लाज
lājaपुं · masc.In 17 kośas: 18 synonym verses, 4 as a nānārtha head word, 9 as a meaning of another word.
genderपुंmasc.
genderपुंmasc.
भृष्टं धान्यं लाजाः पृथुकाश्चिपिटाश्च कुट्टितास्ते स्युः ।भृष्टा यवास्तु धाना दरपक्वा कथ्यतेऽभ्यूषः ॥ ५८५ ॥
आर्या
genderपुंmasc.
त्रिःकृत्वः कण्डिताः शुद्धास्ताण्डुला अथ पुंस्यमी ।बहुत्वे शालयो भ्रष्टा लाजा अथ तथा यवाः ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
लाजा भूम्नि द्वयोर्भृष्टः शलिखादिक उद्बुसः ।भृष्टार्द्रशूकधान्ये स्यात्पृथुकश्चिपिटः समौ ॥ १४ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
रज्जुः समासेऽथ खनौ च गञ्जालाजा बहुत्वे च भुजो वराटः ।रज्जौ च शस्त्रे च गृहे कुटः स्या-त्कुटिस्तुटिः स्याच्च सटा घटा च ॥ २० ॥
उपजातिः
genderपुंस्त्रीm. f.
एते शब्दाः नपुंसके भवन्ति । यथा इदं शवं मृतशरीरम् । पलकं नेत्ररोमविशेषः । तल्पं शयनीयम् । सद्म निवासः । बलिशं मत्स्यबन्धनम् । आमिशं गृहद्वारम् । निमित्तं कारणम् । पित्तं धातुविकारः । चित्तं मनः[नमः] । किल्बिषं पापम् । वृजिनं कुटिलम् । पीठमासनम् । पापं पातकम् ।बल्वजलाजासूनां पुंयोगः स्याद्बहुत्वं च ।स्थलशाद्वलशिबिराणां नपुंसकत्वं स्त्रियां पृतना ॥ ६० ॥
metre not recognised
genderपुंmasc.
वटकेऽवसेकिमोऽप्युक्तो धाना भ्रष्टयवाः स्मृताः ।धानाचूर्णं सक्तवस्तु लाजाः स्युः पुनरक्षताः ॥ ६६ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
लाजा वस्त्रदशार्थे च भूम्नि पुंसि स्त्रियामपि ।राजदेये भागधेय ईहाद्याः प्रत्ययान्तरात् ॥ १०७ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
लाजास्तण्डुलपुष्पाणि तृषोदन्या पिपासिका ।आहारो जैमनं लेयः केला भुक्तसमुज्झितम् ॥ २७६ ॥
अनुष्टुप्
genderपुंmasc.
लाजाः पुंसि बहुत्वे वा स्त्रियां लाजापि चाक्षतम् ॥ २२ ॥
genderपुंmasc.
भृष्टधान्यानि लाजाः स्युरक्षताः शालिसारभाक् ।उद्धूषो भरुजो ज्ञेयः खटिका परिवारकः ॥ ५९९ ॥
अनुष्टुप्
genderपुंmasc.
लाजाः पुंसि बहुत्वे स्त्री खदिर्वा क्लीवमक्षतम् ।अथ चित्रपिष्टके स्याद् चित्रापूपश्चरुव्रणः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्र (wrong syllable)
genderपुंmasc.
बहुत्वे पुंसि लाजाः स्युर्व्याजोऽपदेशशाठ्ययोः ।ब्रजो गोष्ठे पथिच्छन्दे वाजः पक्षे च निस्वने ।मुनौ पुमान् जले क्लीबं यज्ञे चैव घृतान्नयोः ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पृथुकश्चिपिटस्तुल्यौ धाना भृष्टयवे स्त्रियाम् ।पुंसि भूम्नि च लाजाः स्युः पूपापूपौ तु पिष्टकः ॥ १४३६ ॥
अनुष्टुप्
genderपुंmasc.
तर्कसंपर्कगल्वर्कालर्कोदर्कार्कमर्कटाः ।भर्गगर्गस्वर्गवर्गसर्गपुत्स(द्ग)लमुद्गराः ।दारबल्बजलाजायु(सु?)प्राणाः पुंसि च भूम्नि च ॥ २३२० ॥
अनुष्टुप्
genderपुंmasc.
सक्तुश्वूर्णक आपूप्यो भक्तं कुरुः प्रसादनः ।मण्डो ज्येष्ठाम्बु खदिका लाजाः पारी तु दोहनी ॥ १५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable)
genderपुंmasc.
गोधूमचूर्णे शमिता चिक्कसो यवचूर्णके ।पृथुकश्चिपिटो लाजाः पुंभूम्नि परिवारकः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
वक्त्रानताङ्गे त्रिषु कुब्जमाहु-र्वृक्षप्रभेदे निगदन्ति पुंसि ।आजिः समोर्वीक्षणसंगरेषुराजिस्तु रेखाततिवाचिका स्त्री ।लाजास्तु भृष्टेष्वपि शा[268a]लिषु स्युःपुंभूम्नि चार्द्रेष्वपि तन्दुलेषु ॥ २६ ॥
इन्द्रवज्राmetre not read in every line
क्लीबे प्रजाविस्तृतिलोकलाम-ज्जकेषु गुञ्जा तु कलध्वनौ स्त्री ।स्यात्काकणन्त्यां पटहेऽथ गञ्जाद्वयोः खनौ मद्यगृहे पुनः स्त्री ॥ २७ ॥
उपजातिः
doubtful
रजः परागे रेणौ च लाजः स्यादार्द्रतण्डुले ।नपुंसकमुशीरेऽथ स्त्रियां पुं भूम्नि चक्षते ॥ १०७ ॥
अनुष्टुप्
रुजा भङ्गे च रोगे च तथाङ्केऽपि च कुत्रचित् ।क्लीबे लाजमुषीरे तु लाजः स्यादार्द्रतण्डुले ॥
अनुष्टुप्
लाज as a meaning in nānārtha verses
- धरणिकोश अक्षतवेल्लितं कुटिले प्रोक्तं वेल्लतं कलितं प्लुतम् । अक्षतं चापि लाजेषु चाक्षतं स्यादखण्डितम् ॥ Dharaṇikośa 15.2.29
- कोषकल्पतरु अक्षत[291b]पुंस्यच्युतः शार्ङ्गिणि भेद्यलिङ्गः स्थिरेऽर्दितं त्वीरणरोगभेदे । त्रयेऽर्थिते हिंसितकेऽथ न स्त्री स्यादक्षतं भूम्नि तु लाजवाचि ॥ ७१ ॥ Koṣakalpataru 6.16.71
- नानार्थार्णवसंक्षेप अक्षतक्ली त्रि त्वनीक्षितेऽथ स्यादक्षतं क्लीबलिङ्गकम् । धान्येऽपि तण्डुलेऽथ स्त्रीनपोर्लाजेषु ना यवे ॥ २१ ॥ Nānārthārṇavasaṃkṣepa 4.21
- नानार्थार्णवसंक्षेप अभ्योषक्लीबमन्ये पुनः प्राहुर्हस्तिनि द्वे अथो नपि । लाजेष्वभ्योषमाहान्यः साज्याम्भःपेयसक्तुषु ॥ १०३ ॥ Nānārthārṇavasaṃkṣepa 4.103
- नानार्थार्णवसंक्षेप परिवापइयं तु लाजेष्वप्युक्ता शिष्टैरथ परिच्छदे । पर्युप्तावालवाले च परिवापोऽत्र शाश्वतः ॥ ८३ ॥ Nānārthārṇavasaṃkṣepa 6.83
- शब्दरत्नावली अक्षतअर्दितो व्याधिते संस्ये हिंसिते याचिते त्रिषु । अक्षतं न द्वयोर्त्वाजिपिण्डयोस्त्रिषु खण्डिते ॥ Śabdaratnāvalī 7.16.74
- त्रिकाण्डशेष अक्षतक्षिप्राद्रिभेदयोरतः स्याल्लाजेष्वपि चाक्षतम् । कृषावसत्येऽप्यनृतमाकृतिर्जातिरूपयोः ॥ १४७ ॥ Trikāṇḍaśeṣa 3.3.147
- वैजयन्ती अभ्योषलाजेष्वभ्योषमभ्योषाः साज्यांभःपेयसक्तवः । कृकलासेंऽडजो मत्स्ये खगे कस्तूरिकाण्डजा ॥ ११ ॥ Vaijayantī 7.5.11
- वैजयन्ती अक्षतक्ल्यक्षतं तण्डुले धान्ये न ना लाजेषु ना यवे । अजिरं जर्जरे कामे विषयांकणयोर्द्रुते ॥ १४ ॥ Vaijayantī 7.5.14