युवन्
yuvanपुं · masc.In 16 kośas: 17 synonym verses, 2 as a nānārtha head word, 18 as a meaning of another word.
शिशुत्वं शैशवं बाल्यं वयस्थस्तरुणो युवा ।
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
प्रवयाः स्थविरो वृद्धो यातयामश्च कथ्यते ।जरा तु विस्रसा प्रोक्ता दारकस्तरुणो युवा ॥ ५०३ ॥
अनुष्टुप्
genderपुंmasc.
सुकुमारो माणवकः पौगण्डस्तु दशावधि ।कैशोर आपञ्चदशाद्युवा तु त्रिंशदब्दकः ॥ ९४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
genderपुंmasc.
तरुणस्तु वयस्थः स्याद्युवोत्पन्नवया अथ ।प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ९६ ॥
अनुष्टुप्
genderपुंmasc.
षष्टिवर्षो युवार्थः स्याच्छुण्डारोऽपि मतः स च ।स्यादशीतेस्तु वृद्धोऽथ यद्गन्धाघ्राणतोऽपरे ॥ १५० ॥
अनुष्टुप्
genderपुंmasc.
मातापितृभ्यां यः शून्यश्छेमण्डः स प्रकीर्तितः ।नरौ नरश्च नारी च युवानौ युवतिर्युवा ॥भ्राता स्वसा च गदितौ भ्रातरावथ सोदरः ।सहोदरः सगर्भ्यश्च समानोदर्य इत्यपि ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
माणव्यं तत्समूहेऽन्त्येऽथ भूते मासमीरितौ ।मासीन-मास्यौ षाण्मास्यो भवेत्षण्मास इत्यपि ।षाण्मासिकोऽस्त्री * * * वयःस्थस्तरुणो युवा ।किशोरस्तलुनोऽथ स्याद्वेकटो जातयौवनः ॥ १४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
स्रगादयः शब्दाः स्त्रियां भवन्ति । तद्यथा । इयं स्रक् माला । इयं स्रुक् यज्ञोपकरणभाण्डम् । इयं स्फिक् कटिप्रदेशः । इयं त्वक् बहिश्चर्म । इयं वाक् वाणी । इयं योषित् बाला । द्यौश्च नौश्च द्युनावौ च स्त्रियां भवतः इयं द्यौः स्वर्गः । इयं नौः जलतरणिः । हिशब्दः पादपूरणे । दीधितिमेकां वर्ज्जयित्वा रश्मिवाचकाः शब्दाः पर्यायाश्च ये ते पुंसि भवन्ति । तद्यथा इमे रश्मयः प्रग्रहाः किरणाः अंशवः पादाः मयूखाः अभीषवः गभस्तयः घृणय इत्येवमादयः । तुशब्दः पादपूरणे ।मूर्द्ध्नोऽक्षतक्षमज्जश्लेष्मात्माश्मयु[यू]वपूषराजभी रहितम् ।सर्वं द्व्यच्कं नान्तं नपुंसकं पुंसि वा भवेद्ब्रह्मा ॥ १९ ॥
metre not recognised
genderपुंmasc.doubtful
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderपुंmasc.
शैशवं शिशुता बाल्यं युवा स्यात्तरुणः समः ।वयःस्थोऽप्यथ वृद्धे तु स्थविरः प्रवया जरन् ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
युवा वयःस्थस्तरुणस्तारुण्यं यौवनं वयः ।जरीयान्स्थविरो वृद्धो वार्धक्यं विस्रसा जरा ॥ ७१ ॥
अनुष्टुप्
genderविadj.
वयस्थस्तरुणश्चैव युवाऽपि कथ्यते बुधैः ।तारुण्यं यौवनं चैव यौवनिकाऽपि मन्यते ॥ ४९९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 4, syllable 3 नि (wrong syllable)
genderपुंmasc.
वयस्थश्च वयःस्थोपि तरुणस्तलुनो युवा ।स्थविरः प्रवया वृद्धो जीर्णो जीनो जरन्नपि ॥
अनुष्टुप्
genderपुंmasc.
बाल्यवद्बालिमा पाकं पाकिमा ना, वयस्यके ।युवा युवानस्तरुणस्तलुनश्चाथ यौवनम् ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
जघन्यजकनीयांसौ कनिष्ठोऽवरजोऽनुजः ।यवीयांश्च यविष्ठश्च वयस्थस्तरुणो युवा ॥ ११४४ ॥
अनुष्टुप्
genderपुंmasc.
वटुर्माणवकोऽथ स्याद्वयः स्थस्तरुणो युवा ।जीनो जीर्णो वृद्धवयाः प्रवयाः स्थविरो जरन् ॥ ३ ॥
अनुष्टुप्
genderविadj.
मार्जनो लोध्रवृक्षे स्यात्क्लीबं मार्ष्टौ तु मार्जनम् ।मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु ॥मैथुनं सङ्गते क्लीबं सुरते च नपुंसकम् ।यमनो ना यमे क्लीबं बन्धे चोपरतावपि ॥यवनो जातिभिद्देशभिदोर्वेगाश्वयोरपि ।यवन्योषधिभेदे स्त्री वेगिनि त्वभिधेयवत् ॥यापनं स्यान्निरसने कालक्षेपे च वर्त्तने ।युवा श्रेष्ठे च तरुणे निसर्गबलसंयुते ॥योजनं स्याच्चतुष्क्रोश्यां योगमाने परात्मनि ।रसनं स्वादने शब्दे स्याद्रास्नाजिह्वयोः स्त्रियाम् ॥
अनुष्टुप्
युवन् as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् कनीयस्वृद्धप्रशस्ययोर्ज्यायान्कनीयांस्तु युवाल्पयोः । Amarakośa 3.3.458
- धरणिकोश कनिष्ठप्रकोष्ठः कूर्पराधः स्यात्प्रकोष्ठं च गृहान्तरम् । कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा काचिदङ्गुली ॥ Dharaṇikośa 11.2.7
- धरणिकोश तरुणकरुणः सदये वृक्षभेदे च करुणा दया । तरुणं विदुरेरण्डं तरुणौ युवनूतनौ ॥ Dharaṇikośa 14.2.23
- धरणिकोश कनीयस्कनीयाननुजे प्रोक्तो यूनि चाल्पे च कीर्तितः । विहायसं विदुर्व्योम पक्षिणश्च विहायसः ॥ Dharaṇikośa 31.2.18
- कोषकल्पतरु कनिष्ठवरे वरीयस्यपि तित्तिरौ च क्लीबे तु ताम्रे मरिचे तथैव । साधिष्ठ आर्येऽतिदृढे कनिष्ठ- स्त्वल्पेऽनुजे यूनि तथाङ्गुलौ स्त्री ॥ ६१ ॥ Koṣakalpataru 6.11.61
- कोषकल्पतरु तरुणमञ्जिष्ठातिविषात्रिवृत्सु वनिता तद्रागवत्स्वन्यव- द्वृक्षे पुंसि रसान्तरे च करुणः प्रोक्तो दयायां स्त्रियाम् । सूर्ये वारिपतौ तरौ च वरुणोऽथो कुब्जपुष्पे भवे- देरण्डे तरुणः स यूनि परवत्स्याद्दारुणो ना रसे ॥ १८ ॥ Koṣakalpataru 6.15.18
- कोषकल्पतरु तलुनस्यात्पुंसि वायौ तलुनोऽथ यूनि भेद्योऽयमथो तलिनं तथाल्पे । तुच्छे पराभं विरले च शस्तं मलीमसे स्यान्मलिनं च कृष्णे ॥ २७ ॥ Koṣakalpataru 6.21.27
- नानार्थार्णवसंक्षेप प्रोथप्रोथोऽस्त्री हयघोणायां त्रिः प्रिये यूनि तु द्वयोः । प्रोष्ठः पुंस्यृषभे प्रोष्ठी शफर्यां स्त्र्यथ पौरवाक् ॥ ८२२ ॥ Nānārthārṇavasaṃkṣepa 2.5.822
- नानार्थार्णवसंक्षेप तरुणतरुणस्तु द्वयोर्यूनि नवीने त्वभिधेयवत् । एरण्डवृक्षे तु पुमान् रभसस्त्वन्यथावदत् ॥ ८२१ ॥ Nānārthārṇavasaṃkṣepa 4.821
- नानार्थार्णवसंक्षेप पोगण्डपोगण्डस्तु द्वयोर्यूनि विकलाङ्गे तु भेद्यवत् । प्रोक्षण्यस्तु स्त्रियोः यज्ञकारिणामप्सु कासुचित् ॥ १२१५ ॥ Nānārthārṇavasaṃkṣepa 4.1215
- नानार्थार्णवसंक्षेप वयोधस्वनश्वा क्रोष्टरि व्याघ्रे रभसोक्तोऽथ स द्वयोः । वयोधा युन्यथ त्रि स्याद् वयसो धातरि त्रि तु ॥ १६४७ ॥ Nānārthārṇavasaṃkṣepa 4.1647
- परमानन्दीयनाममाला तरुणतक्षको भुजगे तक्ष्णि तरणी रविबेडयोः । तरुणो नूतने यूनि तारकं नेत्रतारयोः ॥ २३० ॥ Paramānandīyanāmamālā 5.15.230
- शब्दरत्नावली तरुणतरुणः कुब्जपुष्पे ना चित्रके यूनि च त्रिषु । तरणिः पुंसि मार्तण्डे कुमारीनौकयोः स्त्रियाम् ॥ Śabdaratnāvalī 7.15.37
- शब्दरत्नावली तलुनजननी स्त्री दयामात्रोर्जननं जन्मवंशयोः । जगन्नुस्तु पुमान् जन्तौ वीतिहोत्रे च कीर्त्त्यते ॥ जयनं स्याद्घोटकादिसन्नाहे च जयेऽपि च । जघनं योषितां श्रोणिपुरोभागे कटावपि ॥ ज्ञानी स्याद्गणके पुंसि ज्ञानयुक्तेऽभिधेयवत् । जीवनं वर्त्तने प्राणधारणे सलिलेऽपि च ॥ जीवनी स्यात्तु जीवन्त्यां जीवनापि च मोदके । तपनो भास्करेऽपि स्यान्नरकेऽरुस्करेऽपि च ॥ तलुनो मारुते यूनि युवत्यां तलुनी स्त्रियाम् । तलिनं तरलस्तोकस्वच्छेषु वाच्यलिङ्गकः ॥ तमोघ्नो विष्णुसूर्येन्दुबुद्धमहेशवह्निषु । त्यागी दातरि शूरे च विवेकिनि भवुत्पुमान् ॥ तेवनं केलिविपिने क्रीडायाञ्च नपुंसकम् । तेमनं व्यञ्जने क्लीबं तथार्द्रीकरणेऽपि च ॥ तेजनी तृणपूले स्यात्तेजनो वंशमात्रके ॥ Śabdaratnāvalī 7.20.56
- शब्दरत्नावली वरीयस्वरीयान् योगभेदे स्याद्युनि श्रेष्ठवरिष्ठयोः । विहायाश्च खगे पुंसि गगणे पुनरस्त्रियाम् ॥ विभावसुर्दिनकरे हारभेदे च पावके । श्वश्रेयसन्तु कल्याणे सुखे च परमात्मनि ॥ Śabdaratnāvalī 7.32.53
- शब्दरत्नाकर तरुणत्रिधामा दहने विष्णौ त्रिशङ्कुरुडुतार्क्ष्ययोः । एरण्डे यूनि तरुणस्तरुणी युवतिः सहा ॥ २०९७ ॥ Śabdaratnākara 4.1.2097
- त्रिकाण्डशेष घनगहनं गह्वरे दुःखे वनेऽथाम्बुदमुस्तयोः । घनः युवा घनं वाद्यं चर्म स्यात्फलकत्वचोः ॥ २३७ ॥ Trikāṇḍaśeṣa 3.3.237
- वैजयन्ती कनिष्ठद्वौ कनिष्ठकनीयांसौ यून्यत्यल्पेऽनुजेऽपि च । क्षुल्लका नीचनिः स्वाल्पाः कलितो ज्ञातबद्धयोः ॥ ९ ॥ Vaijayantī 7.4.9