संघ
saṃghaपुं · masc.In 10 kośas: 11 synonym verses, 3 as a nānārtha head word, 17 as a meaning of another word.
संघाते प्रकरौघवारनिकरव्यूहाः समूहश्चयःसंदोहः समुदायराशिविसरव्राताः कलापो व्रजः ।कूटं मण्डलचक्रवालपटलस्तोमा गणः पेटकंवृन्दं चक्रकदम्बके समुदयः पुञ्जोत्करौ संहतिः ॥ १४११ ॥समवायो निकुरम्बं जालं निवहसंचयौ ।जातं तिरश्चां तद्यूथं संघसार्थौ तु देहिनाम् ॥ १४१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
genderपुंmasc.
निकरनिकायनिवहविसरव्रजपुञ्जसमूहसञ्चयाः,समुदयसार्थयूथनिकुरम्बकदम्बकपूगराशयः ।चयसमवायवृन्दसन्दोहसमाजवितानसंहति-प्रकरघनौघसंघसंघातव्रातकुलोत्कराः स्मृताः ॥ ६८६ ॥
metre not recognised
genderपुंmasc.
ग्रामो विषयशब्दास्त्रभूतेन्द्रियगुणोत्तरः ।वृन्दभेदाः समैर्वर्गः संघ-सार्थौ तु जन्तुभिः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
तद्भेदा मुकुलं शुक्तिः संघः स्यादवलीढकः ।शतपादी पादुका च पादुकार्धमिति स्मृताः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
समूहः प्रकरः संघो निकरौघव्रजा अपि ।संघातो मण्डलं चक्रवालं वृन्दकदम्बके ॥ ३०३ ॥
अनुष्टुप्
genderपुंmasc.
प्राणिनां संघसार्थौ तु निकायस्तुल्यधर्मिणाम् ।सजातीनां कुलं चैव वर्गः स्यात्सदृशां पुनः ॥ ३०६ ॥
अनुष्टुप्
genderपुंmasc.
पशूनां समजः संघः समाजो देहिनां स तु ।शुकानां शौकमित्यादिप्रत्ययैः स्यात्तदर्थकैः ॥ ३०७ ॥
अनुष्टुप्
genderपुंmasc.
ओघः संघो व्रजो व्रातो निकरः प्रकरश्चयः ।संदोहः संहतिः स्तोमो वारः समुदयो गणः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
वारौघनिकरोत्कारसमुदायसमुच्चयाः ।आकरः प्रकरः संघो निचयः प्रचयश्चयः ॥
अनुष्टुप्
genderपुंmasc.
स्त्रीपुंसौ युगली युग्मं युगलं युगमित्यपि ।संघातसंघसमुदयसमवायस्तोमनिवहसमुदायाः ॥ ८२६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
बृन्दे तिरश्चां यूथोऽस्त्री निकायस्तु सधर्मणाम् ।संघसार्थौ तु जन्तूनां वर्गस्तु सदृशां गणे ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
संघे नेरुद उद्धृत्यामाङ आच्छाद-संचये ।सामन्त्ये परितो वेस्तु गवेषेऽवात्तु तौ ग्रहे ॥ ७६ ॥
अनुष्टुप्
meaningsनिचिनोति
जोष[216a]ति स्युर्वितर्केऽमी निरस्तृहिर्बहिष्कृतौ ।वितर्के निश्चये वेस्तु मतो रचन-संघयोः ॥ ९९ ॥
अनुष्टुप्metre not read in every line
meanings
संघ as a meaning in nānārtha verses
- धरणिकोश गणगणः स्यात्प्रमथे संघे संख्यासैन्यप्रभेदयोः । क्षणो व्यापारशून्यत्वे मुहूर्तोत्सवपर्वसु । कणोऽतिसूक्ष्मे धान्यांशे पिप्पल्यां जीरके कणा ॥ Dharaṇikośa 14.2.6
- धरणिकोश संघातप्रणीतः संस्कृते वह्नौ विहितेऽथ प्रवेशिते । संघातः कथितः संघः संघातो नरकान्तरम् ॥ Dharaṇikośa 15.2.53
- धरणिकोश पटलपटलं तिलके संघे चाक्षिरोगे छदिष्यपि । जगलः स्यापिष्टमद्यं मेदको जगलः स्मृतः ॥ Dharaṇikośa 27.2.16
- धरणिकोश वंशवंशः संघे कुले वेणौ वाद्यभाण्डे विशेषतः । नासाविवरदेशे च पृष्ठमध्यास्थि च स्मृतम् ॥ Dharaṇikośa 29.3.5
- कोषकल्पतरु संस्करोतिप्रतियत्ने समुदये प्रत्युपान्निष्क्रये समः । संकल्पेऽनुभवे संघे प्रतियत्न-प्रशंसयोः ॥ ५५ ॥ Koṣakalpataru 3.5.55
- कोषकल्पतरु पेटकपुस्तकमञ्जूषायां पेटकमुदितं तथा संघे । भवति महाकालगणे चार्वाके हेतुकस्तद्वत् ॥ ७२ ॥ Koṣakalpataru 6.1.72
- कोषकल्पतरु समायोगत्यागे मोक्षे कर्मसमाप्तावपवर्गः साफल्येऽथ प्रादिषु रोगेऽप्युपसर्गः । संघे संयोगे च समायोग इहार्थे शापाक्रोशस्याभिभवेष्व[प्य]भिषङ्गः ॥ २९ ॥ Koṣakalpataru 6.3.29
- कोषकल्पतरु गणधान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवे कृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे । कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक- श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु । व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो- ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः । ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौ मूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः । संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणो घ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् । काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौ बाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥ Koṣakalpataru 6.15.3
- कोषकल्पतरु संघातस्याद्व्यायतं दीर्घदृढाधिकेषु व्यासक्तचेतस्यपि योगभेदे । व्याघात उक्तः प्रहृतौ च विघ्ने संघे तु घाते नरकान्तरे च ॥ १० ॥ Koṣakalpataru 6.16.10
- कोषकल्पतरु कायधवे मनोज्ञे त्रिषु वृद्धिवल्ल्यां स्त्रियां स्वभावे तु तनौ च कायः । संघे च लक्ष्ये परवत्कदैवे क्लीबे नृतीर्थेऽप्यथ सायमस्त्री । प्रियो धवे सुन्दरवाचकश्च वृद्ध्यौषधौ मानवतीर्थके तु । देहे च शङ्खे निकरे च कायो लक्ष्येऽपि सायं तु दिनान्तवाचि ॥ ६ ॥ Koṣakalpataru 6.26.6
- परमानन्दीयनाममाला ओघदिग्गजे नागरङ्गेऽप्यैरावतमृजुरोहिते । ऐरावती तडिद्भेदे ओघः संघोपदेशयोः ॥ ८२ ॥ Paramānandīyanāmamālā 5.5.82
- परमानन्दीयनाममाला कायकारा बन्दिजनागारे कुष्ठं भेषजरोगयोः । कायो देहे स्वभावे च लक्ष्ये संघे कदैवते ॥ १०५ ॥ Paramānandīyanāmamālā 5.7.105
- शब्दरत्नावली कायकायो मूर्त्तौ स्वभावे च संघे लक्ष्ये कदैवते ॥ Śabdaratnāvalī 7.26.10
- शब्दरत्नावली समुदयउद्गमे संयुगे संघे भवेत्समुदयः पुमान् । पुमान् युद्धे समूहे च समुदायश्च तादृशः ॥ विरोधोत्सेधयोः पुंसि समुच्छ्रय उदाहृतः । त्रिषु स्वर्णमये ना तु सुरज्येष्ठे हिरण्मयः ॥ Śabdaratnāvalī 7.26.58
- शब्दरत्नाकर गणपर्वतोपलयोर्ग्रावा गणः प्रमथसंघयोः । उपराग उपादाने सत्त्वे सूर्यादिके ग्रहः ॥ १९०८ ॥ Śabdaratnākara 4.1.1908
- शब्दरत्नाकर वारवाले च वक्षसि त्वस्त्री वृषोक्ष्णि सुरनायके । वासो गन्धे निवासे च वारः पर्यायसंघयोः ॥ २००५ ॥ Śabdaratnākara 4.1.2005
- त्रिकाण्डशेष पाशपाशः कचान्ते संघार्थः कर्णान्ते शोभनार्थकः । छात्राद्यन्ते च निन्दार्थः पाशः पक्ष्यादिबन्धने ॥ ४३१ ॥ Trikāṇḍaśeṣa 3.3.431