All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
भान्ताः · भश्लोकः
॥ भश्लोकः ॥
कुम्भौ समाध्यन्तरराशिभेदौकुम्भो घटे वारणगण्डपिण्डे ।कुम्भं स्मृतं गुग्गुलकेऽथ कुम्भीस्यात्कट्फले पाटलिवारिपर्ण्योः ॥
23.3.1 · p. 139
इन्द्रवज्रा
सुरभिरयमुदीर्णश्चैत्रमासे वसन्तेसति च सुरभिरुक्तो धीरविख्यातयोश्च ।सुरभि गदितमेतत्सुन्दरे साधुगन्धेसुरभिरियमुदीर्णा गौः सुरा शल्लकी च ॥
23.3.2 · p. 140
मालिनी
ऋषभस्तु बलीवर्दे श्रेष्ठे गीते स्वरान्तरे ।अष्टवर्गौषधीमध्ये ऋषभः पर्वतान्तरे ॥
23.3.3 · p. 140
अनुष्टुप्