न्यङ्कु
nyaṅkuपुं · masc.In 11 kośas: 11 synonym verses, 5 as a nānārtha head word, 2 as a meaning of another word.
मृगभेदा रुरुन्यङ्कुरङ्कुगोकर्णशम्बराः ॥ १२९३ ॥चमूरुचीनचमराः समूरैणर्श्यरौहिषाः ।कदली कन्दली कृष्णसारः पृषतरोहितौ ॥ १२९४ ॥
अनुष्टुप्
genderपुंmasc.
कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः ।गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः ॥ १० ॥गन्धर्वः शरभो रामः सृमरो गवयः शशः ।इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
एणः कुरङ्गो हरिणो मृगः स्यात्सारङ्ग ऋष्यः पृषतो रुरुश्च ।न्यङ्कुस्तथा रङ्कुरिति प्रसिद्धा,वातप्रमीशम्बरकृष्णसाराः ॥ २३० ॥
इन्द्रवज्रा
genderपुंmasc.
ध्वजोऽतिभारगो मिश्रशब्दोऽप्यथ महामृगाः ।वराहमहिषन्यङ्कुरुरुरोहितवारणाः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
वातायुः कृष्णसारस्तु कलमः कृष्ण इत्यपि ।एणोऽप्यथ पुनर्न्यङ्कुर्वङ्कुणो मृगसंनिभः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
आधो निष्क्रान्तदन्तः स्यात्सुग[66b]न्धीर्मदतीमृगः ।* * * * * * * स्याद्वनगौश्चामरोऽपि च ।न्यङ्कुस्तु बहुशृङ्गः स्याद्रोहित्स्त्री रोहिताङ्गना ॥ ३५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कुरङ्गमृगसारङ्गा वातायुहरिणावपि ।तद्भेदा रङ्कुगोकर्णन्यङ्कुचीनादयो मताः ॥ १९८ ॥
अनुष्टुप्
genderपुंmasc.
मृगभेदा न्यङ्कुरङ्कुरुरुरोहिषरौहिषाः ।चमूरुचमरचीनाः समूरैणर्श्यरोहिताः ॥ २३३८ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 र (wrong syllable)
genderपुंmasc.
मृगभेदाः कृष्णसार-रुरु-सम्बर-रौहिषाः ।गोकर्ण-रङ्क-चमर-न्यङ्कु-गन्धर्व-रोहिताः ॥
अनुष्टुप्
genderपुंmasc.
स गोकर्णोऽसितो रामो रोहिषो गर्दभाकृतिः ।न्यङ्कुस्तु शम्बराकारस्त्रिकेण विपुलोन्नतः ॥ ६८३ ॥
अनुष्टुप्
genderपुंmasc.
न्यंकुस्तु शंबराकारस्त्रिकेण विपुलोन्नतः ।परंपरस्तु गोकर्णः पोटरूपस्तु तत्समः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
न्यङ्कुर्गुरुकुलेवासिशिष्ये मुन्यन्तरे च ना ।मृगभेदे द्वयोर्नप्ता पुनर्दौहित्रपौत्रयोः ॥ ६७० ॥
अनुष्टुप्
ग्राहाभ्राहिगजा नागा नाभिः क्षत्रे महानृपे ।न्यंकुर्गुरुकुलेवासी शिष्यो मुनिमृगावपि ॥ ३० ॥
अनुष्टुप्
doubtful
न्यङ्कु as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप शीर्वीशीर्वी न्यङ्कौ कृमौ चाथ मद्ये शीथुर्नृशण्डयोः । पक्वैरिक्षुरसैः सिद्धमद्यभेदेऽपि मन्वते ॥ १३७६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1376
- परमानन्दीयनाममाला कदलीकच्छपे भाण्डभेदेऽथ कदली न्यङ्कुमोचयोः । कान्तारं विपिने विघ्ने दुर्गमार्गेक्षुभेदयोः ॥ १३१ ॥ Paramānandīyanāmamālā 5.7.131