रूप्य
rūpyaक्ली · neut.In 20 kośas: 24 synonym verses, 12 as a nānārtha head word, 36 as a meaning of another word.
स्याद्रूप्यं कलधौतताररजतश्वेतानि दुर्वर्णकंखर्जूरं च हिमांशुहंसकुमुदाभिख्यं सुवर्णं पुनः ।स्वर्णं हेमहिरण्यहाटकवसून्यष्टापदं काञ्चनंकल्याणं कनकं महारजनरैगाङ्गेयरुक्माण्यपि ॥ १०४३ ॥कलधौतलोहोत्तमवह्निबीजान्यपि गारुडं गैरिकजातरूपे ।तपनीयचामीकरचन्द्रभर्मार्जुननिष्ककार्तस्वरकर्बुराणि ॥ १०४४ ॥जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् ।
metre not recognised
रूप्यक्लीकलधौतक्लीतारक्लीरजतक्लीश्वेतक्लीदुर्वर्णकक्लीखर्जूरक्लीहिमांशुक्लीहंसक्लीकुमुदक्लीसुवर्णक्लीस्वर्णक्लीहेमन्क्लीहिरण्यक्लीहाटकक्लीवसुक्लीअष्टापदक्लीकाञ्चनक्लीकल्याणक्लीकनकक्लीमहारजनक्लीरैपुंगाङ्गेयक्लीरुक्मक्लीलोहोत्तमक्लीवह्निबीजक्लीगारुडक्लीगैरिकक्लीजातरूपक्लीतपनीयक्लीचामीकरक्लीचन्द्रक्लीभर्मन्क्लीअर्जुनक्लीनिष्कक्लीकार्तस्वरक्लीकर्बुरक्लीजाम्बूनदक्लीशातकुम्भक्लीभूरिक्लीभूत्तमक्ली
genderक्लीneut.
genderक्लीneut.
स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते ।ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद्द्वयमाहतम् ॥ ९१ ॥
अनुष्टुप्
genderक्लीneut.
दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि ॥ ९६ ॥
अनुष्टुप्
genderक्लीneut.
सीसकं सीसपत्रं स्याद्वङ्गं च मधुकं त्रपु ।रजतं कलधौतं च रूप्यं तारं च कथ्यते ॥ १७२ ॥
अनुष्टुप्
genderक्लीneut.
त्रापुषं रजतं रूप्यं … चन्द्रभीरुकम् ।सौधाशुभीरुकं शूद्रं रर्जूरं वङ्गजिह्वनम् ॥ १९५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
दुर्वर्णं पुंसि वा रूप्यं रूपं रौप्यं यवीयसम् ।तारं लोहं वसुश्रेष्ठं रजतं रुचिरं पुनः ॥ ५४३ ॥
अनुष्टुप्
genderक्लीneut.
कृतेऽकृते हेम्नि रूप्ये कुप्यं त्वाभ्यां परं हि यत् ।आहतं तद्द्वयं रूप्यमथ स्याद्रजतोऽस्त्रियाम् ॥ ५६ ॥
अनुष्टुप्
genderक्लीneut.
रूप्यं च कलधौतं च तारं श्वेतं हिमांशु च ।खर्जुरं च भवेद्धंसाह्वयं च कुमुदाह्वयम् ॥ ५७ ॥
अनुष्टुप्
genderक्लीneut.
तपनीयं कलाधौतं कार्तस्वरशिलोद्भवम् ।रूप्यं रजतं गुलिका शुक्तिजं मौक्तिकं तथा ॥ ९४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज (wrong syllable)
genderक्लीneut.
रूप्यं च रजतं तारं श्वेतं दुर्वर्णकं पुनः ।हिमांशुहंसकुमुदाभिख्यं खर्जूरमप्यथ ॥ ३२२ ॥
अनुष्टुप्
genderक्लीneut.
कुप्यं तु तद्द्वयादन्यद्रूप्यं तु द्वयमाहतम् ।आरं तु पित्तलेऽथारकूटो रीरी सुलोहकम् ॥ ३२७ ॥
अनुष्टुप्
genderक्लीneut.
राममुद्राङ्किते रूप्ये हेम्नि रूप्यं तदिष्यते ।गारुत्मतं मरकतमश्मगर्भं हरिन्मणौ ॥ ५३८ ॥
अनुष्टुप्
genderक्लीneut.
स्मृतं हि शृङ्गीकनकमलंकारस्य योग्यके ।खर्जूरश्वेतदुर्वर्णरूप्य(प?)रूप्याणि राजि(ज?)ते ॥ ५४२ ॥
अनुष्टुप्
genderक्लीneut.
रूप्यं श्वेतम् दर्पणकं रजतं तारशुक्लगू ।उदुम्बरं म्लेच्छमुखं वरिष्ठं शुल्बताम्रके ॥ २४७ ॥
अनुष्टुप्
genderक्लीneut.
अष्टापदं भूरिचन्द्रो महारजतभूत्तमे ।दुर्वर्णं रजतं रूप्यं तारं खर्जूरमित्यपि ॥ १७४ ॥
अनुष्टुप्
genderक्लीneut.
रूप्यं रूपं तथा श्वेतं त्रापुषं रजतं सितम् ।दुर्वर्णकञ्च दुर्वर्णं जीवनं बङ्गजीवनम् ॥ १८०२ ॥
अनुष्टुप्
genderक्लीneut.
कुप्यं कोशो हिरण्यञ्च स्वर्णे रूप्ये कृताकृते ।कुप्यं स्यात् तद्द्वयादन्यद् रूप्यं तु द्वयमाहतम् ॥ १८११ ॥
अनुष्टुप्
genderक्लीneut.
आहतं तद्द्वयं रूप्यं तथा रौप्यकमित्यपि ।मरक्तं स्यान्मरकतं राजनीलं हरिन्मणिः ।गारुत्मतं चाश्मगर्भो गरुडाङ्कितमित्यपि ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
तारे श्वेतं शितं रूप्यं रूप्रं भीरु सुभीरुकम् ।कनके स्वर्णं सुवर्णं स्यान्महारजतान्वितम् ॥ ७६ ॥
अनुष्टुप्
genderक्लीneut.
तद्द्वयं चाहतं रूप्यं तदन्यत्कुप्यमित्यथ ।कलधौतचन्द्रभीरुकखर्जूरश्वेतरूप्यरजतानि ॥ १४४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
औद्भिदं पांसुलवणं रूप्यं पानीयसंभवम् ।शूलिका तु महाराजी लोष्टावारं महाबिडम् ॥ १४५७ ॥
अनुष्टुप्
genderक्लीneut.
रूप्यहेम्री तु संश्लिष्टे घनगोलकमस्त्रियाम् ।रजतं त्रापुषं रूप्यं चन्द्रभीरु यवीयसम् ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
अकुप्यं कुप्यमन्यत्स्याद्रूप्यं तद्द्वयमाहतम् ।कोशमस्त्री हिरण्यं च हेमरूप्यं कृताकृतम् ॥ ७४ ॥
अनुष्टुप्
genderक्लीneut.
रूप्यं प्रशस्तरूपं स्याद्रूप्यं रजतमिष्यते ।भाग्यं शुभात्मकं दैवं केवलं च शुभाशुभम् ॥
अनुष्टुप्
गोप्यस्तु दासीतनयेऽन्यवत्तुरक्षोचिते, सव्यमुशन्ति वामे ।तथा प्रतीपेऽथ फले गुणे चसस्यं च रूप्यं रजतेऽन्त्यलिङ्गे ॥ ३८ ॥
उपजातिः
meaningsरजत
तारे तथा हेमनि चाहते स्यात्प्रशस्तरूपे तु विशेष्यलिङ्गम् ।इभ्यस्तथाढ्ये त्रिषु, सल्लकीभ्यःस्त्रियां च लभ्यं तु किलोचिते स्यात् ॥ ३९ ॥
उपजातिः
रूप्यस्याञ्जनभेदे स्युर्बदरस्य तु नागरे ।अथाभ्रशब्दो जलदे व्योममुस्तकयोरपि ॥ २ ॥
अनुष्टुप्
meaningsअञ्जनभेद
त्रि तु प्रशस्तरूपेऽपि रूपणीयेऽथ रूक्षवाक् ।निश्शरे दधनि क्लीबमप्रेम्णि त्वप्यचिक्कणे ॥ १११९ ॥
अनुष्टुप्
स्यान्माया शाम्बरीबुद्ध्योर्दैत्यशिल्प्युष्ट्रयोर्मयः ।ययुरश्वे क्रतुहये रूप्यं त्रिषु सुरूपके ॥ ३१९ ॥
अनुष्टुप्
meaningsसुरूपक
आहतस्वर्णरजते रजते च नपुंसकम् ।वत्से बले बुधे रौहिणेयोऽथ श्लेषवाद्ययोः ॥ ३२० ॥
अनुष्टुप्
doubtful
राजते भूषणे रूप्यं रजते हेम्नि चाहते ।त्रिषु प्रशस्तरूपेऽथ रणोऽस्त्री युधि ना ध्वनौ ॥ ६८ ॥
अनुष्टुप्
रूप्य as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् कलधौतकलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः ॥ ७६ ॥ Amarakośa 3.3.76
- नामलिङ्गानुशासनम् श्वेतश्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु ॥ ७९ ॥ Amarakośa 3.3.79
- धरणिकोश रूपकदीपको दीपकारी स्यात्काव्यालंकार एव च । रूपकं नाटके रूप्ये काव्यालंकरणेऽपि च ॥ Dharaṇikośa 1.2.22
- धरणिकोश दुर्वर्णलक्षणं नाम्नि चिह्ने च कोङ्कणः शस्त्रदेशयोः । दुर्वर्णं रूप्येऽसद्वर्णे प्रोक्षणे वधसेचने ॥ Dharaṇikośa 14.1.6
- धरणिकोश श्वेतवित्तं विचारिते द्रव्ये व्याख्या[36]ते वित्तमिष्यते । श्वेतं रूप्ये सिते श्वेतं श्वेतश्च पर्वतान्तरम् ॥ Dharaṇikośa 15.2.5
- धरणिकोश धातुधातुः श्लेष्मादिरूप्यादिपृथ्व्यादिचक्षुरादिषु । मनःशिलादिभूवाद्योर्विशेषादस्थ्नि गैरिके ॥ Dharaṇikośa 15.3.7
- धरणिकोश तारतारोऽत्युच्चध्वनितरणयोः कीशमुक्ताविशुद्ध्यो- स्तारो रूप्ये स्फुरितकिरणे निर्मले तारमाहुः । तारा ऋक्षे नयनकनिका बुद्धदेव्यां च तारा तारा प्रोक्ता धिषणवनिता चापि सुग्रीवपत्नी ॥ Dharaṇikośa 26.3.24
- कोषकल्पतरु श्वेतप्रोतं परेते त्वपि भूतभेदे प्रेतोऽन्तिमे श्वेतमुशन्ति रूप्ये । द्वीपागयोर्ना परवत्तु शुक्ले स्त्रियां कपर्दे भिदि पाटलायाः ॥ १० ॥ Koṣakalpataru 6.16.10
- कोषकल्पतरु कलधौतबद्धे चोपन्यस्ते ग्राहित उद्ग्राहितं प्राहुः । कलधौतः कलशब्दे नपुंसके हेम्नि रूप्ये च ॥ ५५ ॥ Koṣakalpataru 6.17.55
- कोषकल्पतरु शुक्रन स्त्री तु मासान्तरपावकार्थो रूप्येऽक्षिरोगे चरमे च धातौ । द्वन्द्वे न शक्रस्तु शचीपतौ स्या- त्तथार्जुनद्रौ कुटजे च दिष्टः ॥ ४१ ॥ Koṣakalpataru 6.27.41
- कोषकल्पतरु शुभ्रदभ्रः समुद्रे त्रिषु चाल्पवाची शुभ्रं तु रूप्ये त्रिषु दीप्त-शुक्ले । खिद्रो गदे ना परवद्दरिद्रे- ऽथाभ्रं नभःस्वर्गघनाभ्रकेषु ॥ ५९ ॥ Koṣakalpataru 6.27.59
- कोषकल्पतरु खर्जूरविद्याधरे रक्षसि रक्षकेलौ महत्यजे पुंसि गणे कटप्रूः । खर्जूर उक्तो नरि वृक्षभेदे स्याद्वृश्चिके रूप्यकलार्थकोऽन्त्ये ॥ ७० ॥ Koṣakalpataru 6.27.70
- कोषकल्पतरु मल्लरूप्येऽन्तिमे मल्लमुशन्ति पात्रे मत्स्ये कपोले बलसंयुते च । स योषिति स्यात्तृणशूल्यवाची भल्लो[ऽथ] षण्ढे शरभेदवाची ॥ ७२ ॥ Koṣakalpataru 6.28.72
- नानार्थार्णवसंक्षेप अणिरथाद्यक्षाग्रकीले च क्लीबेऽश्रौ रूप्य एव च । वर्धमानतिथिप्रायपक्षे त्वेष पुमानथ ॥ ४९ ॥ Nānārthārṇavasaṃkṣepa 2.5.49
- नानार्थार्णवसंक्षेप कोशकृताकृते हेमरूप्ये सुषिरे सज्जनस्त्वमुम् । रन्ध्रे चारङ्ग(?) इत्याह स्त्री तु कोशी विवक्षिते ॥ २८७ ॥ Nānārthārṇavasaṃkṣepa 2.5.287
- नानार्थार्णवसंक्षेप गर्दभकुमुदे रभसस्त्वाह श्वेते कुमुद इत्यदः । रूप्ये च गरलं तु क्ली विषे पुंसि तु पादपे ॥ ६५० ॥ Nānārthārṇavasaṃkṣepa 4.650
- नानार्थार्णवसंक्षेप रसनत्रिस्त्वात्मीयेऽथ रसनं क्ली कषायद्रवान्नयोः । स्नेहे विषे फले चापि निर्यासे हेमरूप्ययोः ॥ १४७९ ॥ Nānārthārṇavasaṃkṣepa 4.1479
- नानार्थार्णवसंक्षेप रजतमृगाणां स्याद्रमयितर्यथ क्ली रजतं विदुः । पुंस्यप्येके विदू रूप्यहारयोः शोणिते ह्वदे ॥ १४८५ ॥ Nānārthārṇavasaṃkṣepa 4.1485
- नानार्थार्णवसंक्षेप कलधौतकलधौतं रूप्यहेम्नोः क्ली त्रि तु स्यात् कलध्वनौ । कलकण्ठः कोकिले द्वे समासार्थादि पूर्ववत् ॥ १३४ ॥ Nānārthārṇavasaṃkṣepa 6.134
- नानार्थार्णवसंक्षेप जातरूपजातरूपं सुवर्णे क्ली रूप्ये चार्थादि पूर्ववत् । जालपादो द्वयोर्हंसे राजहंसे तु दत्तकः ॥ २४० ॥ Nānārthārṇavasaṃkṣepa 6.240
- परमानन्दीयनाममाला कुतपकुतपस्तु जले रूप्ये भागिनेये हुताशने । दौहित्रे समये दर्भेऽष्टमेंऽशे वासरस्य च ॥ १३२ ॥ Paramānandīyanāmamālā 5.7.132
- परमानन्दीयनाममाला खर्जूरखर्जूरं तु फले रूप्ये खर्जूरी पादपान्तरे । खट्टिको महिषी [20] क्षीरफेने चण्डाललोहयोः ॥ १४७ ॥ Paramānandīyanāmamālā 5.8.147
- परमानन्दीयनाममाला तारतारा सुरगुरोः पत्नी बुद्धसुग्रीवपत्न्यपि । तारं रूप्ये प्रधानेऽपि तारा नेत्रकनीनिका ॥ २१८ ॥ Paramānandīyanāmamālā 5.15.218
- परमानन्दीयनाममाला दुर्वर्णदुर्मुखो मुखरे हस्तिभेदे वानरवाजिनोः । दर्दुरः पर्वते भेके दुर्वर्णं स्वर्णरूप्ययोः ॥ २४५ ॥ Paramānandīyanāmamālā 5.16.245
- शिवकोष शीतशिता सिता चोपलायां क्लीबे तु श्वेतचन्दने । शीतं मलयजे रूप्ये जलकुम्भ्यामथास्त्रियाम् ॥ १८५ ॥ Śivakoṣa 12.1.185
- शिवकोष श्वेतगवादन्यामथ क्लीबं रूप्ये च हरिचन्दने । Śivakoṣa 12.1.11
- शब्दरत्नावली श्वेतश्वेतं रूप्ये सिते नाद्रौ श्वेताम्रे च कपर्दके । शितं शातञ्च निशिते शातं स्यात्कृशशर्मणोः ॥ Śabdaratnāvalī 7.16.62
- शब्दरत्नावली रजतरजतं स्यात्त्रिषु श्वेते क्लीबन्तु रूप्यहारयोः । रमतिः पुंसि काके स्यान्नायकेऽपि निगद्यते ॥ Śabdaratnāvalī 7.16.127
- शब्दरत्नावली खर्जूरखर्जूरस्तु खले रूप्ये शल्ये ना भूरुहे द्वयोः । खदिरी शाकभेदे स्त्री खदिरो वृक्षचन्द्रयोः ॥ Śabdaratnāvalī 7.27.70
- त्रिकाण्डशेष खर्ज्जूरभद्रमुस्ते गुवाके च खपुरोऽथ द्रुमे पुमान् । रूप्ये खले च खर्ज्जूरः खुरः कोलदले शफे ॥ ३४४ ॥ Trikāṇḍaśeṣa 3.3.344
- वैजयन्ती अणिअन्तोऽस्त्र्यवसिते मृत्यौ स्वरूपे निश्चयेऽन्तिके । नार्धमासेऽणिरक्ल्यश्रौ रूप्येऽक्षाग्रध्रुवे ध्रुवे ॥ ५ ॥ Vaijayantī 6.5.5
- वैजयन्ती श्वेतशुभ्रिर्नार्केऽर्थवत्सौम्ये शूरौ विक्रान्तकुक्कुटौ । शूलोऽस्त्री रुजि शस्त्रे च श्वेतं धवलरूप्ययोः ॥ ९२ ॥ Vaijayantī 6.5.92
- वैजयन्ती दुर्वर्णन नाक्षिमध्ये नक्षत्रे द्विजिह्वौ सूचकोरगौ । दुर्वर्णं दुष्प्रभे रूप्ये देयभेदे तु दक्षिणा ॥ ४५ ॥ Vaijayantī 7.5.45
- वैजयन्ती रसननिर्यासे हेम्नि रूप्ये च जिह्वास्वादनयोर्न ना । रेवटं दक्षिणावर्तशंखे रेणौ तु रेवटः ॥ ६९ ॥ Vaijayantī 7.5.69
- वैजयन्ती कलधौतवचाजमोदयोरुग्रगन्धा ना लशुने सिते । कलधौतं रूप्यहेम्नोः षण्डस्त्री तु कलध्वनौ ॥ ५ ॥ Vaijayantī 8.5.5
- वैजयन्ती हंसवायसस्य च पर्यायाः क्रमात् पूर्वादिवेश्मसु । हंसेन्दुकुमुदां रूप्ये कुमुदेऽपि खरस्य षण् ॥ ६ ॥ Vaijayantī 8.6.6