All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
द्व्यक्षरकाण्डः · स्त्रीलिङ्गाध्यायः (2/2)
क्षेत्रव्यवस्थयोश्चेति डाबन्तार्थाः समीरिताः ।मन्नन्तापि च सीमास्ति तस्याश्चार्था इमे मताः ॥ १२१ ॥
2.1.121 · p. 20
अनुष्टुप्
अदन्तोऽप्यस्ति सीमः स नानालिङ्गेषु वक्ष्यते ।ईक्ष्यास्तदर्थास्तत्राथ सुधा सौहित्यमूर्वयोः ॥ १२२ ॥
2.1.122 · p. 20
अनुष्टुप्
गङ्गेष्टिकायां कुड्यादिलेपद्रव्यान्तरेऽमृते ।स्नुह्यां स्थूणा तु गेहस्य स्तम्भे वातादिषु त्रिषु ॥ १२३ ॥
2.1.123 · p. 20
अनुष्टुप्
लोहप्रतिकृतौ तन्त्रधारिण्यामिति षट्स्वपि ।रश्मिमेखलयोः स्यूना सृष्टिस्त्यागस्वभावयोः ॥ १२४ ॥
2.1.124 · p. 20
अनुष्टुप्
उत्पादने चाथ सृतिर्मार्गे च गमनेऽपि च ।स्मृतिस्तु धर्मशास्त्रे स्यादुत्कण्ठाचिन्तयोरपि ॥ १२५ ॥
2.1.125 · p. 20
अनुष्टुप्
हिंसा चौर्यादिके घातेऽथो प्रस्तावविलासयोः ।अवज्ञायां च हेलाथ होरा लग्नार्धलग्नयोः ॥ १२६ ॥
2.1.126 · p. 20
अनुष्टुप्