कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

छन्द

chandaपुं · masc.

In 10 kośas: 8 synonym verses, 5 as a nānārtha head word, 4 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सङ्कीर्णवर्गः Amarakośa 3.2.20
विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.63 · p. 241
परिसर्पोऽथ विधुरं परिश्लेषेऽप्यथाश्रयः ।छन्दाशयौ समसनं संक्षेपणमथापि च ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.59 · p. 467
स्याच्छन्दतिष्यपुष्याणां पाञ्चजन्यनिकाय्ययोः ।सिचयामित्रमित्राणां तद्वद्वृत्रकटत्रयोः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.31 · p. 4
प्रमादोऽनवधानत्वं पुंस्याधिः स्यान्मनोव्यथा ।अभिप्रायाशयच्छन्दा आकूतच्छन्दसी मतम् ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.84 · p. 27
भावो मतमभिप्रायश्छन्द आकूत आशयः ।शीलं स्वभावः सहजो निसर्गः प्रकृती रुचिः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.41 · p. 173
प्रविश्लषस्तु विधुरं दुःस्थितत्वे द्वयं भवेत् ।छन्दाशयावभिप्राये स्थितौ चास्यासनापि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.9 · p. 250
कल्मषमभिप्राये तु छन्दो ना छन्दसा षणा ।चतुरश्चतुरको द्वौ नेत्रगोचर ईरितौ ॥ ९ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1717 · p. 207
परिणामो विकारः स्याच्छन्दोऽभिप्राय आशयः ।उपभोगस्तु निर्वेशः संनिधिः संनिकर्षणम् ॥ १७१७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.88
अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ ॥ ८८ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास दपादः Dharaṇikośa 17.1.2 · p. 92
छन्दावभिप्रायवशौ मृदू चातीक्ष्णकोमलौ ।स्वेदः स्यात्स्वेदने घर्मे शादः कर्दमशष्पयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ दान्ताः Koṣakalpataru 6.19.22 · p. 234
स्यात्सूरणेऽस्त्री नवसस्यमूलेछन्दस्तु नाऽऽकूतहृदोश्च चित्ते ।वश्ये नरौ( ? )चाथ तुरीयभा[4b]ग-प्रत्यन्तशैले चरणे मयूखे ॥ २२ ॥
इन्द्रवज्राmetre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ सान्ताः Koṣakalpataru 6.31.100 · p. 381
छन्दो यदृच्छाचरणे च पद्य-भेदेऽप्यदन्तस्तु पुमान्समार्थः ।एनोऽपराधे कलुषे मन[89b]स्तुचित्ते धियां पुंसि भवेन्न रोदः ॥ १०० ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 10 न (wrong syllable)
meaningsसम
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1922 · p. 234
छदः पक्षे पलाशे च च्छन्दोऽभिप्रायवाञ्छयोः ।कान्त्यनातपयोश्छाया प्रतिबिम्बार्कभार्ययोः ॥ १९२२ ॥
अनुष्टुप्

छन्द as a meaning in nānārtha verses