कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अण्ड

aṇḍaक्ली · neut.

In 17 kośas: 30 synonym verses, 7 as a nānārtha head word, 9 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.612 · p. 26
सीवनी तदधःसूत्रं स्थदण्डं पेलमण्डकः ॥ ६११ ॥मुष्कोऽण्डकोषो वृषणोऽपानं पायुर्गुदं च्युतिः ।अधोमर्म शकृद्द्वारं त्रिवलीकबुली अपि ॥ ६१२ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.37
पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम् ॥ ३७ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.240 · p. 29
पेशीकोशः स्मृतोऽण्डश्च कुलायो नीड उच्यते ।चञ्चुश्चञ्चूस्तथा त्रोटिर्डयनं गगने गतिः ॥ २४० ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.523 · p. 60
मुष्कोऽण्डं वृषणः कोशः सङ्ग्राहो मुष्टिरुच्यते ।जत्रु वक्षोंऽसयोः सन्धिरूरुसन्धिश्च वङ्क्षणः ॥ ५२३ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.313 · p. 94
अण्डस्तु तस्य कस्तूरी राजार्हं शिबिचन्दनम् ।मार्जारिका वेधमुख्या मदनी गन्धवेलिका ॥ ३१३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.211 · p. 43
अथाण्डकोशः कोशाण्डः पेलः कोशक इत्यपि ।अण्डोऽस्त्री वृषणो मुष्कस्तदधः सीवनी स्त्रियाम् ॥ २११ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.197 · p. 339
त्रिषु नीडं पक्षिगृहं स्यात् क्लीबेऽथाण्डमस्त्रियाम् ।कोशोऽस्त्रियां स्त्रियां पेशिः पेशी कोषोऽपि वा स्त्रियाम् ॥ १९७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.93 · p. 471
… तथा मोरटघृष्टयोः ।… गोष्ठाण्डतुण्डानां प्रवणस्येरिणस्य च ॥ ९३ ॥
metre not recognised
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.155 · p. 478
पिष्टलोष्टतुराणां च सहैव निकटेन च ।मुण्डमण्डाण्डचूडानां दृढस्य श्रवणस्य च ॥ १५५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.194 · p. 482
कशिपुस्थाण्डजन्तूनां जीवातोश्च पलाण्डुना ।सिन्धुदोस्तितऊनां च कम्बुना सह सक्तुभिः ॥ १९४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.67 · p. 195
वर्तरूकं काकनीडं पेशी कोषस्तु पेशिका ।कोषोऽण्डमन्तिमे डीनं डयनं च नभोगतौ ॥ ६७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.57 · p. 213
अण्डकः पेलकः पेलमस्त्रियामण्डकोषवत् ।मुष्काण्ड-वृषणाः पायुः स्याद्गुदोऽपानमस्त्रियाम् ।पेलमण्डं गुदस्त्वस्त्री पायुः पुं पुंसि विण्मुखम् ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.98 · p. 106
भाण्डाण्ड-तुण्डानि च चक्रवाडंगूढं च तीक्ष्ण-ग्रहणेरणानि ।द्राणं पुराणं द्रविणं शणेर्णेकल्याण-पल्याण-निरूपणा[228b]नि ॥ ९८ ॥
इन्द्रवज्राmetre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.43 · p. 112
genderपुंक्लीm. n.
अयं मुण्डो मुण्डितशिराः ।नितम्बः पश्चाद्भागः स्त्रीकट्याः । ह्रस्वशाखामूलको वृक्षः क्षपः । गुल्मः शाखापत्रप्रावरणः । सानुः पर्वतैकदेशः । अङ्कश्चिह्नम् । वंशोऽन्वयः । पूगः क्रमुकः । शङ्खः कम्बुः । रथः स्यन्दनः । नपुंसकाधिकारात् जघनादयो नपुंसके स्युः । इदं जघनं कटिप्रदेशः । अम्बरमाकाशं वस्त्रं च । फलं वृक्षादीनाम् । मूलं शिफा । अङ्गमवयवः ।क्षीरोदस्विन्नवनीतवर्षकुण्डाण्डघृतभगगगनानि ।विद्यान्नपुंसकान्योदनश्च पुंसि स्त्रियां ज्या च ॥ ३९ ॥
metre not recognised
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.270 · p. 134
पेलाण्डे वृषणो मुष्को गुदं पायुश्च्युतिः स्त्रियाम् ।शकृद्वारमपानं चाधोमर्म बुलिनाम तु ॥ २७० ॥
अनुष्टुप्
genderक्लीneut.doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.89 · p. 222
करोटं मोरटं भाण्डं तुण्डाण्डे शरणेरणे ।लवणं द्रविणशृङ्गाटपिटपारायणानि च ॥ ८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.137 · p. 228
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.94 · p. 7
वृषणोऽण्डोऽण्डकं मुष्को नितम्बः कटिमण्डनम् ।जघनोरू तालवृष्ठं कटिः काञ्चीगुणास्पदम् ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.383 · p. 27
आवलिर्वीथिका पङ्क्तिः श्रेणी लेखा परम्परा ।कोशा[श]ण्डं पेशिका पेशी कुलायो नीडकोटरे ॥ ३८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.987 · p. 151
अण्डमाण्डोऽण्डकोशश्च मुष्कश्च वृषणोऽण्डकः ।पेलश्च पेलकश्चेति अण्डनाम निगद्यते ॥ ९८७ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2384 · p. 385
अण्डं पेशिस्तथा पेशी पेशीकोशः पुनः खलु ॥ २३८४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.101 · p. 89
पेषीकोषं पेषिकोशः पेषिकोषोऽण्डमस्त्रियाम् ।अस्त्री नीडं कुलायश्च पक्षिवासे भवेद्द्वयम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.280 · p. 101
कोषः कोषकं मुष्काण्डवृषणा अण्डकोषकः ।सीमा च पेलसीमानौ फलमित्यपि कुत्रचित् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कं (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.184 · p. 203
लाङ्गूलं शङ्कु लङ्गूलं मुष्क आण्डाण्डकौ नरि ।अण्डं पेलं पेलकोऽप्यथोरुरूरूश्च सक्थनि ॥ १८४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.825 · p. 104
प्रडीनोड्डीनसंडीनान्येताः पक्षिगतिक्रियाः ।अण्डं कोशः स्त्रियां पेशी मिथुनं द्वन्द्वमित्युभे ॥ ८२५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1067 · p. 132
मेढ्रोऽण्डं कोशवृषणावथ योनिर्द्वयोर्भगम् ।उपस्थं पृष्ठवंशस्य क्लीबे स्यादधरे त्रिकम् ॥ १०६७ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.6 · p. 271
क्लीबे कलत्रविषबीजकुटुम्बरत्नतल्पोक्थकुङ्कुमप्रवीणतृणाक्षराणि ।शृङ्गादपीठगृहभेषजपृष्ठकिण्वदैवाण्डभाण्डचिवुकोडुपसाहसानि ॥ ६ ॥
वसन्ततिलकाmetre not read in every line
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.50 · p. 30
पेशी कोशश्च डिंबोऽण्डं त्रोटिश्चंचुः सृपाटिका ।डयनं गतिरुड्डीनसंडीनादि विशेषकम् ॥ ५० ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.63 · p. 178
धारका गुह्यधारायां पुंफिका गुह्यजे मले ।अस्त्रियो मुष्ककोशाण्डाः फेलुको वृषणोऽण्डुकः ॥ ६३ ॥
अनुष्टुप्
genderपुंक्लीm. n.doubtful
धरणिकोश Dharaṇikośa · धरणिदास डपादः Dharaṇikośa 12.1.1 · p. 43
अण्डं पेश्यां च मुष्के च खण्डौ काननगोपती ।पण्डः क्लीबे मतिः पण्डा व्याडः पन्नगहिंस्रयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ डान्ताः Koṣakalpataru 6.12.72 · p. 189
वक्रे स्त्रियां वीरनिनादवाद्य-भिद्वंशशल्येषु नपुंसके तु ।स्याद्घोषपुष्प्यामपि लोहितार्क-फलेऽप्यथाण्डं पतगादिपेश्याम् ॥ ७२ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ डान्ताः Koṣakalpataru 6.12.73 · p. 189
वीर्ये च मुष्के शकले तु खण्डो-ऽस्त्री रत्नदोषेक्षुविकारयोश्च ।चण्डस्तु दैत्येऽन्तकसेवके चस्यात्तिन्त्रिणीपादपकोपनेषु ॥ ७३ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.40 · p. 46
अण्डं क्लीबं विहङ्गादेः पेशीकोशेऽपरे पुनः ।मुष्के त्वाहुः परेऽप्येनं पुन्नपुंसकयोर्विदुः ॥ ४० ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास अकारादयः Paramānandīyanāmamālā 5.1.14 · p. 162
अर्यो वैश्ये प्रभावण्डं मुष्के कोशेऽप्यनन्तरे ।अर्चिः कीलोस्रयोरर्तिः पीडायामटनावपि ॥ १४ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.110 · p. 129
प्राण्यङ्गकोषयोरण्डं कुष्माडौ फलभिद्गणौ ॥ ११० ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 6.3.2 · p. 224
मुष्के पक्ष्यादिकोशेऽण्डं दुःखैनोव्यसनेष्वघम् ।अर्शसी व्याधिदुर्नाम्नी आज्ये श्रीवाससर्पिषी ॥ २ ॥
अनुष्टुप्

अण्ड as a meaning in nānārtha verses