कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

एकाक्षरकाण्डः · पुल्लिँङ्गाध्यायः

इत्येकाक्षरकाण्डे स्त्रीलिङ्गाध्यायः ।

अथैकाक्षरकाण्डे पुल्लिँङ्गाध्यायः ।

अथैकाक्षरपुल्लिँङ्गा अकारो विष्णुवेधसोः ।कण्ठस्थानस्वरे चाथ स्यादुकारो हरे हरौ ॥ १ ॥
1.2.1 · p. 6
अनुष्टुप्
ओष्ठस्थानस्वरे चाथ ग्लौर्वपुर्ग्लानिचन्द्रयोः ।आकाशे दिवसे च द्युः पुमानात्मनि पौरुषे ॥ २ ॥
1.2.2 · p. 6
अनुष्टुप्
मास्तु मासे निशानाथे पुमध्यायः समाप्तवान् ॥ २-१/२ ॥
1.2.3 · p. 7