कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वृन्द

vṛndaक्ली · neut.

In 14 kośas: 14 synonym verses, 41 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1412 · p. 53
संघाते प्रकरौघवारनिकरव्यूहाः समूहश्चयःसंदोहः समुदायराशिविसरव्राताः कलापो व्रजः ।कूटं मण्डलचक्रवालपटलस्तोमा गणः पेटकंवृन्दं चक्रकदम्बके समुदयः पुञ्जोत्करौ संहतिः ॥ १४११ ॥समवायो निकुरम्बं जालं निवहसंचयौ ।जातं तिरश्चां तद्यूथं संघसार्थौ तु देहिनाम् ॥ १४१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.40
समूहे निवहव्यूहसंदोहविसरव्रजाः ।स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः ॥ ३९ ॥समुदायः समुदयः समवायश्चयो गणः ।स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ ४० ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.686 · p. 79
निकरनिकायनिवहविसरव्रजपुञ्जसमूहसञ्चयाः,समुदयसार्थयूथनिकुरम्बकदम्बकपूगराशयः ।चयसमवायवृन्दसन्दोहसमाजवितानसंहति-प्रकरघनौघसंघसंघातव्रातकुलोत्कराः स्मृताः ॥ ६८६ ॥
metre not recognised
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.202 · p. 340
जातं चापि च जालं च पेटकं काण्डमस्त्रियाम् ।पटली संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ २०२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.97 · p. 472
वृन्दतुन्दपदानां च निम्नस्य शिल्पतल्पयोः ।पुष्पान्तरीपकूर्माणां त्रिविष्टपपरीपयोः ॥ ९७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.23 · p. 200
निकुरम्बं वृन्द-जाल-जात-पेटकमन्तिमे ।चक्रमस्त्री चक्रवालं मण्डलं पटलं न ना ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.1 · p. 106
वृन्दं [श्वा]पदमत्थ(?)दं च विरुदं चाच्छोद-तुन्दाङ्गदंगोर्दं गोद-कुसीद-मेद-कुसिदं तद्वत्ककुत्स्या*तम् ।आनद्धं मुरजादिकेषु तिमिरेऽन्धं वृद्धमप्यद्रिजे-ऽवष्टब्धं च महौषधं निगदितं तुल्यें ऽशकेऽर्धं तथा ॥ १ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
genderक्लीneut.
एते स्त्रियां भवन्ति । इयं मथुरा नगरी । तनुः शरीरम् । तनूस्तदेव । वर्त्तिनी काष्ठोद्भवं शब्दसाधनम् । सूची मूलं पापस्य । यवागूः अन्नविकारः । वर्णिः सर्णिः । निकाशा कर्षविकारः । शर्करा गुडविकारः । तर्कः पुंसि भवति । अयं तर्क ऊहः । चशब्दः पादपूरणे ।बन्धुरविषाणयोस्त्रिकं भवेत्प[ल्प]ल्वलं तृतीयं स्यात् ।शकटोशीरकुतूहलशराववृन्दानि जानीहि ॥ ८३ ॥
metre not recognised
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.303 · p. 90
समूहः प्रकरः संघो निकरौघव्रजा अपि ।संघातो मण्डलं चक्रवालं वृन्दकदम्बके ॥ ३०३ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.91 · p. 222
वृन्तं शीताश्मन्तभूतानि वार्त्तंतूस्तं तुन्दं गोदमुक्थं कुशीदम् ।वृन्दाच्छोदे शिल्पतल्पास्पदानिवाहित्थं स्यात्कूर्परूपे पदं च ॥ ९१ ॥
शालिनी
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.84 · p. 42
यमलं मिथुनं द्वैतं त्रयं च त्रितयं त्रयी ।समूहो निवहो व्यूहो वृन्दं चक्रं कदम्बकम् ॥ ८४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2564 · p. 414
चक्रवालश्चयश्चक्रं जातं जालं च मण्डलम् ।निवहो विसरो चारो व्रातो वृन्दं तथा व्रजेः ॥ २५६४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.106 · p. 89
क्लीबे तु वृन्द-पटल-मण्डलानि कदम्बकम् ।गणः समुदयो जालं जातञ्च निकुरम्बकम् ।समवायः संहतिः स्त्री विज्ञेयाः पञ्चविंशति ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.167 · p. 148
अयुनं प्रयुतं कोटिरर्वुदो वृन्द इत्यपि ।अथ खर्वो निखर्वश्च शङ्खः पद्मश्च सागरः ।अन्त्यो मध्यः परार्धञ्च संख्या निगदिताः क्रमात् ॥
अनुष्टुप्
genderपुंmasc.

वृन्द as a meaning in nānārtha verses