तरङ्ग
taraṅgaपुं · masc.In 17 kośas: 17 synonym verses, 13 as a meaning of another word.
तरङ्गे भङ्गवीच्यूर्म्युत्कलिका महति त्विह ॥ १०७५ ॥
अनुष्टुप्
genderपुंmasc.
भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
वीची भङ्गस्तरङ्गः स्यात्तन्महत्त्वे च कथ्यते ।ऊर्मिरुत्कलिकोल्लोलः कल्लोलो लहरी तथा ॥ ६५३ ॥
अनुष्टुप्
genderपुंmasc.
भङ्गस्तरङ्गस्तरगः कल्लोलोल्लोलकश्च सः ।ऊर्मिर्भङ्गश्च भङ्गं च बुद्बुदाकर इत्यपि ।डिण्डीर: पाण्डरश्चर्वी जलपीतं तरङ्गजम् ॥ १६४ ॥
अनुष्टुप्
genderपुंmasc.
ऊर्मिर्द्वयोस्तरङ्गो ना भङ्गो भङ्गि स्त्रियामियम् ।भङ्गी च लहरी वीचा लहरिश्चोर्म्यपि स्त्रियाम् ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
तरङ्ग-भङ्गौ नरि पुंसि चोर्मिर्वीचिर्लहर्युत्कलिकाम्बुवल्ली ।कल्लोल उल्लोल इमासु तुङ्गास्ववर्तकोऽम्भोभ्रम-वारिगुल्मौ ॥ १९ ॥
उपजातिः
genderपुंmasc.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
ऊर्मिपुंतरङ्गपुंध्वनिपुंशब्दपुंअञ्जलिपुंकरपुटपुंओष्ठपुंअधरपुंदन्तच्छदपुंकपोलपुंगण्डपुंगुल्फपुंपादग्रन्थिपुंघुठपुंघूंठपुंपादपुंरोगपुंवेगपुंस्पर्शपुंपाकपुंत्यागपुंयोगपुंप्रसादपुंभेदपुंछेदपुंदाहपुंदोषपुंप्रकारपुंविकारपुंजयपुंनयपुंकरपुंवरपुंभरपुंशरपुंनरपुंप्लवपुंपवपुंभवपुंअन्धकारपुंक्लीवस्तिपुंकुक्षिपुंपाणिपुंजङ्घास्त्रीशिरास्त्रीस्नुषास्त्रीनासिकास्त्रीचूडास्त्रीवसास्त्री
genderपुंmasc.
एते शब्दाः पुंसि भवन्ति । अयं रयो वेगः । मण्डपो जनाश्रयः । नरको दुर्गतिः अवीचिरित्यादि असुरश्च । कपालः शि[सि]रोऽवयवः भिक्षाभाजनं च । गुड इक्षुविकारः । मणिः रत्नम् । मेढ्रः शिश्नम् । दर्दुरो भेकः । कुसूलो धान्यादिस्थित्याधारः । युग्माकाशव्रतशृङ्गवर्जिता इति । युग्मादयश्च नपुंसके भवन्ति । इदं युग्मं युगलम् । आकाशं नभः । व्रतं नियमः । शृङ्गं विषाणं पर्वतस्य च । मञ्चः काष्ठकृतः ।स्थूलालक्तककर्पाससूर्यकूर्पाससारथितरङ्गाः ।अलकसमुडावराटकनूपुरकङ्कणाः पुंसि ॥ ७० ॥
metre not recognised
genderपुंmasc.
भङ्गस्तरङ्गः कल्लोलो वीचिरुत्कलिकाऽवलिः ।पाली वेला तटोच्छ्वासौ विभ्रमोऽयमुदन्वतः ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
तरङ्गो वीचिभङ्गोर्मिकलिका महति त्विह ।कल्लोलोल्लोललहरिभेदाश्चाब्धिकफे पुनः ॥ ३५३ ॥
अनुष्टुप्
genderपुंmasc.
वाकोत्तरपदाः शब्दाः सूक्तवाकादयो नरे ।नक्तको रल्लकाङ्कौ च तरङ्गो रङ्ग इत्यपि ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
भङ्गस्तरङ्गो रङ्गश्चाप्यूर्मिं नक्लीब इष्यते ।स्वल्पे घने तु कल्लोलश्चोल्लोलश्च विलोलकः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
जलपर्यायनिधिर्वाधिर्जलपर्यायभवं कजम् ।ऊर्मिस्तरङ्गो लहरी वीचिर्भङ्गिर्जलोद्गतिः ॥ २८२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
उर्मिस्तरङ्गः कल्लोलो भङ्ग उत्कलिकावलिः ।उल्लोलो लहरी वीचिरावर्तः पयसां भ्रमः ॥ ११८ ॥
अनुष्टुप्
genderपुंmasc.
ऊर्मि उत्कलिका भङ्गो वीचिश्च तरङ्गः पुनः ।उल्लोलो लहरी चैव कल्लोलो महति त्विह ॥ १८७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 र (wrong syllable)
genderपुंmasc.
आप्य-मम्मयमित्येतत् द्वयं जलमये त्रिषु ।अथ भङ्गस्तरङ्गः स्यादूर्मिर्वीचिरिति स्त्रियाम् ॥
अनुष्टुप्
genderपुंmasc.
तरङ्गो भङ्ग ऊर्मिर्वा स्त्री वीचिर्लहरी समे ।गुरुषूल्लोलकल्लोलौ तनुषूत्कलिकोर्मिषु ॥ ३१९ ॥
अनुष्टुप्
genderपुंmasc.
तरङ्ग as a meaning in nānārtha verses
- कोषकल्पतरु ऊर्मिकिर्मी पलाशे गृहहेमपुत्र्योः स्त्रियां तदेनेहसि पुंसि सर्मः । ऊर्मिर्द्वयोर्वेगतरंगभङ्ग- प्रकाशलेखार्तिषु वेदनायाम् । स्याद्वस्त्रसंकोचन उत्कतायां कृमिः क्रिमिर्ना जतुकासु कीटे ॥ ७३ ॥ Koṣakalpataru 6.25.73
- कोषकल्पतरु अवरोहस्त्री वरनारीश्रोण्योरवरोहः स्यात्तरंगे[94a]ऽपि । वल्ल्युद्गमेऽवतारेऽथाश्वारोहोऽश्ववारके पुंसि ॥ ६३ ॥ Koṣakalpataru 6.32.63
- नानार्थार्णवसंक्षेप भङ्गभङ्गस्तु ना तरङ्गे स्याद् भञ्जने च स्त्रियां पुनः । मातुलान्याह्वये धान्ये भङ्गा भद्रस्तु नोक्षणि ॥ ८७९ ॥ Nānārthārṇavasaṃkṣepa 2.5.879
- नानार्थार्णवसंक्षेप वेलातरङ्गे वत्सरे काले व्यवस्थायामपि स्त्रियाम् । वेल्ला तु वेल्लने नृस्त्री विडङ्गे तु नपुंसकम् ॥ १२९५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1295
- शब्दरत्नावली ऊर्मिकाउष्ट्रिका करभस्त्रीषु मृत्तिका भाण्डभेदके । ऊर्मिका वस्त्रभङ्गे स्यादङ्गुरीयतरङ्गयोः ॥ Śabdaratnāvalī 7.1.37
- शब्दरत्नावली उत्कलिकाशूकरे मूषिके चौरे भवेदाखनिकः पुमान् । हेलोत्कण्ठातरङ्गेषु भवेदुत्कलिका स्त्रियाम् ॥ Śabdaratnāvalī 7.1.159
- शब्दरत्नावली भङ्गभङ्गा शस्यभेदे भङ्गः पराजयतरङ्गयोः । रोगभेदे भये पुंसि भङ्गिस्त्रियामनुक्रमे ॥ Śabdaratnāvalī 7.3.12
- शब्दरत्नावली वीचिवाग्वाचा च समानार्थे भारतीवचसोः स्त्रियौ । वीचिस्तरङ्गावकाशसुखस्वल्पेषु च द्वयोः ॥ Śabdaratnāvalī 7.6.9
- शब्दरत्नावली ऊर्मिऊर्भिर्द्वयोस्तरङ्गे स्याद्भङ्गे वेगप्रकाशयोः । वस्त्रसङ्को च रेखायां पीडावेदनयोरपि ॥ Śabdaratnāvalī 7.25.3
- शब्दरत्नावली गुहगृहं नाम्नि कलत्रे च गेहे पुंभूम्नि च क्वचित् । गुहः पुंसि महासेने भृशवेगितरङ्गयोः (?) ॥ Śabdaratnāvalī 7.33.6
- शब्दरत्नाकर भङ्गभङ्गः पराजये छेदे तरङ्गे चावखण्डने । भङ्गा तु यवभेदे स्याद् भीमौ रुद्रवृकोदरौ ॥ १९७३ ॥ Śabdaratnākara 4.1.1973
- त्रिकाण्डशेष भङ्गतरङ्गभेदयोर्भङ्गो भङ्गा सस्ये शणाह्वये । एकदेशांशयोर्भागो भृङ्गो धूम्याटकेऽपि च ॥ ६५ ॥ Trikāṇḍaśeṣa 3.3.65
- त्रिकाण्डशेष वीचिकुक्कुरे रतनारीचः शीत्कारे वरयोषिताम् । केतुग्रहे तु विकचो वीचिः सुखतरङ्गयोः ॥ ७८ ॥ Trikāṇḍaśeṣa 3.3.78