युग
yugaक्ली · neut.In 20 kośas: 33 synonym verses, 11 as a nānārtha head word, 30 as a meaning of another word.
युंगधरं कूवरं स्याद्युगमीशान्तबन्धनम् ॥ ७५६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
राजिर्लेखा ततिर्वीथी मालाल्यावलिपङ्क्तयः ।धोरणीश्रेण्युभौ तु द्वौ युगलं द्वितयं द्वयम् ॥ १४२३ ॥युगं द्वैतं यमं द्वन्द्वं युग्मं यमलयामले ।
अनुष्टुप्
genderक्लीneut.
स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम् ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
युग्मं युगं च युगलं द्वन्द्वं द्वितयं यमं यमलम् ।स्त्रीपुंसयोस्तु युग्मं मिथुनं परिकथ्यते सद्भिः ॥ ७०० ॥
उपगीतिः
genderक्लीneut.
चतस्रश्चतुरो वेदा सागराब्धिकृताश्चतुः ।समुद्राम्भोनिधियुगा श्रुतिनीररगीश्वराः ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.
अस्त्रियामप्यथ युगमस्त्री यानमुखं पुनः ।ईषान्तबन्धनं चापि धूर्द्धूर्वी च स्त्रियावुभे ॥ १३७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
त्रिपञ्चा एवमेकद्वाः षट्सप्ता अपि पञ्चषाः ।भूचन्द्रभुजनेत्राग्निगुणवेदयुगा अपि ॥ ४९५ ॥
अनुष्टुप्
genderक्लीneut.
स्त्री द्वयी द्वितयं द्वन्द्वे युगलं यमलं युगम् ।स्त्रीपुंसौ मिथुनं युग्मं द्वैतं च युतकं मिथु ॥ २०६ ॥
अनुष्टुप्
genderक्लीneut.
अपूर्वदैवकार्यादौ युगं दृष्टं तथा कटु ।असेद्वृद्धः स्थले धन्वारिष्टमद्रुमपक्षिणोः ॥ ७९ ॥
अनुष्टुप्
genderक्लीneut.
स्त्रीपुंसौ मिथुनं द्वंद्वेऽपत्ययुग्मं च युग्युगम् ।युगलं यमलं द्वंद्वं यमं संघाटिका द्वयम् ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
वृतिः सुगहना कुम्बो स्यात्स्तम्भे युग-यूपकौ ।चषालोऽस्त्री तत्कटको यूपाग्रं नर्म न स्त्रियाम् ॥ ३६ ॥
अनुष्टुप्
genderक्लीneut.
युगं द्वितीयं प्रासङ्गो युगं त्वीशान्तबन्धनम् ।अनुकर्षो दार्वधःस्थं शम्या स्त्री युगकीलकः ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
यानवाचकपरो युगस्तथाकेवलोऽपि च स यूपवाचकः ।वाद्यमुद्गरविवर्जितो घनेव्रीहिनामनि तथैव हायनम् ॥ १० ॥
रथोद्धता
genderपुंmasc.
मताः खान्तेषु चत्वारः शङ्खः पुङ्खो नखं मुखम् ।अधिकाङ्गः पद्मरागः संयुगं च युगं भगम् ॥हिङ्गूद्योगौ टङ्ग-शृङ्गौ निदाघोऽध्यर्घ-वद्भवेत् ।अर्धर्चः क्रकचः कूर्चः कवचः पुच्छ उञ्छवत् ॥ ४० ॥
अनुष्टुप्
genderपुंक्लीm. n.
ऋद्वौ सिद्धिर्युगं योग्यं रथाङ्गं मङ्गलं वसु ।ऋषिसृष्टा सुखं लक्ष्मीर्वृद्धेरप्याह्वया अमी ॥ १७४ ॥
अनुष्टुप्
genderक्लीneut.
द्वयं द्वितयमुभयं यमलं युगलं युगम् ।युग्मं द्वन्द्वं यमं द्वैतं पादयोः पातु जैनयोः ॥ २ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
genderक्लीneut.
यानार्थवाचकादग्रे युगशब्दो नृलिङ्गगः ।पुमान् स्यादसमाहारे द्वन्द्वोऽश्ववडवाविति ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
दैवे दिष्टमकार्यादौ कट्वयूपे युगं स्मुतम् ।असमासे मतं द्वन्द्वं नन्तं धन्व स्थलेऽपि च ॥ ७७ ॥
अनुष्टुप्
genderक्लीneut.
पिण्याकझर्झरकहंसकतण्डकानिमस्तिष्कशङ्खमुखपुङ्खनखाधिकाङ्गाः ।उद्योगटङ्गयुग [संयुग?] पद्मरागाःशृङ्गं भगः क्रकचकूर्चनिदाघकुञ्जाः ॥ १३३ ॥
वसन्ततिलका
genderपुंक्लीm. n.
संवत्सरो युगः कल्पं कालस्येत्यादयो भिदाः ।वसन्तग्रीष्मवर्षाश्च शरद्धेमन्त एव च ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
नीलो रामोऽञ्जनाभश्च कर्बुराद्यास्तु मिश्रिताः ।युग्मं द्वयं युगं द्वंद्वमुभयं युगलं द्वयी ॥ ८३ ॥
अनुष्टुप्
genderक्लीneut.
स चक्रमध्यभागोऽस्ति कूबरं वै युगन्धरम् ।उक्तं युगस्य काष्ठं तद् युगमीशान्तबन्धनम् ॥ १२३३ ॥
अनुष्टुप्
genderक्लीneut.
यमलं यामलं युग्मं युगलं जकुटं युगम् ।यमं च द्वितयं चेति नामानि युगलस्य वै ॥ २५८७ ॥
अनुष्टुप्
genderक्लीneut.
स्त्रीपुंसौ मिथुनं द्वन्द्वं द्वन्दमित्यपि कुत्रचित् ।द्वन्द्वञ्च यमलं युग्मं स्याद्युगं युगलञ्च युक् ॥
अनुष्टुप्
genderक्लीneut.
श्रेणिः श्रीणी च युग्मे तु युगवद्युगलं यमम् ।यमलं यामलं द्वन्द्वं दन्द्वं द्वैतं द्विती द्वयम् ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
स्त्रीपुंसौ युगली युग्मं युगलं युगमित्यपि ।संघातसंघसमुदयसमवायस्तोमनिवहसमुदायाः ॥ ८२६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
स्युः खगोत्पतवारङ्ककण्ठाग्निव्योमचारिणः ।युगलद्वन्द्वयुग्मानि युगं यमलयामले ॥ ३७ ॥
अनुष्टुप्
genderक्लीneut.
आनापजननाडीभ्यो युगमङ्गं पदं व्रणम् ।अनक्षे दुन्दुभिरथ बहुत्वेऽप्यसवो ग्रहाः ।सक्तवो वल्कजालाजा दाराः प्राणा दशा इति ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
द्वन्द्वं द्वन्दं युगलं युग्मं युगं मिथुनं मिथः ॥ ३४ ॥
genderक्लीneut.
हस्तद्वयं तु सक्तिष्कुर्हस्तत्रयमलीमकम् ।चतुर्हस्तो धनुर्दण्डो धनुर्धन्वंतरं युगम् ॥ ५७ ॥
अनुष्टुप्
genderक्लीneut.
योग्यारथो वैनयिको जैत्रप्रभृतयस्त्रिषु ।धूः स्त्री धुर्वी यानमुखं युगमीषान्तबन्धनम् ॥ १३० ॥
अनुष्टुप्
genderक्लीneut.
मिथुनं द्वितयं द्वैतं द्वयं द्वंद्वं युगं यमम् ।यमलं युगलं युग्मं युतकं च द्वयोर्गणे ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
शततममेकशततमं सहस्रतममिति च सर्वमेकविधम् ।ओजमयुग्मं युग्मं युगिति द्वितीयतुर्यादि ॥ २३ ॥
आर्याmetre not read in every line
genderविadj.
कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे ।यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु ॥ २४ ॥
अनुष्टुप्
त्रिस्तु गन्तरि तत्रापि स्त्र्यर्थे यात्रीति मन्यताम् ।युगं तु क्ली चतुर्हस्तप्रमाणेऽन्य( तमं ? मते ) पुनः ॥ १०६२ ॥
अनुष्टुप्metre not read in every line
meaningsचतुर्हस्तप्रमाण
षडशीत्यङ्गुले माने प्रोक्तं चाङ्गुलमानकम् ।अणुसंज्ञकधान्यानां चतुर्दशकमङ्गुलम् ॥ १०६३ ॥
अनुष्टुप्
meaningsषडशीत्यङ्गुलमान
doubtful
इत्येवमथ कालेषु कृतत्रेतादिषु स्मृतम् ।जन्मपर्वसु युग्मे च त्रि तु तद्वत्यथो नृनप् ॥ १०६४ ॥
अनुष्टुप्
लाङ्गलस्यन्दनादीनामीषाबन्धनदारुणि ।ऋद्धिसंज्ञकभैषज्ये पुनः स्त्री स्याद्युगाऽथ नप् ॥ १०६५ ॥
अनुष्टुप्
meaningsईषाबन्धनदारु
बृद्धिनामौषधेऽपि स्याद् युग्मे हस्तचतुष्टये ।योगोऽपूर्वार्थसंप्राप्तौ विष्कम्भादिषु भेषजे ।देहस्थैर्यप्रयोगे च सङ्गतिध्यानयुक्तिषु ॥
अनुष्टुप्
युगोऽस्त्री स्यन्दनाद्यंगे क्ली तु युग्मे कृतादिके ।योनिः स्त्रीणां भगे स्थाने कारणे ताम्रकेऽप्यषण् ॥ ६६ ॥
अनुष्टुप्
युग as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् त्रेताउदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे । Amarakośa 3.3.135
- नामलिङ्गानुशासनम् कृतश्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम् । Amarakośa 3.3.150
- नामलिङ्गानुशासनम् द्वापरगुरू गीर्पतिपित्राद्यौ द्वापरौ युगसंशयौ ॥ १६२ ॥ Amarakośa 3.3.162
- धरणिकोश त्रेतामुक्तिः स्यान्मोचने मोक्षे युक्तिर्न्याये नियोजने । चिता छन्ने चुल्लिकायां त्रेता वह्नित्रये युगे ॥ Dharaṇikośa 15.1.5
- धरणिकोश कृतश्रितं वितन्वहस्ते च वादिते च मतेऽपि च? । कृतं युगे च पर्याप्ते निष्फले कृतमव्ययम् । स्थितमूर्ध्वे गत्यभावे सुप्रतिज्ञे सुनिश्चिते ॥ Dharaṇikośa 15.2.1
- धरणिकोश सत्यसत्यं युगे च लोके स तपोलोकात्परस्तु यः । सत्या स्यात्सत्यभामायां सत्यं शपथतथ्ययोः ॥ Dharaṇikośa 25.3.13
- धरणिकोश द्वापरप्रसरः प्रणये वेगे द्वापरः संशये युगे । भ्रमरः कामुके भृङ्गे इतरः पामरान्ययोः ॥ Dharaṇikośa 26.1.15
- कोषकल्पतरु युतकयुतकं संशययुगयोर्यौतकमुक्तं वधूवस्त्रे । चलनाग्रेऽपि वियुक्ते कृषकः फाले कृषीवले चोक्तः ॥ २६ ॥ Koṣakalpataru 6.1.26
- कोषकल्पतरु कणधान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवे कृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे । कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक- श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु । व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो- ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः । ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौ मूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः । संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणो घ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् । काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौ बाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥ Koṣakalpataru 6.15.3
- कोषकल्पतरु श्रावणउडुभिदि तु युगे स्याच्छ्रावणो मासभेदे ऽतनुमतनिगमे च स्त्री तु दध्यालिकायाम् । श्रमण इह कुजीविन्युच्यते भिक्षुभेदे रुचिररुचि तु मुण्ड्यां मांसिकायां तु योषित् ॥ २७ ॥ Koṣakalpataru 6.15.27
- कोषकल्पतरु कृतरतं घृतं त्वाज्यपयःसु न स्त्री दीप्तेऽन्यवत्स्यादृतमुञ्छवृत्तौ । सत्ये च तोये परवत्प्रदीप्त- सपूज्ययोश्चाथ कृतं युगे स्यात् ॥ ३ ॥ Koṣakalpataru 6.16.3
- कोषकल्पतरु त्रेतात्रेता युगेऽग्नित्रितयेऽपि योषित् लता तु शाखाहरिताफलीषु । ज्योतिष्मतीस्पृग्व्रततीषु वल्ली- कस्तूरिकायामतिमुक्तकेऽपि ॥ ४२ ॥ Koṣakalpataru 6.16.42
- कोषकल्पतरु बस्तिधात्र्यामथो बान्धवतातयोः स्या- ज्ज्ञातिर्द्वयोः प्रातिरियं प्रदेशे । पूर्तौ च बस्तिस्तु युगे च नाभे- रधोनिरूहेऽपि दशासु भूम्नि ॥ ६३ ॥ Koṣakalpataru 6.16.63
- कोषकल्पतरु मित्रसदाप्रदाने च मखेऽथ सूत्रं स्यात्सूचनाग्रंथकतन्तुवाचि । न स्त्री च मित्रं तु युगे न सख्यौ भासां निधौ[47a]पुंसि वदन्ति सन्तः ॥ ३१ ॥ Koṣakalpataru 6.27.31
- कोषकल्पतरु शस्त्रस्याद्वृत्तमानेऽथ युगे न शस्त्रं लोहास्त्रयोः स्याच्छुरिकासु योषित् । अस्त्रं तु चापे प्रहृतौ च खड्गे वक्त्रं मुखे वृत्तविशेषकं स्त्री ॥ ३३ ॥ Koṣakalpataru 6.27.33
- कोषकल्पतरु द्वापरशम्भौ स्वामिनि मन्मथे च विभवैराढ्ये भवेदीश्वरः पार्वत्यां गदिता स्त्रियामथ युगेऽस्त्री संशये द्वापरम् । उत्पत्तिस्थलसङ्घसत्तमगतः पुं[56a]स्याकरो भास्कर- स्त्वग्नौ चार्यमणि प्रभाकरसमो ध्वान्ते घने शार्वरम् ॥ ३६ ॥ Koṣakalpataru 6.27.36
- कोषकल्पतरु अलिपत्राञ्जनेऽलिस्तु युगे द्विरेफे मद्ये स्त्रियां पुंसि तु वृश्चिके स्यात् । आलिस्तु पङ्क्तावपि सेतुसख्योः कलिः पुमान्स्यात्कलहे च युद्धे ॥ ८७ ॥ Koṣakalpataru 6.28.87
- नानार्थार्णवसंक्षेप नालिकादीधितिस्त्वङ्गुलौ रश्माविभीधेन्वोस्तु धेनुका । नालिका तु चतुर्हस्तप्रमाणे युगसंज्ञके ॥ ३७ ॥ Nānārthārṇavasaṃkṣepa 3.1.37
- नानार्थार्णवसंक्षेप ?रथादीनां युगे चाथ कफेलू ः पुंसि पादपे । श्लेष्मातकसमाख्येऽथच्छादिषेयतृणे स्त्रियाम् ॥ ४२४ ॥ Nānārthārṇavasaṃkṣepa 4.424
- परमानन्दीयनाममाला कृतकालिकायां परीवादे कीर्णः छन्ने हतेऽपि च । कृतं फले युगे पर्याप्तेऽपि तद्विहिते त्रिषु ॥ ९८ ॥ Paramānandīyanāmamālā 5.7.98
- शिवकोष हृद्यहृद्यो लुङ्गे युगे हृद्या मुरायां जलकुब्जके । हृद्यं गुडत्वचायां च कृष्णजीरे तु न स्त्रियाम् ॥ ३५० ॥ Śivakoṣa 21.1.350
- शब्दरत्नावली युतकयुतकं चलनाग्रे तु यौतुके संशये युगे । नारीवस्त्राञ्चले युक्ते स्यात् मैत्रीकरणेऽपि च ॥ Śabdaratnāvalī 7.1.127
- शब्दरत्नावली त्रेतातूस्तं धूलौ जटायाञ्च पापे सूक्ष्मे च न द्वयोः । त्रेताग्नित्रितये युगे तिप्राणितेरिते ॥ Śabdaratnāvalī 7.16.15
- शब्दरत्नावली कलिकलं शुक्रेऽन्यलिङ्गं स्यादजीर्णे मधुरध्वनौ । कलिः कलहशूराजिकलिकायुगभित्सु च ॥ Śabdaratnāvalī 7.28.5
- शब्दरत्नाकर द्वन्द्वद्वन्द्वं वसन्तग्रीष्मादिमिथुने कलहे युगे । दृष्टिर्दर्शनधीदृक्षु दाम प्रग्रहमाल्ययोः ॥ १९४१ ॥ Śabdaratnākara 4.1.1941
- शब्दरत्नाकर द्वापरद्विजेन्द्रो ब्राह्मणे चन्द्रे सुपर्णे द्वापरो युगे । संदेहेऽथ सपिण्डे स्याद्दायादस्तनयेऽपि च ॥ २१०२ ॥ Śabdaratnākara 4.1.2102
- शब्दरत्नाकर युतकयुञ्जानः सारथौ विप्रे युतकं यौतके युगे । वस्वाञ्चले वधूवस्त्रे यजनं यज्ञपूजयोः ॥ २१५१ ॥ Śabdaratnākara 4.1.2151
- वैजयन्ती त्रेतातुला साम्ये स्तंभपीठे लेशसंशययोस्त्रुटिः । तूली शय्याकूर्चिकयोस्त्रेता त्वग्नित्रये युगे ॥ १७ ॥ Vaijayantī 6.2.17
- वैजयन्ती कृतयुगेऽक्षपाते पर्याप्ते कृतं क्ली विहितेऽर्थवत् । क्ष्वेडा वेणुशलाकायां सिंहनादे विषे तु ना ॥ २१ ॥ Vaijayantī 6.5.21
- वैजयन्ती द्वापरसपिण्डपुत्रौ दायादौ द्वापरौ युगसंशयौ । दिवौकाश्चातके देवे द्रुघणौ धातृमुद्गरौ ॥ ३० ॥ Vaijayantī 7.1.30