कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कुलाय

kulāyaपुं · masc.

In 14 kośas: 12 synonym verses, 7 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1320 · p. 50
पेशीकोशोऽण्डे कुलायो नीडे केकी तु सर्पभुक् ।मयूरबर्हिणौ नीलकण्ठो मेघसुहृच्छिखी ॥ १३१९ ॥शुक्लापाङ्गोऽस्य वाक्केका पिच्छं बर्हं शिखण्डकः ।प्रचलाकः कलापश्च मेचकश्चन्द्रकः समौ ॥ १३२० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.37
पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम् ॥ ३७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.240 · p. 29
पेशीकोशः स्मृतोऽण्डश्च कुलायो नीड उच्यते ।चञ्चुश्चञ्चूस्तथा त्रोटिर्डयनं गगने गतिः ॥ २४० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.196 · p. 339
स्थानेऽथवा कोटरादौ भृग्वादीनां दरादिषु ।शाखान्ते वा लम्बमाने कुलायस्तु पुमानयम् ॥ १९६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.66 · p. 195
पत्रं पतत्रं च ** पक्ष-पिच्छे तनूरुहम् ।स्त्री पक्षतिः पक्षमूलं कुलायो नीडकस्त्रिषु ॥ ६६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 त्रं (syllables merged)
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.523 · p. 92
कुलालो द्वे कुम्भकार कुलाली तु स्त्रियामियम् ।चक्षुष्यासंज्ञभैषज्ये कुलायस्तु नृलिङ्गकः ॥ ५२३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.221 · p. 79
कुलायो नीडमस्त्री स्यात्पेशीकोशोऽण्डके पुनः ।मयूरः सर्पभुक्केकी स्मृतो मेघसुहृच्च सः ॥ २२१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.383 · p. 27
आवलिर्वीथिका पङ्क्तिः श्रेणी लेखा परम्परा ।कोशा[श]ण्डं पेशिका पेशी कुलायो नीडकोटरे ॥ ३८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2385 · p. 385
नीडस्तथा कुलायश्च पक्षिणो गृहमुच्यते ॥ २३८५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.101 · p. 89
पेषीकोषं पेषिकोशः पेषिकोषोऽण्डमस्त्रियाम् ।अस्त्री नीडं कुलायश्च पक्षिवासे भवेद्द्वयम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.824 · p. 104
पक्षच्छदो गरुत्पत्रं पतत्रं पक्षतिः स्त्रियाम् ।पक्षमूले कुलायस्तु नीडोऽस्त्री डयनं गतिः ॥ ८२४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.49 · p. 30
छदः पक्षो गरुद्वाजश्छदनं च तनूरुहम् ।पतत्रं च कुलायस्तु पञ्जरं नीडमस्त्रियाम् ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास यार्धश्लोकः Dharaṇikośa 25.2.29 · p. 155
कुलायो नीडवद्दृष्टः स्थाने गेहे च पक्षिणाम् ।ऊर्णायुरिष्यते मेष ऊर्णायुर्मेषकम्बलः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.64 · p. 296
स्याच्छोणे सुरभौ भवेत्स परगोऽथाम्नाय उक्तः श्रुता-वभ्यासेऽपि च संततौ निगदितो ज्ञैः संप्रदायेऽपि च ।स्थाने पक्षिनिकेतने च गदितो विज्ञैः कुलायस्तथाऽथोपायो नरि सामभेदविषये चोपागतौ सम्मतः ॥ ६४ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.524 · p. 92
पक्षिनीडे गृहे च स्यादेकाहक्रतुभेदके ।कुलस्य त्वायके त्रि स्यात् कुणालस्तु पुमानयम् ॥ ५२४ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास ककारादयः Paramānandīyanāmamālā 5.7.134 · p. 178
कबरी बालविन्यासे कुलायः पक्षिनीडके ।कुकुदं राजचिह्ने स्याद्वृषाङ्के प्रवरेऽपि च ॥ १३४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.39 · p. 260
औचित्यं न द्वयोः साम्ये उचितत्वे च सत्यके ।कषायः पुंसि निर्यासे रसभेदे विलेपने ॥अङ्गरागेऽप्यस्त्रियान्तु सुरभौ लोहिते त्रिषु ।कुलायः पक्षिवासायां स्थानमात्रे च पुंस्ययम् ॥क्षेत्रियेऽसाध्यरोगे स्यात्परदाररते पुमान् ।क्लीबं परचिकित्सायां तया क्षेत्रोद्भवे तृणे ॥गाङ्गेयः पुंसि भीष्मे स्यात्क्लीबं स्वर्गे कशेरुके ।चक्षुष्यं पुण्डरीकाक्षाख्यपादये केतकेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.310 · p. 199
काव्यं प्रबन्धे शुक्रे ना कुलायः स्थाननीडयोः ।गव्यं गोहितदुग्धादौ ज्यायां गव्या तु गोकुले ॥ ३१० ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 8.5.38 · p. 280
गेहे कुलायो नीडोऽस्त्री रेतस्यपि रजो मदः ।
अनुष्टुप्
meaningsगेह

कुलाय as a meaning in nānārtha verses