क्लोमन्
klomanक्ली · neut.In 14 kośas: 12 synonym verses, 5 as a meaning of another word.
दक्षिणे तिलकं क्लोम वामे तु रक्तफेनजः ।पुष्पसः स्यादथ प्लीहा गुल्मोऽन्त्रं तु पुरीतति ॥ ६०५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
genderक्लीneut.
तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम् ॥ ६५ ॥
अनुष्टुप्
genderक्लीneut.
बुक्कं स्यादग्रमांसं च तिलकं क्लोम कथ्यते ।कृमिः कीटस्तु नीलङ्गुः पुलकश्च समः स्मृतः ॥ ६३६ ॥
अनुष्टुप्
genderक्लीneut.
धमनिर्धमनी नाडी नाडिर्नालिः शिरा सिरा ।क्लोम क्लोमं प्लिहन् प्लीहन् प्लिहाप्लीहे अपि स्मृते ॥ १७४ ॥
अनुष्टुप्
genderक्लीneut.
वुक्कस्त्रिषु यकृत् क्लोम ताड्यं क्लपुषमित्यपि ।वल्लूरं त्रिषु षण्मुष्कमांसं सरसमुत्तमम् ॥ २२८ ॥
अनुष्टुप्
genderक्लीneut.
क्लोमधौतेयकद्वारफेनानां लवणस्य च ।प्रसूनव्यजनस्थानद्रवन्नामानि यानि च ॥ ७७ ॥
अनुष्टुप्
genderक्लीneut.
रोमावली रोमलता शिखरिण्युदरं पुनः ।उदलं जाठरं तुन्दं कुक्षि-कुक्षौ च गर्भकः ॥पिचण्डं जठरो न स्त्री तुन्दिः स्यात्तत्र च स्त्रियाम् ।कृपीटं कालखण्डं तु कालखञ्जं च कालकम् ॥यकृत्कालेयकमथ तिलकं क्लोम दक्षिणे ॥ ७० ॥
अनुष्टुप्
genderक्लीneut.
दलतालुबिलाम्भोरुह् मरिचव्यञ्जनाम्भसाम् ।घुसृणागुरुसौवीरक्लोमसिध्मयकृद्युधाम् ॥ ७३ ॥
अनुष्टुप्
genderक्लीneut.
गर्भे दक्षिणभागस्थे लोहिते मांसखण्डके ।तिलकं क्लोममिति च मस्तमांसे तु गोर्दभम् ॥ १३१ ॥
अनुष्टुप्
genderक्लीneut.
क्लोमक्लोमन्तु तिलकं त्रयं धवलवुक्कके ।मस्तुलुङ्गन्तु मस्तिष्कं गोर्दञ्च मगजाह्वये ॥
अनुष्टुप्
genderक्लीneut.
मांसभेदे तु वृक्कोऽस्त्री डिम्बः पुंस्युण्डुकोऽस्त्रियाम् ।समे तु तिलकक्लोम्नी समे आन्त्रपुरीतती ॥ १११५ ॥
अनुष्टुप्
genderक्लीneut.
तिलकं क्लोम गोर्दं तु मस्तिष्को मस्तुलुङ्गकः ।पेशिर्मांसलताथ द्वौ वृक्यौ पार्श्वगतौ गुडौ ॥ ११२ ॥
अनुष्टुप्
genderक्लीneut.
क्लोमन् as a meaning in nānārtha verses
- धरणिकोश तिलकतिलकं जटुलं विद्याच्चित्रके पादपान्तरे । कृष्ण्यां सौवर्चले क्लोम्नि तिलकं तिलकालके ॥ Dharaṇikośa 1.3.19
- कोषकल्पतरु कमलमृगप्रभेदे कमलः स्त्रियां श्री- वरस्त्रियोः क्लोम्नि जले च ताम्रे ॥ ९२ ॥ Koṣakalpataru 6.28.92
- नानार्थार्णवसंक्षेप तिलकतिलकालकसंज्ञे च पिप्लुभेदे नपि त्वदः । जठरावयवे क्लोमसंज्ञे द्वे तु हयान्तरे ॥ ८५६ ॥ Nānārthārṇavasaṃkṣepa 4.856
- शब्दरत्नावली तिलकतिलको वृक्षसर्पाश्वभेदेषु तिलकालके । क्लोम्नि सौवर्चले क्लीबमस्त्रियान्तु विशेषके ॥ Śabdaratnāvalī 7.1.84
- त्रिकाण्डशेष तिलकतिलकं चित्रके क्लोम्नि ना तरौ तिलकालके । गृहदारौ तण्डकोऽस्त्री समासप्रायवाचि च ॥ २५ ॥ Trikāṇḍaśeṣa 3.3.25