
कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम् ।
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.630 · p. 72
कबन्धः कथ्यते रुण्डः क्षतमीर्ममरुर्व्रणः ।असृग्धराजिनं चर्म कृत्तिस्त्वक् परिकीर्तिता ॥ ६३० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.381 · p. 131
चितिः खाटिश्चिता चित्या स्त्रियां ना चूडकः कटः ।शिरोहीने कबन्धोऽस्त्री रुण्डो देहे क्रियान्विते ॥ ३८१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.8 · p. 344
कृपीटं कमलं सारं क्षीरं विषमिदं घृतम् ।कबन्धमुदकं पाथः कीलालं पुष्करं सरम् ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.53 · p. 32
अश्लेषाभूः कबन्धः स्यादार्द्रालुब्धक अङ्घ्रिजः ।छायापथो देवपथोऽपत्ये दैवपथायनिः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.1 · p. 98
स्त्रियामापो वारो बहुषु सलिलं वारि सरिलंजलं पाथः पीथं दकमुदकमम्भोऽम्बु च पयः ।कबन्धं कं पाथं घृतममृतमर्णो जनहितंकृपीटं पानीयं जलदकुसुमं पावन-वने ॥ १ ॥
शिखरिणी
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.73 · p. 270
रुण्डः शरीरं विशिरस्तु मुक्तंन स्त्री कबन्धो यदि तत्क्रियावत् ।क्ष(श)वस्तु षण्ढे मृतकं तु पूति-विवर्धनोऽस्त्री कुणपः शवोऽस्त्री ॥ ७३ ॥
उपजातिः
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.50 · p. 113
श्राद्धो[232b]त्सेध-कबन्ध-सौध-मधु चान्धं चायुधं चौषधंमौनं मानविमानयानपुलिनापीनोदपानासनम् ।उद्यानं नलिनं खलीनखलिनस्थानाभिधानौदन-ब्रह्मप्रेमसमानजानुनिधनप्रस्फोटनं पक्ष्म च ॥ ५० ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंक्लीm. n.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.204 · p. 34
रुण्डोऽशिराः कबन्धोऽस्त्री कुणपोऽरिशवोऽस्त्रियाम् ।शवयानं कटः कोटिश्चिता चित्या चिति स्त्रियाम् ॥ २०४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.230 · p. 129
शवः कुणपनामाथ कबन्धो रुण्डमित्यपि ।अपशीर्षं क्रियायुक्तं मृतकं तु विभाव्यताम् ॥ २३० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.143 · p. 229
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.28 · p. 126
कमन्धश्च कबन्धश्चोदः कं चाप्युदकं तथा ।करं च पुष्करं चापि पाथः पाश्चार्ण इत्यपि ॥ २८ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.241 · p. 17
कबन्धः शीर्षरहितः श्मशानं पितृकाननम् ।चिता चित्या चितिः काष्ठशय्या मृतकमन्दिरम् ॥ २४१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.280 · p. 20
अमृतं जीवनं वारि सलिलं भुवनं पयः ।कबन्धमर्णोम्भस्त्योयमुदकं ककुशं शरम् ॥ २८० ॥
अनुष्टुप्
genderक्लीneut.
संसारावर्त Saṃsārāvarta · विक्रमादित्य Saṃsārāvarta 14 · p. 467
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.111 · p. 13
उदकं पुष्करं क्षीरममृतं सर्वतोमुखम् ।कङ्कबन्धं घनरसमापो वा कमलं विषम् ॥ १११ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.618 · p. 137
शिरो विना च मृतकं कबन्धो रुण्ड उच्यते ।
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1856 · p. 303
कबन्धं कमलं चाऽम्भः कमन्धं शम्बरं दकम् ।अर्णोऽम्बु चाऽमृतं कं वाः आपोऽप् च सर्वतोमुखम् ॥ १८५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.91 · p. 225
उदकोदे दक-दगे कबन्धं बन्ध-मन्धके ।कमन्धमापः स्री भूम्नि आपः सन्तस्त्र्युत्सूत्सकौ ॥ ९१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 स्त्र्यु (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.318 · p. 43
अम्भःपुष्करवारितोयजलवाःपाथोवनार्णःपयः-पनीयोदकमेघपुष्पसलिलक्षीराम्बुनीरामृतम् ।कीलालं भुवनं कबन्धकमले तज्जीवनं शम्बरंनारः पुंसि कमव्यये धनरसो नापस्तु भूम्नि स्त्रियाम् ॥ ३१८ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 1 प (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1392 · p. 168
कृत्तमूर्ध कबन्धोऽस्त्री नृत्तद्युधि कलेबरम् ।प्रग्रहोऽपग्रहो बन्दी कारा बन्धनवेश्मनि ॥ १३९२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.216 · p. 122
रुण्डोऽशिराः कबन्धोऽस्त्री कुणपस्तु शवोऽस्त्रियाम् ।शवयानं कटः खाटिश्चिता चित्या चितिः स्त्रियाम् ॥ २१६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
धरणिकोश Dharaṇikośa · धरणिदास धार्धश्लोकः Dharaṇikośa 18.2.16 · p. 103
न्यग्रोधौ चावटव्यामौ न्यग्रोधी वृषपर्णिका ।कबन्धं सलिले रुण्डे कबन्धो राक्षसान्तरम् ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धान्ताः Koṣakalpataru 6.20.72 · p. 242
कुटिलपराहतयोराविद्धो[सौ]वाच्यवद्गदितः ।केतुग्रहे च जठरे रक्षोभेदे कबन्धो ना ॥ ७२ ॥
metre not recognised
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धान्ताः Koṣakalpataru 6.20.73 · p. 242
क्लीबं सलिले न स्त्री शिरसा हीने शरीरे स्यात् ।आबन्धो दृढबन्धे प्रेमणि च स्यादलंकारे ॥ ७३ ॥
metre not recognised
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.399 · p. 81
पुंस्याहार्थे हर्षनन्दी ना त्वेव पटवासके ।कणिकोऽथ कबन्धोऽस्त्री क्रियायुक्तेऽपमूर्धके ॥ ३९९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.400 · p. 81
शरीरे सलिले चापि रक्षोभेदे तु पुंस्ययम् ।रमसस्तूदरे राहावपि भाषितवानमुम् ॥ ४०० ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश धान्ताः Śabdaratnāvalī 7.19.26 · p. 232
उपधिस्तु रथाङ्गे स्यात् व्याजेऽपि च भवेत् पुमान् ।कबन्धोऽस्त्री क्रियायुक्तमूर्धहीनकलेवरे ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश धान्ताः Śabdaratnāvalī 7.19.27 · p. 233
जले क्लीबं पुंसि कुक्षौ राहौ च राक्षसान्तरे ।दुर्विधः पिशुने मूर्खे दुर्गते वाच्यलिङ्गकः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2069 · p. 251
कबन्धोऽस्त्र्यपमूर्ध्न्यङ्गे षण्डेंऽभस्याशरे पुमान् ।कादम्बः सायके हंसे कदम्बः शरभूरुहोः ॥ २०६९ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.217 · p. 166
राहौ शिरःशून्यकाये कबन्धः क्लीबमम्बुनि ।गोधा तले निहाकायां गन्धो गर्वे लवेऽपि च ॥ २१७ ॥
अनुष्टुप्

कबन्ध as a meaning in nānārtha verses