All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
बान्ताः · बार्धश्लोकः
॥ बार्धश्लोकः ॥
डिम्बः स्याद्विप्लवप्लीह्नोर्व्याप्तेऽपि डिम्बमिष्यते ।शम्बः स्यान्मुषलाग्रस्थलोहमण्डलके पवौ ॥
22.2.1 · p. 135
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
स्तम्बो गुच्छे कुशादीनामप्रकाण्डद्रुमेऽपि च ।कम्बू कुञ्जरशम्बूकौ कम्बुर्वलयशङ्खयोः ॥
22.2.2 · p. 135
अनुष्टुप्
जम्बुः सुमेरुनद्यां स्याद्द्वीपद्रुमविशेषयोः ।कम्बिर्मुखे च वंशे स्यात्खजायां च प्रकीर्तिता ॥
22.2.3 · p. 135
अनुष्टुप्
चार्बी च शोभना ज्ञेया चार्बी बुद्धिरुदाहृता ।दर्बिः सर्पफणायां च खजाका दर्बिरिष्यते ॥
22.2.4 · p. 136
अनुष्टुप्
गर्बोऽभिमानेऽवलेपे गर्बोऽनुरञ्जकस्तु यः ।पूर्बे स्युः पूर्वकाः पूर्बो जातः प्राक्पूर्वजाग्रतः ॥
22.2.5 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नु (wrong syllable)
श्रुबः श्रुबा च श्रुग्भेदे मूर्वायां शल्लकी श्रुबा ।हेरम्बो महिषः ख्यातो हेरम्बो विघ्ननायकः ॥
22.2.6 · p. 136
अनुष्टुप्
कदम्बः सर्षपे नीपे कदम्बं निकु[66]रुम्बकम् ।नितम्बो जघने सानौ नितम्बं स्कन्धरोधसोः ।गजाह्बं हस्तिनपुरं गजाह्बा करिपिप्पली ॥
22.2.7 · p. 136
अनुष्टुप्