यूप
yūpaपुं · masc.In 12 kośas: 13 synonym verses, 8 as a meaning of another word.
genderपुंmasc.
नूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
धूमस्तरीर्मेघवाही यूपोसौगन्धवासितः ।झलका तु महाज्वाला प्रवर्गो नीलकोऽपि च ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
यज्ञार्थात्स्तम्भपर्यायो यूपोऽस्त्री स्यादथास्त्रियाम् ।चषालो यूपकटके यूपकर्णे घृतावनिः ॥ ७६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
संगमक्षामयोर्यूपतूर्ययोः समयस्य च ।कम्बलिबाह्यमैरेयजन्यानां प्रचयस्य च ॥ १७२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable)
genderपुंक्लीm. n.
तूदस्तुदश्च नूतश्च क्रमुको ब्रह्मचार्यपि ।ब्रह्मनिष्ठश्च यूपश्च ब्रह्मण्यो ब्रह्मपादपः ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.
द्वीपो निपः कुणपमण्डपबाष्पशष्प-यूपानि विष्टपयुतः कुतपोष्मपौ च ।तल्पः शफोऽप्यथ च कम्बु सडिम्ब[बि]म्बंजम्भः कुसुम्भकलभौ ककुभो निभश्च ॥ ५४ ॥
वसन्ततिलका
genderपुंक्लीm. n.
एते शब्दाः सदा पुंसि भवन्ति । यथा पाषाणः प्रस्तरः । उपलः शिला पाषाण एव । शृङ्गारो विदग्धता । प्रस्थः परिमाणम् । भृङ्गारः सुवर्णमयः कलशः । मस्तकः शिरः । स्तबकः पुष्पोत्करः । शब्दो ध्वनिः । रसो माधुर्यादिः । स्पर्शो मृदुकर्कशादिः । गन्धो नासिकाग्राह्यः कुसुमादेः । रूपं मुक्त्वा रूपं विहाय ।रूपं नपुंसके भवति । इदं रूपं चक्षुर्ग्राह्यम् ।शेखरयूपपुरोडाशकूपसूपलवशष्पाः ।धर्ममयवासोदशादाराः पुंसि बहुत्वं चैषाम् ॥ ५५ ॥
metre not recognised
genderपुंmasc.
एते शब्दाः पुंसि भवन्ति । अयं शेखरः पुष्पसङ्घातः उत्तुङ्गो वा । यूपो यज्ञभाण्डम् । पुरोडाशो यज्ञपिण्डकिः । कूपोऽवटः । सूपो व्यञ्जनम् । लवो लेशः । शष्पो बालतृणम् । धर्म उपवासादिः । मयो वेश्म । वासांसि वस्त्राणि तेषां दशाः । दाराः स्त्रियश्च पुंसि भवन्ति बहुत्वं चैषां सदा भवति । इमे वासोदशाः वस्त्रान्तसूत्रम् । इमे दाराः स्त्रियः । वास इति किम् । दशा अवस्था ।मांसविवराभिधानं नपुंसके विद्धि तीर्थतुण्डे च ।यवमाषाद्या व्रीहयः पुंसि प्रियङ्गवश्च स्त्रियामेव ॥ ५६ ॥
metre not recognised
genderपुंmasc.
तूले नूदं ब्रह्मचारु ब्रह्मण्यं ब्रह्मकाष्ठकम् ।ब्रह्मनिष्ठं च यूपं च क्रमुकं ब्रह्मचारि च ॥ १६३ ॥
अनुष्टुप्
genderक्लीneut.
चत्वरं स्थण्डिलं यज्ञाऽसंस्कृतभूमिरुच्यते ।पशुहिंसायज्ञस्तम्भः स्याद्यूपो यज्ञकीलकः ॥ १३७४ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable); pāda 3, syllable 5 य (wrong syllable)
genderपुंmasc.
चषालो यूपकटकः पशुबन्धनदारुणि ।यज्ञार्थपशुबन्धार्थकाष्ठे यूपोऽभिधीयते ॥
अनुष्टुप्
genderपुंmasc.
यूपोऽस्त्री संस्कृतस्तंभो होमयूपस्तु शौभिकः ।यूपावग्निषु पार्श्वस्थावुपस्थाविति संज्ञितौ ॥ १०३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
यूप as a meaning in nānārtha verses
- कोषकल्पतरु युगश्रीकीर्तिमाहात्म्यसमर्थतासु ज्ञानस्पृहामुक्तिवृषेषु नार्के । युगं चतुष्के च करस्य सीर- रथाङ्गयोर्युग्मकृतादिकेषु । यूपेऽस्त्रियां मानपरः पुमान्स्या- न्मूर्खे पराभं लिगु मानसेऽन्त्ये ॥ ९२ ॥ Koṣakalpataru 6.3.92
- कोषकल्पतरु स्वरुस्यात्पिङ्गले वाच्यसमोऽथ शिग्रुः शोभाञ्जने स्त्रीरहितश्च शाके । शरुस्तु कोपे कुलिशे च पुंसि स्वरुर्मखे यूपकृपाणयोश्च ॥ ६२ ॥ Koṣakalpataru 6.27.62
- नानार्थार्णवसंक्षेप सोम्ययूप सनदशारत्निर्वाजपेय य य श्रुत । तस्य पञ्चदशेऽरत्नौ सोमयागे च नप् पुनः ॥ १५६७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1567
- नानार्थार्णवसंक्षेप इल्वलयूपे तु पुंसीत्यपरे भ्रान्तिमूलास्तु केचन । मृगशीर्षाख्यनक्षत्रशिरोदेशस्थितोडुषु ॥ २२३ ॥ Nānārthārṇavasaṃkṣepa 4.223
- नानार्थार्णवसंक्षेप क्षालनक्षालनोऽरत्निके षष्ठे यस्य यूपस्य सप्त च । दश चारत्नयोः मानं तस्य स्त्रीशण्डयोः पुनः ॥ ४४८ ॥ Nānārthārṇavasaṃkṣepa 4.448
- नानार्थार्णवसंक्षेप माधुरयत् स्यान्मधुकसम्बन्धि तस्मिन्नथ नृलिङ्गकः । माधुरः षोडशेऽरत्नौ मूलादारभ्य यस्य हि ॥ १४१९ ॥ Nānārthārṇavasaṃkṣepa 4.1419
- नानार्थार्णवसंक्षेप उपशयगूढात्मानो मृगान् घ्नन्ति तत्र यूपे तु याज्ञिकाः । एकादशकपक्षे यः शेते दक्षिणतो भुवि ॥ ३८ ॥ Nānārthārṇavasaṃkṣepa 6.38
- शब्दरत्नाकर स्वरुस्वामी षडानने पत्यौ स्वरुर्यूपांशवज्रयोः । स्याज्जाड्यस्थूणथोः स्तम्भः सुतः सोमरसेऽपि च ॥ २०२३ ॥ Śabdaratnākara 4.1.2023