ऋच्
ṛcस्त्री · fem.In 11 kośas: 12 synonym verses, 1 as a nānārtha head word, 6 as a meaning of another word.
genderस्त्रीfem.
गद्यपद्यमयी चम्पूः सरणी पद्यमात्रिका ।शृङ्गाराद्यधिकं काव्यं समासान्तन्तु दण्डकम् ।ऋग्यजुः सामयजुषि वेदास्ते तु त्रयस्त्रयी ॥ ८० ॥
अनुष्टुप्
genderस्त्रीfem.
ऋगृचाव(?)स्त्रियौ क्लीबे यजुः साम तु निर्ऋथः ।त्रयी स्त्रियां त्रिवेदीरि(?)त्रय्युद्धारस्त्वथर्वणि ॥ ६५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
genderस्त्रीfem.
चञ्चा चर्चा सूचि-साच्यौ रुचिश्चवीचिश्चञ्चुस्त्वगृचौ स्रुग्वदर्वाक् ।कच्छा पिच्छा किं च कच्छू[श्च] राजि-र्मर्जूः खर्जूर्जूश्च सर्जूः प्रजोर्जौ ॥ ४३ ॥
शालिनीmetre not read in every linenearly शालिनी: pāda 2, syllable 5 स्त्व (wrong syllable)
genderस्त्रीfem.
मांसाभिधानं विवराभिधानं च तीर्थतुण्डे च नपुंसके विद्धि जानीहि । यथा मांसं पलं पललं क्रव्यमित्यादि । इदं विवरं बिलं छिद्रं रन्ध्रं कुहरं सुषिरमित्यादि । इदं तीर्थं पुण्यस्थानम् । तुण्डं वक्त्रम् । यवमाषाद्या व्रीहयः पुंसि । यथा इमे माषाः मुद्गाः कुलत्थाः सोष्टाः गोधूमाः तिलाः कलापाः मसूराः सर्षपाः । प्रियङ्गवश्च स्त्रियामेव । इमाः प्रियङ्गवः ।पल्लव उक्तः पुंसि नपुंसके किसलयं स्त्रियां लाक्षा ।ऋग्रोचना पिडका कण्डूः क्षपा चैव ॥ ५७ ॥
metre not recognised
genderस्त्रीfem.
पल्लवशब्दः पुंसि भवति । अयं पल्लवः । इदं किशलयं प्रवालम् । लाक्षा स्त्रियां स्यात् । इयं लाक्षा जतु । ऋगादयः शब्दाः स्त्रियां भवन्ति । इयमृक् वेदावयवः । रोचना गोपित्त[त]म् । पि[पिं]डका शरायगम्? । कण्डूः खर्जूः । क्षपा रात्रिः ।कललकफपूयकुल्माषकल्ककल्पगेहमखलौहित्याः ।झर्झरपुङ्खचषालाश्च पुंसि कटाहमत्स्यौ च ॥ ५८ ॥
metre not recognised
genderस्त्रीfem.
दर्द्रुपर्शू ऋचा? नौश्च वार्दृशौ गीः पूरा सह ।सपर्यायाः सभेदाश्चेत्यादयः स्युः स्त्रियां घनाः? ॥ ६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 पू (wrong syllable)
genderस्त्रीfem.
वेदो वेदाः श्रुतिः प्रज्ञापौरुषेया त्रयी हविः ।ऋग्वेदे तु ऋगित्युक्ता ऋचा चापि ऋजा ऋजी ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
ऋक् स्त्रियां सामयजुषी वेदास्त्रय इति त्रयी ।शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा ॥
अनुष्टुप्
genderस्त्रीfem.
ऋक् तु स्त्रियां यजुःसाम्नी इति वेदास्त्रयस्त्रयी ।ऋक् च साम च ऋक्सामं तथर्ग्यजुषमित्यपि ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
आगूयवागूवाक्सृ(स्र?)क्त्वक्स्फिग्ज्योग्नौदिगृगुष्णिहः ।संध्या कथा[शीः] कन्था द्वाः पूर्धूर्गी[र्विट्] पिपीलिका ॥ २३११ ॥
अनुष्टुप्
genderस्त्रीfem.
पाठे बिन्दुर्ब्रह्मबिन्दुर्ब्रह्मांजलिरिहांजलिः ।ऋक् स्त्री साम यजुश्चेति वेदास्ते तु त्रयस्त्रयी ॥ २६ ॥
अनुष्टुप्
genderस्त्रीfem.
ऊर्गन्नान्नरसोत्साहबलेषु स्याच्चतुर्ष्वपि ।ऋशब्दस्त्वदितौ स्वर्गेऽप्यृग्वाण्यां पद्यमात्रके ॥ ५२ ॥
अनुष्टुप्
ऋच् as a meaning in nānārtha verses
- धरणिकोश सामिधेनीचित्रभानू रविर्वह्निः सामिधेनी च ऋक्समित् । मातुलानी कलायेऽपि सरोजिन्यम्बुजेऽपि च ॥ Dharaṇikośa 19.1.23
- नानार्थार्णवसंक्षेप पथ्यऋक्सामेषु तथा दाशरात्रिकेष्वथ सा स्त्रियाम् । जातिच्छन्दोविशेषेऽस्य स्यादार्याख्यस्य चान्तरे ॥ ७१० ॥ Nānārthārṇavasaṃkṣepa 2.5.710
- नानार्थार्णवसंक्षेप शफपृथश्च यस्येत्यृचि च गीतयोः सामभेदयोः । शयो ना शयने पाणौ कृकलासे तु स द्वयोः ॥ १३१४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1314
- नानार्थार्णवसंक्षेप शस्त्रनरं वररुचिः प्राह शस्त्रं तु क्लीबमायुधे । अयस्यृङ्मन्त्रभेदेषु शंसायाः साधनेषु च ॥ १३१६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1316
- नानार्थार्णवसंक्षेप विश्वरूपत्रिरभ्यासेन गीते (च) न्यु जे वाचंशतेत्यृचि (?) । अत्रापि पूर्ववत् सादि ज्ञेयं विष्णुपदं पुनः ॥ ५६३ ॥ Nānārthārṇavasaṃkṣepa 6.563
- नानार्थार्णवसंक्षेप पुरुषगतिअहमस्मीत्यृगुत्पन्ने पुरुषस्य गतावपि । अथ योजनगन्धा स्याज्जानक्यां व्यासमातरि ॥ १० ॥ Nānārthārṇavasaṃkṣepa 7.10