कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अभिमान

abhimānaपुं · masc.

In 15 kośas: 12 synonym verses, 8 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.246 · p. 17
आलस्यं तन्द्रा कौसीद्यं हर्षश्चित्तप्रसन्नता ॥ ३१५ ॥ह्लादः प्रमोदः प्रमदो मुत्प्रीत्यामोदसम्मदाः ।आनन्दानन्दथू गर्वस्त्वहंकारोऽवलिप्तता ॥ ३१६ ॥दर्पोऽभिमानो ममता मानश्चित्तोन्नतिः स्मयः ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ह (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.30
गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः ।
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.92 · p. 74
पातकं दुरितं पापं … किल्बिषे ।अहङ्कारोऽभिमानश्च स्मयो गर्वस्तु विस्मिता ॥ ९२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.130 · p. 431
पुंसि स्वप्नः श्वासहेती रागसंगौ च गृध्नुता ।अहंकारोऽभिमानोऽस्त्री मानो गर्वश्च गर्वरः ॥ १३० ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.146 · p. 90
निकारो विप्रकारः स्यात्खलीकारोऽपि सम्मतः ।दर्पोऽवलेपोऽहंकारोऽभिमानो गर्व-गर्वरौ ॥अहंता ममता मानोऽस्त्री स्मयो मानसोन्नतिः ।मानग्रन्थिर्भवेन्मन्तुः स स्थिरस्तु ग्रहो मतः ॥अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम् ।अहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.218 · p. 31
मुदामोदप्रमोदाश्च ह्लादश्चित्तप्रसन्नता ।गर्वश्चित्तोन्नतिर्दर्पोऽभिमानश्चावलिप्तता ॥ २१८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.87 · p. 28
गर्वोऽभिमानोऽहंकारो मानश्चित्तसमुन्नतिः ।हठो मदः स्मयो दर्प औद्धत्यमवलिप्तता ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.467 · p. 58
अथ गर्वश्च दर्पश्च मानश्चित्तोन्नतिः स्मयः ।ममता चाऽभिमानः स्यादहङ्कारोऽवलिप्तता ॥ ४६७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.467 · p. 33
मनो विकारो भावोऽनुभावः स्याद्भावबोधकः ।गर्वो मदोऽभिमानः स्यादहङ्कारस्त्वहंकृतिः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.125 · p. 187
हर्ष-प्रहर्ष-हरिषा आनन्दानन्दथू समौ ।गर्वेऽभिमान-मानौ च विस्मयः स्मय इत्युभौ ॥ १२५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.978 · p. 122
उत्सेकश्चाभिमानश्च मानः स्यान्मानसोन्नतिः ।गुणेषु दोषाविष्कारः स्यादसूयाथ शुक् स्त्रियाम् ॥ ९७८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.169 · p. 97
स्मयोऽभिमानोऽहंकारो गर्वः स्त्री गर्विरस्मिता ।शौटीर्यञ्चाथ शृंगारगर्वे घंघोरवेंघरौ ॥ १६९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.110
अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः ॥ ११० ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.76 · p. 122
आस्कन्दनं समाख्यातं तिरस्कारे रणेऽपि च ।अभिमानश्च विज्ञप्तौ गर्वे प्रणयहिंसयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.21 · p. 264
तथा वदन्ति प्रतिबिम्बवाचिज्ञानेऽभिमानः प्रणये च गर्वे ।वधेऽप्यधिष्ठानमिति प्रभावे-ऽप्यध्यासने पत्तनचक्रयोश्च ॥ २१ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.3 · p. 6
अपभ्रंशोऽपशब्दे स्याद् भाषाभेदप्रपातयोः ।अभिमानस्त्वहङ्कारे हिंसाप्रणययोरपि ॥ ३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.4 · p. 6
ऐश्वर्यहेतुके दर्पे ज्ञाने चाथाभिहारवाक् ।अभियोगे सन्नहने चौर्ये वैरेऽपि सज्जनः ॥ ४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास अकारादयः Paramānandīyanāmamālā 5.1.41 · p. 166
अभिमानोऽथ हिंसायां प्रेम्णि गर्वे च विश्रुतः ।अवदातो विशुद्धे स्यात्स्वर्णवर्णे सिते तथा ॥ ४१ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2196 · p. 266
अनुषङ्गः कृपायां स्यात् प्रकृतस्यानुवर्तने ।हिंसायामभिमानः स्याद् ज्ञाने प्रणयदर्पयोः ॥ २१९६ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 8.1.9 · p. 265
अनुषंगस्तु कारुण्ये प्रकृतस्यानुवर्तने ।अभिमानस्तु विज्ञाने प्रणये दर्पहिंसयोः ॥ ९ ॥
अनुष्टुप्

अभिमान as a meaning in nānārtha verses

  • हलायुधकोशः (अभिधानरत्नमाला) टङ्कसमितिः सङ्गतिसभयोः ककुदं शृङ्गे विदुः प्रधानेऽपि । टङ्कः स्यादभिमाने प्रस्तरघटनोपकरणे च ॥ ८२१ ॥ Abhidhānaratnamālā (Halāyudha) 5.821
  • धरणिकोश गर्बगर्बोऽभिमानेऽवलेपे गर्बोऽनुरञ्जकस्तु यः । पूर्बे स्युः पूर्वकाः पूर्बो जातः प्राक्पूर्वजाग्रतः ॥ Dharaṇikośa 22.2.5
  • कोषकल्पतरु दण्डदण्डोऽस्त्री लगुडे बले मथि दमे मानेऽभिमाने यमे चण्डांशोश्च गणे घटीग्रहभिदाकोणे प्रकाण्डे हये । गोण्डः पामरजातिगो नरि महानाभौ भवेद्भेद्यवत् द्वन्द्वे स्यात्कवले गणे च वपुषि त्वस्त्री गृहाङ्गे बले ॥ ७६ ॥ Koṣakalpataru 6.12.76
  • कोषकल्पतरु दर्पकल्पस्तु शास्त्रे प्रलये च युक्ते विधेर्दिने पुष्पवतोः पपीः स्यात् । कस्तूरिकायां तु तथाभिमाने दर्पोऽथ कोपे च हठे च खष्पः ॥ ६ ॥ Koṣakalpataru 6.22.6
  • शब्दरत्नावली दण्डदण्डोऽस्त्री लगुडे पुंसि व्यूहभेदे प्रकाण्डके । अग्निकोणे च मन्थाने नाडीमानाभिमानयोः । सैन्ये दमे यमे कालमानभेदे व्रणान्तरे ॥ Śabdaratnāvalī 7.13.16