निर्वृति
nirvṛtiस्त्री · fem.In 11 kośas: 10 synonym verses, 8 as a nānārtha head word, 9 as a meaning of another word.
महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ।शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥ ७४ ॥महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् ।मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः ॥ ७५ ॥वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ।निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोगशमादयः ॥ ७६ ॥
अनुष्टुप्
genderस्त्रीfem.
मनसः कर्म संकल्पः स्यादथो शर्म निर्वृतिः ।सातं सौख्यं सुखं दुःखं त्वसुखं वेदना व्यथा ॥ १३७० ॥पीडा बाधार्तिराभीलं कृच्छ्रं कष्टं प्रसूतिजम् ।आमनस्यं प्रगाढं स्यादाधिः स्यान्मानसी व्यथा ॥ १३७१ ॥
अनुष्टुप्
genderस्त्रीfem.
मोक्षः स्यादपुनर्भवोऽपि च महानन्दोऽपवर्गस्तथादुःखौघप्रलयो महोदयद्रहः स्त्री निर्वृतिः सिद्धिवत् ।मुक्तिर्ब्रह्म नपुंसकेऽमृतशिवश्रेयांसि निःश्रेयसम्निर्वाणं सुखमक्षरं च कथितं कैवल्यमुच्चैःपदम् ॥ ३३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 10 य (wrong syllable)
genderस्त्रीfem.
आनन्द आनन्दथु-हर्ष-तोषाःआमोद-मोदौ प्रमद-प्रमोदौ ।स्युः सम्मदाह्लादमनःप्रसादाःमुत्प्रीतिवन्निर्वृतिरेवमेव ॥ ४४ ॥
इन्द्रवज्रा
genderस्त्रीfem.
विरामस्त्ववसाने स्यादुपरामस्तथाऽऽरतिः ।निर्वृत्युपरती सातिर्वियाम-वि[179b]यमौ समौ ॥ २६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
हृदन्तःकरणं चेतश्चित्तं स्वान्तं तथोच्चलम् ।संकल्पः स्यान्मनःकर्म सुखं निर्वृतिशर्मणी ॥ २५९ ॥
अनुष्टुप्
genderस्त्रीfem.
कैवल्यममृतं सिद्धिर्महानन्दोऽपुनर्भवः ।मुक्तिर्ब्रह्म शिवं मोक्षो निर्वृतिः श्रेयसा सह ॥ २६६ ॥
अनुष्टुप्
genderस्त्रीfem.
विलासः सहजो ज्ञेयो विभ्रमो भ्रूसमुद्भवः ।तुष्टिः प्रीती रतिः स्वास्थ्यं संतोषो निर्वृतिर्धृतिः ॥ ८१ ॥
अनुष्टुप्
genderस्त्रीfem.
निर्वाणं निर्वृतिः शान्तिः सर्वदुःखक्षयः शिवः ।निर्याणमपवर्गश्चाऽक्षरं चेति शिवाभिधाः ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
सुखं सातं तथा शातं शर्म शर्मं च निर्वृतिः ।सौख्यं चेति प्रसिद्धानि सप्त नामानि सन्ति वै ॥ २४९१ ॥
अनुष्टुप्
genderस्त्रीfem.
दितिः खण्डनदैत्याम्बे धृतिस्तुष्टौ क्रतावपि ।राशौ च धातुनिर्वाणे सुस्थितत्वे च निर्वृतिः ॥ १६१ ॥
अनुष्टुप्
निर्वृति as a meaning in nānārtha verses
- धरणिकोश निर्वाण[निर्वाणमस्तंगमनं निर्वाणं गजमज्जनम् ? ।] निर्वाणमपवर्गोऽपि निर्वाणं निर्वृतिं विदुः ॥ Dharaṇikośa 14.3.11
- कोषकल्पतरु प्रतिभूनिर्वृति-व्याप्ति-नित्यत्वे प्रतेर्लग्नक आङ्परः । भागागतावधेरैश्ये उद उद्भेदने समः ॥ ९ ॥ Koṣakalpataru 3.5.9
- नानार्थार्णवसंक्षेप निर्वाणनिर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने । क्ली त्रिस्तु मुनिवह्न्यादौ शब्दविद्भिर्निरूपितम् ॥ १०२९ ॥ Nānārthārṇavasaṃkṣepa 4.1029
- परमानन्दीयनाममाला निःशरणनदीकान्ता लताकाकजङ्घयोरथ निर्वृतौ । स्मृतं निःशरणं मृत्यावुपाये तालभिद्यपि ॥ २७९ ॥ Paramānandīyanāmamālā 5.18.279
- शब्दरत्नावली निर्वाणनिर्वाणं निर्वृतावस्तगमने गजमञ्जने । सङ्गमे निश्चले मोक्षे शून्ये विद्योपदेशने ॥ Śabdaratnāvalī 7.15.43
- शब्दरत्नावली आश्वासआश्वासः स्यात्परिच्छेदनिर्वृत्याख्यायिकासु च । आशीर्हिताशंसने स्यात्सर्पदन्तेऽपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.32.16
- शब्दरत्नाकर निर्वाणनिर्वाणं मरणे मोक्षे निर्वृतौ गजमज्जने । निरस्तः स्यात् त्रिषूत्सृष्टसायके त्वरितोदिते ॥ २११४ ॥ Śabdaratnākara 4.1.2114
- त्रिकाण्डशेष आश्वासयोग्यायामन्तिकेऽभ्यासोऽधिवासौ स्थानसंस्क्रिये । आख्यायिका परिच्छेदे चाऽश्वासो निर्वृताऽवपि ॥ ४४३ ॥ Trikāṇḍaśeṣa 3.3.443
- वैजयन्ती निर्वाणनिर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने । निदानमपदाने स्यात् खण्डनेऽप्यादिकारणे ॥ २० ॥ Vaijayantī 7.3.20