रुण्ड
ruṇḍaपुं · masc.In 10 kośas: 12 synonym verses, 4 as a nānārtha head word, 1 as a meaning of another word.
इन्द्रियायतनमङ्गविग्रहौ क्षेत्रगात्रतनुभूघनास्तनूः ।मूर्तिमत्करणकायमूर्तयो वेरसंहननदेहसंचराः ॥ ५६३ ॥घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्ष्मणी ।कलेवरं शरीरेऽस्मिन्नजीवे कुणपं शवः ॥ ५६४ ॥मृतकं रुण्डकबन्धौ त्वपशीर्षे क्रियायुजि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderपुंmasc.
कबन्धः कथ्यते रुण्डः क्षतमीर्ममरुर्व्रणः ।असृग्धराजिनं चर्म कृत्तिस्त्वक् परिकीर्तिता ॥ ६३० ॥
अनुष्टुप्
genderपुंmasc.
चितिः खाटिश्चिता चित्या स्त्रियां ना चूडकः कटः ।शिरोहीने कबन्धोऽस्त्री रुण्डो देहे क्रियान्विते ॥ ३८१ ॥
अनुष्टुप्
genderपुंmasc.
पुण्ड्रकल्लोलतल्लानां गलहिङ्गुलयोरपि ।खलोल्लोलपोटगलरुण्डोलानां … ॥ ६० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
रुण्डः शरीरं विशिरस्तु मुक्तंन स्त्री कबन्धो यदि तत्क्रियावत् ।क्ष(श)वस्तु षण्ढे मृतकं तु पूति-विवर्धनोऽस्त्री कुणपः शवोऽस्त्री ॥ ७३ ॥
उपजातिः
genderपुंmasc.
करण्ड-कूष्माण्ड-वरण्ड-रुण्ड-भारुण्ड-गुण्डा लगुडः शिखण्डः ।गुडः पिचण्डोऽथ जपाप्रसून-निवाप-कोपेषु च पिण्ड उक्तः ॥ १५ ॥
उपजातिः
genderपुंmasc.
रुण्डोऽशिराः कबन्धोऽस्त्री कुणपोऽरिशवोऽस्त्रियाम् ।शवयानं कटः कोटिश्चिता चित्या चिति स्त्रियाम् ॥ २०४ ॥
अनुष्टुप्
genderपुंmasc.
शवः कुणपनामाथ कबन्धो रुण्डमित्यपि ।अपशीर्षं क्रियायुक्तं मृतकं तु विभाव्यताम् ॥ २३० ॥
अनुष्टुप्
genderक्लीneut.
कलिञ्जगण्डौ लगुडः पिचण्डोवरण्डकूष्माण्डकरण्डरुण्डाः ।नाडीव्रणाङ्गुष्ठह[2]ठा गुणश्चघटो नरे भ्रूणशिखण्डचण्डाः ॥ १८ ॥
उपजातिः
genderपुंmasc.
genderपुंmasc.
अह्नाश्वगम्यमाश्वीनं त्रिष्वेतेऽश्वतरः पुनः ।स्थाद्वेसरो वेगसरो मूकरुण्डौ तु वेसरात् ॥ १०८ ॥
अनुष्टुप्
genderपुंmasc.
रुण्डोऽशिराः कबन्धोऽस्त्री कुणपस्तु शवोऽस्त्रियाम् ।शवयानं कटः खाटिश्चिता चित्या चितिः स्त्रियाम् ॥ २१६ ॥
अनुष्टुप्
genderपुंmasc.
पीडा स्यादथ षट्क्षणीव्रणभिदोः स्याद्गण्डदूर्वाशिरा-व्याजेर्यासु च नालयन्त्रभिदि * योक्त्री च नाडी मता ।रण्डा मूषिकपर्णिका मृतधवा[276b] स्त्री चाथ रुण्डोऽकरेबन्धक्यां मदनिर्भरे तु परवत्स्त्री दन्तिनः स्यात्करे ।वेश्यामद्यसरोजिनीषु पयसश्चेभ्यां च शुण्डा मता-
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
meaningsअकर
विनाशे दर्शनीये तु त्रिर्द्वयोर्ब्राह्मणे स्मृतः ।रुण्डो नृजातिभेदे द्वे वरुटीशूद्रसम्भवे ॥ १११३ ॥
अनुष्टुप्
चतुष्पाज्जातिभेदे च स्यादश्वावेसरोद्भवे ।रुद्राणी त्वद्रिजायां स्त्री ना तु रुद्रः शिवेऽनले ॥ १११४ ॥
अनुष्टुप्
doubtful
अशिरस्कौ बाहुरुण्डाववलोर्णोऽस्फुटापि वाक् ।आशोचनी तु वह्नीन्दू आत्मयोनी स्मरानिलौ ॥ १६ ॥
अनुष्टुप्
meanings
रुण्ड as a meaning in nānārtha verses
- धरणिकोश कबन्धन्यग्रोधौ चावटव्यामौ न्यग्रोधी वृषपर्णिका । कबन्धं सलिले रुण्डे कबन्धो राक्षसान्तरम् ॥ Dharaṇikośa 18.2.16