कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मुक्ति

muktiस्त्री · fem.

In 14 kośas: 14 synonym verses, 3 as a nānārtha head word, 11 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.76 · p. 6
महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ।शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥ ७४ ॥महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् ।मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः ॥ ७५ ॥वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ।निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोगशमादयः ॥ ७६ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.11
मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् ॥ ६ ॥मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम् ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.124 · p. 15
कैवल्यं निर्वाणं निःश्रेयसममृतमक्षरं ब्रह्म ।अपुनर्भवोऽपवर्गो मुक्तिर्मोक्षो महानन्दः ॥ १२४ ॥
आर्या
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.180 · p. 88
प्रयोज्यमेवं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ।ब्रह्मभूयं स्त्रियां मुक्तिः पुंसि मोक्षापवर्गकौ ॥ १८० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.154 · p. 434
महानन्दोऽपवर्गः स्त्री निवृत्तिर्मुक्तिरित्यपि ।सिद्धिः क्लीबे ब्रह्म शिवं श्रेयो निःश्रेयसामृते ॥ १५४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.33 · p. 4
मोक्षः स्यादपुनर्भवोऽपि च महानन्दोऽपवर्गस्तथादुःखौघप्रलयो महोदयद्रहः स्त्री निर्वृतिः सिद्धिवत् ।मुक्तिर्ब्रह्म नपुंसकेऽमृतशिवश्रेयांसि निःश्रेयसम्निर्वाणं सुखमक्षरं च कथितं कैवल्यमुच्चैःपदम् ॥ ३३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 10 य (wrong syllable)
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.150 · p. 27
ब्रह्मभूयं ब्रह्मभावे देवभूयादिकं तथा ।अमृतत्वं तु कैवल्यं मुक्तिर्मोक्षो[ऽपुनर्]भवः ॥ १५० ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.266 · p. 85
कैवल्यममृतं सिद्धिर्महानन्दोऽपुनर्भवः ।मुक्तिर्ब्रह्म शिवं मोक्षो निर्वृतिः श्रेयसा सह ॥ २६६ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.148 · p. 34
मोक्षोऽपवर्गो निर्वाणं मुक्तिर्निःश्रेयसं शिवः ।महोदयोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ॥ १४८ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.48 · p. 7
महानन्दोऽमृतं मुक्तिः मोक्षो ब्रह्म महोदयः ।श्रेयो निःश्रेयसं सिद्धिः कैवल्यमपुनर्भवः ॥ ४८ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.328 · p. 23
या बुद्धिः शिल्पशास्त्रादौ विज्ञानं तत् प्रकीतितम् ।मुक्तिर्निःश्रेयसं श्रेयः कैवल्यममृतं परम् ।मोक्षोऽपवर्गो निर्वाणं मुक्तिपर्याय ईरितः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.33 · p. 310
विषाणी वीरणीपूगी चज्जूरी च नदादिषु ।पुटिकेन्मालिकाद्यास्तु स्त्रियामादादिषु स्मृता ।लक्ष्मीर्वाणी भवानी रजनिजविरतिकान्तिसीता जुगुप्सा ।चिन्ताऽसूयाविभूतिद्युतितरणिमतिक्षेपणीविष्टि पीडा ।तन्त्रीस्तन्द्री विपञ्चिद्रुणिविपणिकृपावेदनामुक्तिविद्या ।ज्योत्स्ना वेश्या कलावाक्सरणिविषहरीहूतिकाकूप्रपाश्च ।…वदितिकथादेवताद्योदिवौ च ।ढक्काव्रीडावहित्थासुरभिकुमुदिनीपद्मिनीपूर्णिमाश्च ।ताराश्रेणी च वीथीद्युतिरवनि नदीपुष्करिण्यम्बिकोम्रा ।निद्राहेला च लीलायुवतिरनुमतिर्दिक्कुहुः पक्षतिश्च ॥
अनुष्टुप्two metres in one verse
विषाणीस्त्रीवीरणीस्त्रीपूगीस्त्रीखर्जूरीस्त्रीपुटिकास्त्रीमालिकास्त्रीलक्ष्मीस्त्रीवाणीस्त्रीभवानीस्त्रीरजनिस्त्रीविरतिस्त्रीकान्तिस्त्रीसीतास्त्रीजुगुप्सास्त्रीचिन्तास्त्रीअसूयास्त्रीविभूतिस्त्रीद्युतिस्त्रीतरणिस्त्रीमतिस्त्रीक्षेपणीस्त्रीविष्टिस्त्रीपीडास्त्रीतन्त्रीस्त्रीतन्द्रीस्त्रीविपञ्चिस्त्रीद्रुणिस्त्रीविपणिस्त्रीकृपास्त्रीवेदनास्त्रीमुक्तिस्त्रीविद्यास्त्रीज्योत्स्नास्त्रीवेश्यास्त्रीकलास्त्रीवाच्स्त्रीसरणिस्त्रीविषहरीस्त्रीहूतिस्त्रीकाकूस्त्रीप्रपास्त्रीकथास्त्रीदेवतास्त्रीद्योस्त्रीदिव्स्त्रीढक्कास्त्रीव्रीडास्त्रीअवहित्थास्त्रीसुरभिस्त्रीकुमुदिनीस्त्रीपद्मिनीस्त्रीपूर्णिमास्त्रीतारास्त्रीश्रेणीस्त्रीवीथीस्त्रीअवनिस्त्रीनदीस्त्रीपुष्करिणीस्त्रीअम्बिकास्त्रीनिद्रास्त्रीहेलास्त्रीलीलास्त्रीयुवतिस्त्रीअनुमतिस्त्रीदिश्स्त्रीकुहूस्त्रीपक्षतिस्त्री
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.275 · p. 37
मुक्तिनिर्वाणकैवल्यब्रह्मनिःश्रेयसामृतम् ।मोक्षोऽपवर्गः सत्त्वोऽस्त्री प्रधानं प्रकृतिः स्त्रियाम् ॥ २७५ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.238 · p. 102
अमृतत्वं तु कैवल्यं मुक्तिमोक्षोऽपुनर्भवः ।मोक्षावलंबिनः प्रायः पाषण्डा बाह्यलिंगिनः ॥ २३८ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास तपादः Dharaṇikośa 15.1.5 · p. 61
मुक्तिः स्यान्मोचने मोक्षे युक्तिर्न्याये नियोजने ।चिता छन्ने चुल्लिकायां त्रेता वह्नित्रये युगे ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.80 · p. 16
मुक्तिः स्वर्गेऽपवर्गे च मूर्तिः काठिन्यकाययोः ।काकप्रतिमयोश्चाथ सङ्कल्पे वाचि मेनिवाक् ॥ ८० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.38 · p. 216
मुक्तिर्मोक्षे मोचने च भवेत्सौख्यभिदि स्त्रियाम् ।मुक्तः स्यात्प्राप्तमोक्षे च नन्दिते मोचिते त्रिषु ॥
अनुष्टुप्

मुक्ति as a meaning in nānārtha verses

  • हलायुधकोशः (अभिधानरत्नमाला) विसर्गअर्चनामूल्ययोरर्घो विसर्गो मुक्तिवर्चसोः । मुनिकुक्कुटयोर्दक्षः सन्धिः संश्लेषरन्ध्रयोः ॥ ८३५ ॥ Abhidhānaratnamālā (Halāyudha) 5.835
  • धरणिकोश अमृतअमृतं पयोघृतजले त्वयाचिते त्रिदशान्नयज्ञविशेषमुक्तिषु । अमृतो दिवौकसि च तच्चिकित्सके- ऽप्यमृताभयामृतकं त्रिकास्वपि ॥ Dharaṇikośa 15.3.30
  • धरणिकोश शिवशिवं भद्रं शिवः शम्भुः शिवो मुक्तिः… । शिवः कीलः शिवो वेदो ग्रहयोगः शिवः स्मृतः ॥ Dharaṇikośa 28.3.1
  • कोषकल्पतरु भगश्रीकीर्तिमाहात्म्यसमर्थतासु ज्ञानस्पृहामुक्तिवृषेषु नार्के । युगं चतुष्के च करस्य सीर- रथाङ्गयोर्युग्मकृतादिकेषु । यूपेऽस्त्रियां मानपरः पुमान्स्या- न्मूर्खे पराभं लिगु मानसेऽन्त्ये ॥ ९२ ॥ Koṣakalpataru 6.3.92
  • कोषकल्पतरु निर्वाणनिर्वाणं गजमज्जने स्तिमितके मुक्तौ च निर्वर्तने कुर्वाणस्त्रिषु कारके भृतिभुजि प्रोन्मृष्टपर्णे पुनः । दौर्वीणं हरितारसे त्रिषु पुनः स्याद्वर्जने वारणं नागे पुंस्यथ यातनाकरणयोर्हेतौ वधे कारणम् ॥ ३२ ॥ Koṣakalpataru 6.15.32
  • कोषकल्पतरु निःसरणनिगरणमशने कण्ठे पुनराधे चाथ निर्याणे । मरणोपाये मुक्तौ निःसरणं प्रोक्तमाचार्यैः ॥ ५२ ॥ Koṣakalpataru 6.15.52
  • कोषकल्पतरु अक्षरअस्त्यक्षरं ब्रह्मणि वर्णमुक्त्यो- रन्त्ये ध्रुवेऽन्योपममृक्षरो ना । स्यात्कण्टकेऽप्यृत्विजि वारिधारा- वाची तु षण्ढे प्रवरस्तु न स्त्री ॥ ८७ ॥ Koṣakalpataru 6.27.87
  • परमानन्दीयनाममाला भगभगो ज्ञाने रवौ रूपप्रभावश्रीषु दृश्यते । यत्ने पुण्ये यशोमुक्तिवीर्ययोनिषु शीतगौ ॥ ३२७ ॥ Paramānandīyanāmamālā 5.20.327
  • शब्दरत्नावली उद्धरणउत्क्षेपणं धान्यमर्दवस्तुनि व्यञ्जनेऽपि च । स्यादुद्धरणमुन्मूलवान्तान्नोद्धारमुक्तिषु ॥ Śabdaratnāvalī 7.15.74
  • शब्दरत्नावली मोक्षभिक्षा तु भिक्षितद्रव्ये याञ्चासेवागतिष्वपि । माषो मूर्खे व्रीहिभेदे मानत्वग्दोषयोरपि ॥ मिषं छले क्लीबलिङ्गं स्पर्द्धायां ना मिषाव्ययम् । मेषो भैषज्यभेदे स्यात्पशुभिद्राशिभेदयोः ॥ मोक्षो मुक्तौ मोचने स्यात्पाटलौ भवेत्पुमान् ॥ Śabdaratnāvalī 7.31.11
  • वैजयन्ती विसर्गविकीर्णोऽर्थश्च विकिरौ विसर्गौ मुक्तिवर्चसी । विनयो धर्मविद्याधीशिक्षाचारप्रशान्तिषु ॥ ७० ॥ Vaijayantī 7.1.70