कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तपनीय

tapanīyaक्ली · neut.

In 13 kośas: 15 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.163 · p. 41
स्याद्रूप्यं कलधौतताररजतश्वेतानि दुर्वर्णकंखर्जूरं च हिमांशुहंसकुमुदाभिख्यं सुवर्णं पुनः ।स्वर्णं हेमहिरण्यहाटकवसून्यष्टापदं काञ्चनंकल्याणं कनकं महारजनरैगाङ्गेयरुक्माण्यपि ॥ १०४३ ॥कलधौतलोहोत्तमवह्निबीजान्यपि गारुडं गैरिकजातरूपे ।तपनीयचामीकरचन्द्रभर्मार्जुननिष्ककार्तस्वरकर्बुराणि ॥ १०४४ ॥जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् ।
metre not recognised
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.95
स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम् ।तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम् ॥ ९४ ॥चामीकरं जातरूपं महारजतकाञ्चने ।रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.174 · p. 22
जाम्बूनदं हिरण्यं कनकमहारजतकाञ्चनानि स्युः ।कार्तस्वरचामीकरकर्बुरतपनीयनामानि ॥ १७४ ॥
आर्या
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.55 · p. 13
गुरुभस्म महाभस्म वेधार्हं वादजीवितम् ।अग्नीन्द्रियं शातकुम्भं तपनीयं महोदयम् ॥ ५५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.20 · p. 134
पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौरसारिवौ ।शारामुखः शीतभीरुस्तपनीयः सुगन्धिकः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.32 · p. 136
तपनीयोऽथ पुष्पाण्डः स च कोमलतण्डुलः ।स्यान्महामदकारी तु महरूषक इत्यपि ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.533 · p. 191
चन्द्रमष्टापदं जाम्बूनदमेते नवास्त्रियाम् ।तपनीयं शातकुम्भं च द्वयोर्हिमहेमनी ॥ ५३३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.537 · p. 192
काञ्चनं हिरणं भर्म गाङ्गेयं शतकुम्भजम् ।तपनीयं शातकौम्भमभ्रं कर्बूरमित्यपि ॥ ५३७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.51 · p. 132
पिञ्जरं पीतकं जातरूपं लक्ष्मीनिकेतनम् ।तपनीयाग्निवक्राग्निबीज-हेम-सुलोहकम् ॥ ५१ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 94 · p. 47
तपनीयं कलाधौतं कार्तस्वरशिलोद्भवम् ।रूप्यं रजतं गुलिका शुक्तिजं मौक्तिकं तथा ॥ ९४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज (wrong syllable)
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.540 · p. 95
कनके तपनीयं स्याद्गाङ्गेयं भर्म हेम च ।कर्बुरं जातरूपं च रुक्मं कार्तस्वरं तथा ॥ ५४० ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.173 · p. 19
कार्तस्वरं जातरूपं कलधौतं च कर्बुरम् ।तपनीयं च कल्याणं रुक्मं जाम्बूनदं वसु ॥ १७३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.183 · p. 150
तपनीयं जातरूपं महारजतमभ्रकम् ।अग्निवीजं लोहवरं चाम्पेयमुरुषावकम् ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 लो (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.140 · p. 19
द्युम्नं हिरण्यमथ हाटकशातकुम्भ-गाङ्गेयचन्द्रकलधौतशिलोद्भवानि ।कल्याणरुक्मतपनीयहिरण्यहेमकार्तस्वरं कनककाञ्चनकर्बुराणि ॥ १४० ॥
वसन्ततिलका
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.18 · p. 42
रुक्मं कार्तस्वरं स्वर्णं महारजतमौजसम् ।चामीकरं जातरूपं तपनीयं शिलोद्भवम् ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.247 · p. 47
धने तु क्ली त्रिरायुष्मत्कृषीवलभिषक्षु सः ।तपनीयं सुवर्णे क्ली शालिभेदे तु पुंस्ययम् ॥ २४७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.248 · p. 47
तप्तव्ये त्रिरथो तन्तुवायो लूताक्रिमौ द्वयोः ।कुविन्देऽप्यथ कामस्य तिथौ स्त्री स्यात् त्रयोदशी ॥ २४८ ॥
अनुष्टुप्
doubtful