कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जातरूप

jātarūpaक्ली · neut.

In 15 kośas: 15 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.163 · p. 41
स्याद्रूप्यं कलधौतताररजतश्वेतानि दुर्वर्णकंखर्जूरं च हिमांशुहंसकुमुदाभिख्यं सुवर्णं पुनः ।स्वर्णं हेमहिरण्यहाटकवसून्यष्टापदं काञ्चनंकल्याणं कनकं महारजनरैगाङ्गेयरुक्माण्यपि ॥ १०४३ ॥कलधौतलोहोत्तमवह्निबीजान्यपि गारुडं गैरिकजातरूपे ।तपनीयचामीकरचन्द्रभर्मार्जुननिष्ककार्तस्वरकर्बुराणि ॥ १०४४ ॥जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् ।
metre not recognised
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.95
स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम् ।तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम् ॥ ९४ ॥चामीकरं जातरूपं महारजतकाञ्चने ।रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.173 · p. 22
हेम स्वर्णं जातरूपं सुवर्णं,भर्मं रुक्मं हाटकं शातकुम्भम् ।गाङ्गेयं स्याद्गैरिकं भूरि चन्द्रं,राः कल्याणं निष्कमष्टापदं च ॥ १७३ ॥
शालिनी
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर एकादशोपदेशः Bālaprabodhikā 11.192 · p. 83
रुक्मं कार्तस्वरं स्वर्णं कल्याणं भर्म कर्बुरम् ।धामीकरं जातरूपं वसु स्याच्छातकुम्भवत् ॥ १९२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.534 · p. 192
गैरिकं वसु कल्याणं रजतं भर्म कर्वुरम् ।चामीकरं जातरूपं चाम्पेयं वित्तमर्जुनम् ॥ ५३४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.51 · p. 132
पिञ्जरं पीतकं जातरूपं लक्ष्मीनिकेतनम् ।तपनीयाग्निवक्राग्निबीज-हेम-सुलोहकम् ॥ ५१ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.117 · p. 294
स जातरूपः सौवर्णो राजतः कलधौतकः ।दीनारस्य तु भागे स्याद्धाणको नरलिङ्गकः ।* * [पण-] कर्षापणावस्त्री कार्षिकस्ताम्रिकः पणः ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 93 · p. 47
हेम चाष्टापदं स्वर्णं कनकार्जुनकाञ्चनम् ।सुवर्णं हिरण्यं भर्मं जातरूपं च हाटकम् ॥ ९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.324 · p. 44
कार्तस्वरं जातरूपं गाङ्गेयं भूरिभर्मणी ।स्वर्णं चन्द्रो हेमशातकुम्भे रजतभूत्तमे ॥ ३२४ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.540 · p. 95
कनके तपनीयं स्याद्गाङ्गेयं भर्म हेम च ।कर्बुरं जातरूपं च रुक्मं कार्तस्वरं तथा ॥ ५४० ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.173 · p. 19
कार्तस्वरं जातरूपं कलधौतं च कर्बुरम् ।तपनीयं च कल्याणं रुक्मं जाम्बूनदं वसु ॥ १७३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1809 · p. 295
राः महारजतं भूरि रजतं तारजीवनम् ।निष्कश्चाऽष्टापदं जाम्बूनदं जातरूपं पुनः ॥ १८०९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रू (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.183 · p. 150
तपनीयं जातरूपं महारजतमभ्रकम् ।अग्निवीजं लोहवरं चाम्पेयमुरुषावकम् ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 लो (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.141 · p. 19
जाम्बूनदं सुवर्णं स्वर्णं चामीकरं महारजतम् ।अपि भर्मजातरूपे अष्टापदभूरिणी तु वा पुंसि ॥ १४१ ॥
गीतिः
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.18 · p. 42
रुक्मं कार्तस्वरं स्वर्णं महारजतमौजसम् ।चामीकरं जातरूपं तपनीयं शिलोद्भवम् ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.240 · p. 46
जातरूपं सुवर्णे क्ली रूप्ये चार्थादि पूर्ववत् ।जालपादो द्वयोर्हंसे राजहंसे तु दत्तकः ॥ २४० ॥
अनुष्टुप्