कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गर्व

garvaपुं · masc.

In 15 kośas: 13 synonym verses, 2 as a nānārtha head word, 33 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.246 · p. 17
आलस्यं तन्द्रा कौसीद्यं हर्षश्चित्तप्रसन्नता ॥ ३१५ ॥ह्लादः प्रमोदः प्रमदो मुत्प्रीत्यामोदसम्मदाः ।आनन्दानन्दथू गर्वस्त्वहंकारोऽवलिप्तता ॥ ३१६ ॥दर्पोऽभिमानो ममता मानश्चित्तोन्नतिः स्मयः ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ह (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.30
गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.722 · p. 83
दर्पो मदोऽवलेपो मानो गर्वो भवेदहङ्कारः ।आवेशः संवेगः संरम्भः सम्भ्रमस्तथाटोपः ॥ ७२२ ॥
metre not recognised
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.92 · p. 74
पातकं दुरितं पापं … किल्बिषे ।अहङ्कारोऽभिमानश्च स्मयो गर्वस्तु विस्मिता ॥ ९२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.130 · p. 431
पुंसि स्वप्नः श्वासहेती रागसंगौ च गृध्नुता ।अहंकारोऽभिमानोऽस्त्री मानो गर्वश्च गर्वरः ॥ १३० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.146 · p. 90
निकारो विप्रकारः स्यात्खलीकारोऽपि सम्मतः ।दर्पोऽवलेपोऽहंकारोऽभिमानो गर्व-गर्वरौ ॥अहंता ममता मानोऽस्त्री स्मयो मानसोन्नतिः ।मानग्रन्थिर्भवेन्मन्तुः स स्थिरस्तु ग्रहो मतः ॥अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम् ।अहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.218 · p. 31
मुदामोदप्रमोदाश्च ह्लादश्चित्तप्रसन्नता ।गर्वश्चित्तोन्नतिर्दर्पोऽभिमानश्चावलिप्तता ॥ २१८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.87 · p. 28
गर्वोऽभिमानोऽहंकारो मानश्चित्तसमुन्नतिः ।हठो मदः स्मयो दर्प औद्धत्यमवलिप्तता ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.467 · p. 58
अथ गर्वश्च दर्पश्च मानश्चित्तोन्नतिः स्मयः ।ममता चाऽभिमानः स्यादहङ्कारोऽवलिप्तता ॥ ४६७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.467 · p. 33
मनो विकारो भावोऽनुभावः स्याद्भावबोधकः ।गर्वो मदोऽभिमानः स्यादहङ्कारस्त्वहंकृतिः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.958 · p. 120
वैवर्ण्यमश्रु प्रलय इति भावाश्च सात्त्विकाः ।निर्वेदो ग्लानिशङ्कास्मृतिधृतिमतयः प्रीतिनिद्रावहित्थाव्रीडेर्ष्यासुप्त्यसूया मरणमलसतोन्मादहर्षावमर्षाः ।तर्कापस्मारमोहश्रममदजडिमव्याधिवेगा विषादोगर्वश्चिन्तौग्य्रदैन्ये भयमपि चपलत्वं च संचारिभावाः ॥ ९५८ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.977 · p. 122
रुट्क्रुधावक्षामेर्ष्याथ संरम्भः कोपैवकृतम् ।अवष्टम्भस्मयाटोपगर्वाहंकारदर्पकाः ॥ ९७७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.169 · p. 97
स्मयोऽभिमानोऽहंकारो गर्वः स्त्री गर्विरस्मिता ।शौटीर्यञ्चाथ शृंगारगर्वे घंघोरवेंघरौ ॥ १६९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.99 · p. 46
गर्वति स्याद्गर्वयतेऽवलिम्पति च दृप्यति ।ककते शौटति प्रोक्तं गर्वे कर्वति खर्वति ॥ ९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्ग (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.92 · p. 65
आधानकर्मणि नितोगर्वे तूदोन्नसंस्खले मद्दे ।उत्क्षेपे वृषिरभितोव्याप्तौ व्यावर्तने निपरः ॥ ९२ ॥
metre not recognised

गर्व as a meaning in nānārtha verses