स्वप्न
svapnaपुं · masc.In 11 kośas: 9 synonym verses, 8 as a nānārtha head word, 11 as a meaning of another word.
स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
लबाडच्छद्मना छद्म दम्भो डम्भं च लक्ष्यवत् ।प्रमीला तामसी तन्द्रा स्वापस्वप्नमनोलयाः ॥ १०८ ॥
अनुष्टुप्
genderपुंmasc.
निद्रा गडाका सुप्तिश्च जाग्रं जागरितं तथा ।जागरूकं जागरणं स्वप्नन्त्वैकान्त्यदर्शनम् ॥ १०९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
genderपुंmasc.
प्रथमजिनभवा-ऽघोषा विश्वेदेवास्त्रयोदश भवन्ति ।विद्यास्थान-स्वर-भुवन-रत्न-पुरुषान्वय-स्वप्नाः ॥ २३ ॥
आर्या
genderपुंmasc.
स्वप्नः स्वापश्च संवेशस्तन्द्री तन्द्रा प्रमीलिका ।अपि स्याद्विषया ज्ञानं प्रलयः प्रमिलापि च ॥ ३२१ ॥
अनुष्टुप्
genderपुंmasc.
पुंसि स्वप्नः श्वासहेती रागसंगौ च गृध्नुता ।अहंकारोऽभिमानोऽस्त्री मानो गर्वश्च गर्वरः ॥ १३० ॥
अनुष्टुप्
genderपुंmasc.
संवेशः स्याच्छयः स्वप्नः स्वापः शयनमस्त्रियाम् ।निद्रा सुप्तिरथावेशोऽपस्मारः सहसा भयम् ॥ १५६ ॥
अनुष्टुप्
genderपुंmasc.
निद्रा सुप्तिश्च संवेशः स्वापः शयनमित्यपि ।स्वप्नः स्वपनमित्येष निद्रापर्याय ईरितः ॥
अनुष्टुप्
genderपुंmasc.
प्रमीला तामसी तन्द्रा स्वापस्तु स्वप्नसंशयौ ।निद्रा गुडाका सुप्तं च स्वप्नस्त्वेवात्र दर्शनम् ॥ १९७ ॥
अनुष्टुप्
genderपुंmasc.
सुप्तस्य विज्ञान उदीरितोऽथश्रेष्ठे मणावप्युदितं च रत्नम् ।द्रव्ये तु रस्नं चषके मचण्डेधेनोऽम्बुधौ वाक्सरितोः स्त्रियां स्यात् ॥ ९२ ॥
इन्द्रवज्रा
meaningsसुप्तविझान
doubtful
सवस्तु सूतौ सूत्यायां सुतौ यागे च वर्तने ।स्वप्नः सुप्तस्य विज्ञाने स्वापे सन्धिस्तु रन्ध्रके ॥ १२९ ॥
अनुष्टुप्
स्वप्नस्तु शयने सुप्तविज्ञाने दर्शने पुमान् ॥
सुप्तज्ञाने च शयने स्वप्नोऽथ स्पर्शदानयोः ।स्पर्शनं स्पर्शनो वाते सूनं पुष्पे वधालये ॥ २७० ॥
अनुष्टुप्
स्वप्न as a meaning in nānārtha verses
- धरणिकोश दर्शनकर्तनं छेदनं प्रोक्तं स्त्रीणां च सूत्रकर्शने । दर्शनं लोचने स्वप्ने बुद्धिशास्त्रोपलब्धिषु । रञ्जनं रागजननं रञ्जनं रक्तचन्दनम् ॥ Dharaṇikośa 19.2.53
- कोषकल्पतरु दर्शनस्याद्दर्शनं लोचनबुद्धिधर्मे स्वप्नोपलब्ध्योर्मुकुरे च शास्त्रे । कश्मीरजे स्यात्पिशुनं त्रये तु क्रूरे खले पुंसि तु मर्कटास्ये ॥ २५ ॥ Koṣakalpataru 6.21.25
- नानार्थार्णवसंक्षेप शयुशयुस्तु नार्के स्वप्ने च द्वयोस्त्वजगरेऽथ ना । शरुः स्यादायुधे क्रोधे द्वयोस्तु स्यात् कपिञ्जले ॥ १३३१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1331
- नानार्थार्णवसंक्षेप मन्दनगतौ मदे च स्वप्ने च मणीचं त्वपि मौक्तिके । अग्रहस्ते च पुष्पेऽथ महिनं राज्यशय्ययोः ॥ ६३ ॥ Nānārthārṇavasaṃkṣepa 3.3.63
- नानार्थार्णवसंक्षेप उच्छीतउच्छीतष्टिट्टिभे स्वप्ने पुनर्नाथोपबर्हणे । उच्छीर्ष क्ली त्रिषु पुनरुन्मूर्धनि पुमान् पुनः ॥ २५७ ॥ Nānārthārṇavasaṃkṣepa 4.257
- नानार्थार्णवसंक्षेप दर्शनज्ञाने च स्वप्नवीक्षासु क्रियायां पश्यतेरपि । धर्मदर्पणयोस्त्वाह रभसः शब्दवित्तमः ॥ ९१० ॥ Nānārthārṇavasaṃkṣepa 4.910
- नानार्थार्णवसंक्षेप शयुशशाङ्के शयुनः स्वप्ने द्वयोस्त्वजगरेऽथ ना । प्रदोषे शयथो मृत्यौ मत्स्ये त्वजगरे द्वयोः ॥ १७८० ॥ Nānārthārṇavasaṃkṣepa 4.1780
- नानार्थार्णवसंक्षेप समञ्जसस्वप्ने निशात्ययोद्भूते सद्यःपाकोऽत्र पूर्ववत् । सर्पदंष्ट्री पुनः स्त्रीत्वे वृश्चिकालीति विश्रुते ॥ ६५१ ॥ Nānārthārṇavasaṃkṣepa 6.651
- शब्दरत्नावली दर्शनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- शब्दार्णव दर्शनदर्शनं समये शास्त्रे दृष्टौ स्वप्नेऽक्ष्णि संविदि ॥ २०९ ॥ Śabdārṇava 209
- वैजयन्ती दर्शनतेमनं व्यञ्जने क्लेदे तोत्रे तोदे च तोदनम् । दर्शनं चक्षुषि स्वप्ने बुद्धिशास्त्रोपलब्धिषु ॥ १७ ॥ Vaijayantī 7.3.17